पार्वत्युवाच- भार्या पतीसमावेव विषमौ तु विगर्हितौ । तव चासदृशी चेयं सदृशीं प्रददाम्यहम्
न च मन्मंदिरे प्राप्तां त्यक्ष्ये देहविवर्ज्जिताम् । शोण उवाच- यदि नो दीयते चेयं भार्य्यामन्यां मम प्रियाम्
राज्यं महेश्वरे भक्तिं प्रयच्छ वरमुत्तमम् । भविष्यत्येव मे वैतदित्युक्त्वा चाब्रवीन्मुनीन्
भोक्तव्यमिह युष्माभिर्ममास्मिन्दिवसत्रयम् । प्रतींदुवारे देवस्य महेशस्यैव तुष्टये
भोजनीयाः सदा कालमष्टौ विप्रा मुनीश्वराः । इच्छया यत्र कुत्रापि व्रतमेतदुपक्रमेत्
वत्सरे परिपूर्णे तु महाराज तमीश्वरम् । चतुर्निष्कप्रमाणेन तदर्द्धेनैव कारयेत्
श्वेतवस्त्रयुगं सूक्ष्मं चामरे व्यजने तथा । पादुकोपानहं च्छत्रं सर्वं विप्रे नियोजयेत्
स्वशक्त्या दक्षिणां दत्वा ब्राह्मणांश्च विसर्जयेत् । एतदुद्यापने कुर्यादादौ मध्ये तथा सुधीः
दिनेदिने तथा पूजा सोमस्य परमात्मनः
तत्पुरुषस्य विद्महे महादेवस्य धीमहि । तन्नो रुद्र प्रःचोदयात्
इति पूजामंत्रः । स्थंडिले पूजयेद्देवं प्रतिमायामथापि वा । एकभक्तं स्वयं कुर्याद्ब्रह्मचर्यसमन्वितम्
एतत्सोमव्रतं प्रोक्तं शिवतुष्टिप्रदं शुभम् । य एवं कुरुते भक्त्या नारी वा पुरुषोपि वा
छायेव शंकरस्यासौ नित्यमेवानुवर्तते । अद्य सोमदिनं प्राप्तं मध्याह्नात्परतो भुजिः
यूयं च सर्वे मुनयः कृतपौर्वाह्णिकक्रियाः । माध्याह्निकीं क्रिंयां कृत्वा भोक्तुमर्हथ सत्तमाः
मातुर्वचनमाकर्ण्य तथेत्युक्त्वा नमस्य च । अनुष्ठानाय ते सर्वे गता भागीरथीं नदीम्
संगमे मध्यतो वृत्ते कृत्वा माध्याह्निकीं क्रियाम् । विश्वेशपूजां कृत्वा च षोडशैरुपचारकैः
अथ ते पार्वतीगेहं गत्वा देवीं प्रणम्य च । लोकमातुर्नियोगेन शालंकायनकात्मजः
पादप्रक्षालनमुखानुपचारानकल्पयत् । पंचगंधकमादाय तान्मुनीनभ्यलेपयत्
राज्यं च महदाप्नोति यो दद्यात्पंचगंधकम् । पंचबाणसमो भूत्वा स्त्रीणां वल्लभतामियात्
विष्णवे यो हि दद्यात्तु सोपि मारसमो भवेत् । कामीत्वकामी यः कुर्यात्कैलासे पंचवत्सरान्
सर्वगंधसमोपेतो भोगी चेष्टार्थसंयुतः । यथेष्टवर्तनो भूत्वा ततो जायेत भूमिपः
कस्तूरीचंदनं चंद्रमगरुद्वितयं तथा । पंचगंधं समाख्यातं सर्वकार्येषु शोभनम्
विलिप्तपंचगंधेषु ब्राह्मणेषु महात्मसु । आसीनेषु तदाभ्यागाद्ब्राह्मणः स्थविरः कृशः
उन्मत्तवेषो दिग्वासा जराजर्ज्जरितस्त्वरी । खल्वाटः श्वासकासी च बहुहिक्की क्षुधान्वितः
लालास्नुतः श्मश्रुकूर्चश्लेष्मानम्रः स्खलत्पदः । द्व्यष्टवर्षा तथा नारी सर्वाभरणभूषिता
रूपलावण्यसंयुक्ता लोकोत्कृष्टस्वरूपिणी । पुरुषान्रूपसंयुक्तान्वीक्षंती च ततस्ततः
गायंती त्वथ नृत्यंती तं दृष्ट्वाह सती पतिम् । प्रबाधते वृद्धधवं शीघ्रमेहि कृशाधम
आलंब्य त्वत्करं वृद्ध दुःखिता नित्यमस्म्यहम् । भूषणं वसनं घ्राणं स्रग्विलेपनमेव च
हासो गीतिस्तथा पानं मंडनं शोभनं गृहम् । सर्वऋतुसमृद्धिश्च कामस्यैवाभिवृद्धये
सर्वेषामेव कामानां रतिरेका प्रयोजनम् । सुखानि सर्वाण्येकत्र रतिरेकत्र च स्थिता