जाते विषादे तु व्रतमसम्यगिति निश्चयः । सोमवाराः समायांति यावंतोब्दशतानि तु
तावंति मत्पुरे देवि सर्वभोगसमन्वितः । सभार्य्यपुत्रबंधुश्च वेदोक्तायुष्यजीवितः
पश्चाद्वाराणसीं गत्वा मृतो मुक्तिमवाप्स्यति । शंभुरुवाच- अथ देवे स्थिते तत्र मुनयस्त्रिः प्रदक्षिणम्
कृत्वा पंचनमस्कारान्पुनः कृत्वा प्रदक्षिणम् । पुनश्च दंडवद्भूत्वा विसृष्टा निर्ययुस्ततः
अथ शोणः शोभितांगीं भार्यामाप ह्यनिंदिताम् । राज्यं च भारते वर्षे धर्मेणापालयद्द्विजः
मानुषानखिलान्भोगान्बुभुजे शिवभक्तिमान् । नित्यं देवार्चनपरो नित्यं ब्राह्मणपूजकः
नित्यदाता नित्ययाजी नित्यश्रोता पुराणकम् । मृतः स गतवांल्लोकं शंकरस्य विभोः शुभम्
शंभुरुवाच- नामकीर्तनमाहात्म्यं प्रसंगात्परिकीर्तितम् । शृण्वतां सर्वपापघ्नं भक्तानां च तथा नृप
सर्वकल्याणदं नित्यं सुभार्य्या राज्यदं शिवम् । शिवभक्तिप्रदं गोप्यं यस्य कस्यापि नेरयेत्
त्रयोदशोत्तरशततमोऽध्यायः 5.113 श्रीराम उवाच- खे दृश्यंते विमानस्था नानारूपधराः शुभाः । सर्वकामफलोपेताः सुभार्य्याः शतयोषितः
सहस्रनरनारीभिः पूज्यमानाः पदे पदे । गायंति विंशतिर्योषा रूपलावण्यकोमलाः
करंकवाहिनी चैका चामरासक्तबाहवः । तालवृंतद्वयं नार्य्यो वीजयंति प्रगृह्य वै
सचक्रे चांकमध्ये स्या उपधानं तथापरः । एकस्याः करयोर्हस्तः स्तावकानेकसंयुतः
नानाविधपरीहास कृतोत्फुल्लमुखांबुजः । एकैकत्र विमाने तु दृश्यते चंद्रदीधितिः
स्त्रीशतेषु विमानेषु दृश्यते ईश्वरः शुभः । एते किं पुण्यकर्तारो विष्णुमायाथवा मुने
शंभुरुवाच- एते हि ब्राह्मणाः पुण्या गृहस्थाश्रमवासिनः । येषामेव च स ग्रासो दत्तो दशरथेन ते
तेषां तु ममचित्तानां कदाचिदभवन्मतिः । यथेह सुखिनः सर्वे वयं चान्योपजीविनः
अस्मानेवानुजीवंति शतशो मनुजा इह । येन पुण्येन च वयं सर्वेकामानुमोदिनः
सुस्त्रीकृतोपचाराश्च सर्वे राज्यसुखान्विताः । जरामरणहीनाश्च युवानः सर्वदैव हि
विचार्यैवं द्विजाः सर्वे वसिष्ठस्याश्रमं ययुः । आगतानथ संपूज्य वसिष्ठो वाक्यमुक्तवान्
किमर्थमागता यूयं शीघ्रं ब्रूत द्विजोत्तमाः । द्विजा ऊचुः - वयमिच्छामहे सर्वे सर्वसंपत्समन्विते
विमाने कामगे रोढुं तत्संपादय नो गुरो । तत्तेषां चिंतितं श्रुत्वा वसिष्ठो वाक्यमब्रवीत्
पुराणं सर्वदा विप्राः श्रोतव्यं पापनाशनम् । धर्मश्चार्थश्च कामश्च मोक्षस्तत्रैव दृश्यते
तथेत्युक्त्वाथ सुनयः पुराणकुशलं मुनिम् । जग्मुरंगिरसं श्रेष्ठं सर्वशास्त्रविशारदम्
सर्वागमपुराणज्ञं सदा सत्कर्म्मचारिणम् । इदमूचुर्नमस्कृत्य वयं सफलजीविनः
कृतकृत्या वयं ब्रह्मन्साक्षाद्दृष्टोऽसि यन्मुने । अंगिरा उवाच- यत्कार्यमागता यूयं तत्कार्यं करवाण्यहम्
पुराणं श्रोतुकामास्तु यूयमत्र समागताः । कीर्तयिष्ये विधानं वः समस्ताघविनाशनम्
सर्वज्ञानप्रदं देवं तत्वविज्ञानसंभवम् । शिवभक्तिप्रदं हृद्यं विष्णुभक्तिप्रदं शुभम्
विचित्रस्वगतिप्राप्ति ज्ञानदं रमणीप्रदम् । नानाविधशुभज्ञानं रतितंत्रप्रकाशकम्
भुक्तिमुक्तिप्रधानं च विधिदर्शनदीपकम् । विचित्रभक्तिकथनं भक्तिसाहसकीर्तनम्