किमर्थमागता यूयं शीघ्रं ब्रूत द्विजोत्तमाः । द्विजा ऊचुः - वयमिच्छामहे सर्वे सर्वसंपत्समन्विते
विमाने कामगे रोढुं तत्संपादय नो गुरो । तत्तेषां चिंतितं श्रुत्वा वसिष्ठो वाक्यमब्रवीत्
पुराणं सर्वदा विप्राः श्रोतव्यं पापनाशनम् । धर्मश्चार्थश्च कामश्च मोक्षस्तत्रैव दृश्यते
तथेत्युक्त्वाथ सुनयः पुराणकुशलं मुनिम् । जग्मुरंगिरसं श्रेष्ठं सर्वशास्त्रविशारदम्
सर्वागमपुराणज्ञं सदा सत्कर्म्मचारिणम् । इदमूचुर्नमस्कृत्य वयं सफलजीविनः
कृतकृत्या वयं ब्रह्मन्साक्षाद्दृष्टोऽसि यन्मुने । अंगिरा उवाच- यत्कार्यमागता यूयं तत्कार्यं करवाण्यहम्
पुराणं श्रोतुकामास्तु यूयमत्र समागताः । कीर्तयिष्ये विधानं वः समस्ताघविनाशनम्
सर्वज्ञानप्रदं देवं तत्वविज्ञानसंभवम् । शिवभक्तिप्रदं हृद्यं विष्णुभक्तिप्रदं शुभम्
विचित्रस्वगतिप्राप्ति ज्ञानदं रमणीप्रदम् । नानाविधशुभज्ञानं रतितंत्रप्रकाशकम्
भुक्तिमुक्तिप्रधानं च विधिदर्शनदीपकम् । विचित्रभक्तिकथनं भक्तिसाहसकीर्तनम्
व्रतप्रतिष्ठादानादि भस्मपूजाविधिप्रद्रम् । पुराणं पाद्ममुदितं ब्रह्मपद्मोपनिर्वृतम्
महेश्वरेण कथितं प्रमथाकृतिवर्णनम् । एतदन्यत्र कथितं पुराणे पाद्म एव तु
दिलीपेनपुरापृष्टोवसिष्ठःप्रोक्तवानिदम् । तच्छृणुध्वं मुनिवरा ज्ञानं सर्वं भविष्यति
अथ तद्वचनाद्विप्राः पुराणश्रवणे रताः । कथं श्रोतव्यमधुना किं कृत्वेत्यब्रुवन्मुनिम्
सोऽपि सर्वं समाचष्ट शृणु धर्मं सनातनम् । नमस्कृत्य पुराणज्ञं दद्याच्चार्घासनं ततः
निषीद तत्र चेत्युक्त्वा गंधपुष्पैः समर्चयेत् । आत्मयोगं च तांबूलमधिकं वा समर्पयेत्
ब्रूहि पुण्यकथां ब्रह्मन्पौराणिकीमितीरयेत् । न खट्वासनमारुह्य नोच्चासनमथापि वा
नीचासनो वै शृणुयाद्धर्म्मकामार्थसिद्धये । शृण्वित्युक्त्वा पुराणज्ञ इमं मंत्रमुदीरयेत्
नमो हरिंहरमथो गणेशं भारतीमतः । इष्टदेवं नमस्कृत्वा पुराणं वक्तुमर्हति
अर्द्धयामं प्रतिदिनं यदि वापीच्छया भवेत् । एवं पाठसमाप्तिं च श्रुत्वा कृत्यं समाचरेत्
श्रोतुश्च तूष्णीं मननं तूष्णीं श्रवणमेव वा । अन्यथा भारती क्रुद्ध्येत् तत्क्रोधान्मूकता भवेत्
तस्मात्पुराणश्रोता च तांबूलादिसमर्पणम् । वक्तुश्च जीविकाकार्या स्वसामर्थ्यानुसारतः
पुराणप्रक्रमे देयं सचेलोद्गमनीयकम् । सूक्ष्मांबरमथो वापि वस्त्रद्वितयमर्पयेत्
आसनं तु महच्चित्रं रम्यमूर्जस्वलं मृदु । सुवर्णं वा तथा दद्याद्गो भू गेहादिकं तथा
एतत्समस्तं विप्रेंद्रा दक्षिणामूर्तिना पुरा । शंकरेण मुनीनां हि भाषितं च दिवौकसाम्
अथ ते मुनयः सर्वे तं प्रणम्यासनस्थितम् । पृथक्पृथक्च तांबूलं दत्वा शुश्रूषवः स्थिताः
तेनापि कथितं सर्वं पुराणं सर्वसंप्रदम् । उपांताध्यायपर्य्यंतं श्रुतवंतो द्विजोत्तमाः
दिलीप उवाच- कामगेन विमानेन सर्वसंपत्समृद्धिना । सर्वतः सुखयुक्तेन पुण्यस्थानमुपस्थितम्
वसिष्ठ उवाच- नालं पृष्टं त्वया राजन्नितोप्यतिशयांतरैः । क्रीडमाना भविष्यंति येन तत्पुण्यमुच्यते
सुधाधवलितं कृत्वा शिववेश्मसमं ततः । स्त्रियो रूपविलासाढ्याः सर्वालंकारभूषिताः