का प्रतीच्छा तवेदानीं प्रीतिः कस्यामथापि वा । का विदग्धा सुसंस्निग्धा पुरुषादन्यतश्चरेत्
योब्रवीदथ वाक्यं तां यदि ब्रूयास्त्वमद्य मे । सर्वमेव तथा वच्मि नान्यथा वाक्यमुच्यते
इत्थं च धृष्टतां याता तथा रूपांतरेण च । द्रव्यमादाय यत्किंचिदनुवर्तेत्स्वतंत्रतः
समारयित्वा तां द्रव्यं गृहीत्वा पातयिष्यति । अथ पूर्वं पति मृतौ प्रविशेन्नाशुशुक्षणिम्
वैधव्ये द्रविणं सर्वं धर्मार्थं मे भविष्यति । इति निश्चित्य मनसा वैधव्ये समुपस्थिते
योनिकुंडं समासाद्य दिवा वा यदि वा निशि । एकांतस्थानमभ्येत्य विवृत्य वसनं भगम्
इदमूचे वचो दुःखादुपस्थस्थकरा सती । किं त्वया वै कृतं योने किंवा पापमुपाश्रिता
शिश्नस्य वाथवा पापं यत्त्वदंतरवेशनात् । यच्च कर्तृकृतं पापं मादृक्सेवाविवर्जनात्
अतोपि कंडूसंभूतौ प्रवेशयेदथांगुलीम् । विचित्रचेष्टां कृत्वा तु कंडू बुद्धेरतः परम्
मर्दयित्वा कराभ्यां तत्संताड्य च विवृत्य तु । असकृद्धुन्वती पादौ विवृतास्यातिदुःखिता
खट्वा काष्ठमथालिंग्य स्तनपीडं यथाप्रियम् । अथो विचित्रचित्तत्वे ततः प्रद्युष्टती भवेत्
अथवाह्नि पुरे स्थित्वा शाकं व्यवहृतं च यत् । आलंब्य वेश्मनि निशि संध्यायां विशिखासु च
कृत्वान्यवेषमात्मानं यैः कैरप्युपभुज्यते । अथ वाच्यप्रभावेण शंकिता योग्यमाहरेत्
अज्ञातं च गृहं गत्वा रमयेदेव निश्चितम् । नारीसमक्षं लब्धे तु द्रविणे ह्येतदिष्यते
तस्मान्मयापि भवतो न विचारप्रयोजनम् । शोण उवाच- एवमेतन्न संदेहो गच्छ त्वं तिष्ठ दूरतः
मलमूत्रविसर्गार्थं स्थित्वा गच्छाम्यतः परम् । तस्यां गतायां शोणोपि वस्त्रखंडं त्वकल्पयत्
एकैकस्मिंस्ततः खंडे त्वग्रहीद्द्रविणं बहु । सैकते त्ववरं जानुदघ्नं कृत्वा ततस्ततः
क्षिप्त्वा धनं पूरयित्वा विष्ठां चक्रे ततोपरि । वस्त्राधारं घटं तं च प्रतिचिक्षेप कुत्रचित्
सर्वमज्ञातवत्कृत्वा स्नानाय प्रययौ मुनिः । तस्य भार्या ततः स्नानं कृत्वा संपूज्य पार्वतीम्
गच्छेति भर्त्रा सा प्रोक्ता स्ववेश्माभ्यागमत्सती । एतामेकाकिनीं ज्ञात्वा मारीचो नाम राक्षसः
भर्तृरूपमथास्थाय कलामेतदुवाच ह । मारीच उवाच- सप्तगोदावरीतीरे पवित्रं पापनाशनम्
द्राक्षाराममिति प्रोक्तं यत्र भीमः स्वयं स्थितः । भुक्तिमुक्तिप्रदो नॄणां स्मरणात्पापनाशनः
तत्र गच्छावहे शीघ्रं त्वं तु निर्गच्छ सुंदरि । कलोवाच- इदानीमभिषेकाय प्रवृत्तो नाभिषिक्तवान्
कथमेतादृशं त्वं हि पूर्वानुक्तं वदिष्यसि । प्रकृतेरन्यथाभावमुत्पातं विदुरुत्तमाः
मारीच उवाच- भर्तुरप्रतिकूलत्वं नारीणां धर्म उच्यते । प्रतिकूलानुकूला वा मम शीघ्रं वदस्व तत्
तूष्णींभूत्वाथ सा साध्वी भर्तेत्येव विचार्य तम् । निर्ययौ तेन सा बाला वनमध्ये गता सती
अथ मध्याह्नकालोसौ क्रियतामाह्निकक्रियाः । राक्षसोथ वचः श्रुत्वा नानुष्ठानस्थलं त्विह
यत्र तत्रास्ति गंतव्यमितो गच्छावहे ततः । किंचित्प्रदेशं गत्वा तु गुहां वीक्ष्य सरस्तथा
इह स्थानं हि मे स्थातुं कार्यं स्नानमथ प्रिये । इत्युक्त्वा सरसि स्नात्वा फलाहारं प्रकल्प्य च
भोजनावसरे प्राप्ते कला दध्यावुमां शिवम् । अयं धवो मम न वा इति ध्यानपराभवत्