तुलया तुलितं सर्वं रतिः शतगुणाधिका । तन्मादृशी समासाद्य भवंतं किं करिष्यति
इति चान्यानि वाक्यानि ब्रुवाणा गृह्य वै करे । तदुत्तरमुवाचेदं किं कुर्म्मो भाग्यमीदृशम्
मा मारय दुरुक्त्या त्वं मां विज्ञायाथ चेदृशम् । एतादृशो द्विजः प्रायात्पार्वतीमंदिरं तदा
अविज्ञायैव गिरिजामिदं वचनमब्रवीत् । द्विज उवाच- अन्नार्थिनमिह प्राप्तं विद्धि मामतिथिं मुने
भोजनावसरे प्राप्तं ब्राह्मणान्न हि भोजय । तद्भार्यावचनं प्राह क्व मुनिर्योषिदेव हि
अंधस्य वचनं सर्वमेवमेतादृशं दृढम् । पार्वत्युवाच- प्रक्षाल्य चरणावेतमासने उपवेशय
जांबूनदकृतेतीव भोज्येनातर्पयद्द्विजम् । सुरत्नचषकोपेतममृतं ब्रह्मवादिनीम्
अरुंधतीमथाहूय पर्य्यवेषयदंबिका । कला चारुंधती चैव अनसूया पतिव्रता
परिवेषं पदार्थानां स्रग्गंधाक्षतभूषणाः । अकुर्वन्नंबिकावाक्यात्षड्रसानां पृथक्पृथक्
भुंजानेषु तु विप्रेषु दिग्वासा ब्राह्मणाकृतिः । क्षणेन बुभुजे सर्वं दातुं नो शेकुरंगनाः
अथ सा गिरिजा देवी स्वयं दातुं प्रचक्रमे । यथादत्तमशेषं तु क्षणेनाश्नाति स द्विजः
भांडस्थितमशेषं च भोक्तुमैच्छत्प्रिया सह । तथांबिका समादाय प्रादादक्षय्यमस्त्विति
अथ वामकरेणासौ भोक्तुमैच्छत्ततः सती । तत्राप्यक्षय्यमेवास्तु तवान्नमिति चार्पयत्
करांतरमथोत्पाद्य भोक्तुमैच्छद्द्विजोत्तमः । एवं करसहस्रं च कृत्वैच्छद्भोजनं द्विजः
दत्त्वा दत्त्वा पुनर्देवी संतुष्टा न च कोपना । न चित्तमन्यथाकर्तुं शक्यमस्या इति द्विजः
प्रक्षाल्य हस्तौ चरणौ हस्तार्पितसुगंधवान् । पार्वतीं वाक्यमाहेदं तोषितोहं वरं वृणु
पार्वत्युवाच- मम दातुं वरं शक्तो यदि त्वं ब्राह्मणोत्तम । वरेण मम किं कार्य्यं शंकरो मे यतः पतिः
तदाह ब्राह्मणो देवीं शंकरः कीदृशस्त्विति । सदृशोऽसौ त्वया नो वा त्वद्योग्यो नान्यथा भवेत्
स्त्रीवल्लभत्वमप्येव रूपं दाक्ष्यं शुभांगना । नो चेदेतादृशी भार्य्या मदधीना कथं भवेत्
पार्वत्युवाच- त्वद्भार्य्यावचनं श्रुत्वा तव वाक्यं तथा द्विज । अपलापस्त्वयं ब्रह्मञ्च्छ्रुतं किंवा तथाविषम्
ब्राह्मण उवाच- धम्मिल्लं ते करिष्यामि ममांकं त्वं समारुह । प्रचलेद्यदि ते चित्तं पातिव्रत्यं कुतस्तव
पार्वत्युवाच- मम व्रतं द्विजश्रेष्ठ शंकरांकैकरोहणम् । अथ तच्चित्तमाज्ञाय भवान्याः परमेश्वरः
द्व्यष्टवर्षवया भूत्वा सुस्निग्धकचबंधनः । सुस्निग्धचारुनयनो गोक्षीरसमविग्रहः
कोटिकंदर्पलावण्यः सर्वाभरणभूषितः । स्वपार्श्वस्थितनार्यंसे प्रसारितभुजद्वयः
गायन्मंदतया साकमुमया पटुता यथा । अथ तां पार्वतीं शंभुः करेणाकृष्य च स्मयन्
विन्यस्य हस्तौ वनिता द्वयांसे गायन्समस्ताभरणः प्रसन्नदृक् । ननर्त चानंदसमृद्धगात्रो मुनींद्र गीतश्च सकालवेलम्
एतादृशं शिवं ध्यात्वा जन्मकोटिशतेष्वपि । न दुःखं जायते तस्य सदा हर्षश्च जायते
अथ स्तुतो मुनिवरैर्नारीं कृत्वा हरिं ततः । अथ सा पार्वती तुष्टा देवं प्राह पिनाकिनम्
पार्वत्युवाच- किमित्येतादृशं भावमास्थाय त्वमिहागतः । नारीं कृत्वा तथा विष्णुं किं प्रकृत्या न चागतौ
शिवः प्राह व्रते चात्र ह्यतिथेर्भोजनं शुभम् । जाने सिद्धिमथो येषां विषादो नाभिजायते