वपुर्विदलितं यस्य दृश्यते तत्फलं शृणु । दिवि दिव्यांगनापीनप्रोत्तुङ्गरुचिरस्तनैः
श्लिष्टवक्षाश्च पर्यंके निद्राति नित्यमेव सः । पिपीलिकाभिः कीटैश्च मक्षिकाभिश्च वेष्टितः
गंगायां यस्य दृश्यंते अस्थीनि पतितानि च । तस्याक्षयं फलं विप्र वदतो मे निशामय
प्रणमत्त्रिदशव्यूह शिरोमुकुटभूषणैः । हतपादरजाः स्वर्गे स च शक्रायते चिरम्
अनिच्छयापि गङ्गायां यद्देहपतनं भवेत् । स विमुक्तोऽखिलैः पापैर्नरो नारायणो भवेत्
यस्यांगाराश्च दृश्यंते गङ्गायां चलिता जलैः । अङ्गारसङ्ख्यया स्वर्गे तिष्ठेत्कल्पशताधिकम्
सर्वेषामेव पुण्यानां कदाचित्क्षयमीक्षते । गङ्गायां पतिते देहे भवेत्पुण्यक्षयो न हि
बहुनात्र किमुक्तेन निश्चितं कथ्यतेऽधुना । गङ्गायां त्यक्तदेहस्य महिमा ज्ञायते नहि
विषमदुरितराशीनाशि गाङ्गं नरो यः स्पृशति भुवि कदाचिद्भावुको भक्तिभावैः । जगदुदधिजलं विलंघ्य घोरं व्रजति स पारमपारतुष्टि नावा
जैमिनिरुवाच- भूय एव गुरो ब्रूहि गङ्गामाहात्म्यमुत्तमम् । गङ्गाकथामृतं पातुं माधुर्यात्पुनरिष्यते
व्यास उवाच- तदप्यहं ब्रवीमि त्वां गङ्गाभक्तो यतो भवान् । तौ पादौ सफलौ नॄणां जाह्नवीतटगामिनौ
गङ्गाकल्लोलनिनदश्राविणौ श्रवणौ च तौ । सा जिह्वा या च जानाति स्वादुभेदं तदंभसः
ते नेत्रे जाह्नवी चारुतरंगदर्शने च ते । तल्ललाटमिति प्रोक्तं गङ्गामृत्पुण्ड्रधारि यत्
तौ हस्तौ जाह्नवी तीरे हरि पूजापरायणौ । शरीरं सफलं तच्च विमले जाह्नवी जले
पतितं तद्द्विजश्रेष्ठ चतुर्वर्गफलप्रदम् । स्वर्गस्थाः पितरः सर्वे गच्छंतो जाह्नवीतटे
संदृश्य हृष्टाः शंसंति वदंत इति जैमिने । तत्पुण्यं कृतमस्माभिः सद्गतिप्राप्तये पुरा
भविष्यत्यक्षयं तच्च यतः पुत्रोऽयमीदृशः । अनेन गाङ्गैः सलिलैर्वयं संप्रति तर्पिताः
यास्यामः परमं धाम दुर्ल्लभं यत्सुरैरपि । गङ्गायां यानि द्रव्याणि दास्यत्यस्माकमात्मजः
अस्मभ्यं तानि सर्वाणि भविष्यंत्यक्षयाणि वै । नरकस्थाश्च पितरः सर्वदुःखसमन्विताः
वदंतीति सुतं दृष्ट्वा गच्छंतं जाह्नवीतटम् । कृतानि यानि पापानि नरकक्लेशदानि वै
यास्यंति संक्षयं तानि पुत्रस्यापि प्रसादतः । विमुक्ता नरकक्लेशैर्वयं सर्वे सुदुःसहैः
अथ पुत्रप्रसादेन यास्यामः परमां गतिम् । यात्रां विधाय यो मर्त्यो गृहं मोहान्निवर्तते
निराशाः पितरस्तस्य यांति सर्वे यथा गताः । आमिषं मैथुनं चैव दोलामश्वं गजं तथा
उपानहं चातपत्रं गंगायात्रासु वर्जयेत् । अध्वश्रमोद्भवं दुःखं दुष्करं न हि मन्यते
गृहे पद्मसुखं तत्र गङ्गास्नाने स्मरेन्न च । असत्यभाषणं चैव पाखंडसंगमेव च
द्विर्भोजनं च कलहं गंगायात्रासु वर्जयेत् । परनिंदां च लोभं च गर्वं च क्रोधमत्सरौ
अत्यंतहास्यशोकं च गंगायात्रासु वर्जयेत् । मंचसुप्तमिवात्मानं चिंतयेद्भूमिशायिनम्
गंगानाम सुनामानि वदेद्गच्छञ्जनः पथि । माहात्म्यं जाह्नवी देव्याः सर्वपापप्रणाशनम्
सुखदं मोक्षदं चैव कथयन्पथि गच्छति । गङ्गे देवि जगन्मातर्देहि संदर्शनं मम
वचोभिः कोमलैरेभिः कुर्याच्छ्रमनिवारणम् । हा कथं सदनं त्यक्तमागतं वा कथं मया