अथ ध्यानेन तं चोरं निश्चित्य च पतिव्रता । भीतातिनम्रवदना अश्रुपूर्णमुखी तदा
कष्टमापतितं पापमित्युक्त्वा निपापत च । रुदतीं तामथो दृष्ट्वा राक्षसः पापनिश्चयः
धर्षितुं तामथारेभे न चैतद्धर्षणं प्रति । बलात्कारमथो कर्तुं यतमाने तु राक्षसे
आजानुनाभिपर्यंतं शैलस्थानमकल्पयत् । शिला समभवद्वस्त्रं राक्षसो वीक्ष्य तामथ
इत्येवं तां हनिष्यामि खादयिष्याम्यतः परम् । इत्युक्त्वा भ्रामयित्वासिं शिरश्छेत्तुं प्रचक्रमे
कलाहं मत्पतिर्ज्ञात्वा शापं दास्यति मा हर । इत्युक्तमात्रे वचसि शिरश्चिच्छेद राक्षसः
प्राप्ता यां दुर्मृतिं तस्यामथ शैवाः समागताः । दूता विचित्राभरणाः सर्वायुधधराः शुभाः
एतां विमानमारोप्य शिवालोकमुपागमन् । तामागतां गिरिसुता हर्षेण प्रतिपूज्य च
स्वपादप्रणतां शुद्धामुमा वाक्यमभाषत । पातिव्रत्येन ते तुष्टा अभीष्टं प्रददामि ते
कलोवाच- दासीभावं प्रयच्छ त्वं त्वत्पादाब्जं मम प्रियम् । प्रार्थ्यैःकिमन्यैर्बहुभिस्तथास्त्विति शिवाब्रवीत्
इंद्रादिवनिताभिः सा पूजिताथ कलानिधिः । एतस्मिन्नंतरे प्राप्तः शोणो मुनिरथो गृहम्
न तत्र दृष्ट्वा तां भार्यां ध्यानयोगपरोभवत् । रक्षोहृतां मृतां प्राप्तां शिवालोकमुमां प्रति
उमादत्तवरां चापि दृष्टवाञ्ज्ञानचक्षुषा । किंचिद्दुःखश्चिरं ध्यात्वा परावृत्य मुनिस्तदा
श्वशुरं गतवान्सोऽथ देवरातं मुनीश्वरः । निवेद्य सर्वं सहितो विश्वामित्रमगान्मुनिम्
निवेद्य तद्वसिष्ठस्य वसिष्ठोऽप्याह तान्मुनीन् । गत्वा कैलासमादौ तु दृष्ट्वा देवं महेश्वरम्
अनुज्ञां शिवतो लब्ध्वा पार्वतीमंदिरे गताः । देव्यै विज्ञाप्य तत्सर्वं यथार्थं प्रवदामतत्
तथेत्युक्त्वा मुनिवराः कैलासं शंकरालयम् । गत्वा प्रणम्य देवेशं वीरभद्रेण पूजिताः
विज्ञापयामासुरिदं शोणभार्य्याहृतेति च । शिवः प्राह मुनींद्रास्तांञ्ज्ञातमेव मया त्विदम्
अकालमरणं त्वस्या आयुर्वर्षशतं स्थितम् । अकालमृत्युयुक्तानां पुनर्ज्जीवनमस्ति च
दशपुत्रप्रसूर्वीरा रूपसौभाग्यवत्यपि । भवद्भिरिति निश्चित्य समागतमिह द्विजाः
यमलोकगतानां तु सर्वमेतद्विनिश्चितम् । ममलोकगतानां च गतिरन्या न विद्यते
अनया कीर्तितं नाम प्राणनिर्गमने पुरा । तया यमलिपिर्मृष्टा कथमायुष्यनिर्णयः
अथवा गिरिजायै च निवेदयत कृत्स्नशः । अथ ते पार्वतीपाददर्शनाय गता द्विजाः
प्रणम्य मातरं सर्वे विश्वामित्रोऽब्रवीदिदम् । दीनानाथाकृशा भार्या प्रणष्टपितृकाञ्छिशून्
रक्षयित्वा पुरा मातरिष्टदा त्वं सदा ह्यभूः । कला पौत्री ममैवेयं त्वामाराध्य पतिं त्वमुम्
शोणं लब्धवती मातस्त्वत्पूजायाः फलं त्विदम् । तपसा लभ्यते पर्णे दानेन यदि वापि च
व्रतोपवासैरथवा कला सा लभ्यते मया । एतया परिविष्टान्नं भोक्तुमिच्छामि तत्कथम्
पार्वत्युवाच- यादृशी चेष्यते भार्य्या तादृशी दीयते मया । नैनां त्यक्तुमहं शक्ता किं वा त्वं मन्यसे मुने
विश्वामित्र उवाच- माता त्वमित्येव मया अविशंकितमीरितम् । शोणो मुनिरयं मातस्तव विज्ञापयिष्यति
शोण उवाच- तामेव भार्य्यां प्रतिमे प्रीतिरत्युक्तत्कटाति । सैव मे दीयतां भार्य्या चान्यथा मरणं भवेत्