नतिं यतिं कीर्तिमुपास्तिमाश्रिता दास्यं च कैंकर्य्यमथ श्रुतिंवदाः । पंचाक्षरोक्तिं शतरुद्रियोक्तिं शिवस्य कुर्वंति न ते विचार्याः
मन्नामरुद्राक्षविभूतिधारणो ममाग्रतो यस्तु पुराणवक्ता । सर्वेषु पापेष्वपि तेषु सत्सु प्रशास्म्यहं नैव यमाधिकारः
ये चापि पापान्वितमायिनो नराः परान्नवस्त्रादिवधूभुजश्च । वाराणसीमृत्युपराश्च ये वै श्रीशैलमर्त्याश्च न ते विचार्याः
यूकाश्च दंशा अपि मत्कुणाश्च मृगादयः कीटपिपीलिकाश्च । सरीसृपा वृश्चिकशूकराश्च काशीमृताः शंकरमाप्नुवंति
इदं नामगृणन्ध्यायेद्यो वै हृत्पद्ममंदिरे । त्रियंबकं विरूपाक्षं सोमं सोमार्द्धभूषणम्
त्रिनेत्रकं त्रयीनेत्रं सोमसूर्याग्निलोचनम् । तं नमस्कृत्य दूरस्थो भवमृत्यो ममाज्ञया
अथाकर्ण्य शिवप्रोक्तं मृत्युस्तुष्टाव शंकरम् । नमस्ते देवतानाथ नमस्ते देवमूर्तये
सर्वज्ञाय नमस्तुभ्यं पशूनां पतये नमः । अथ देवो महादेवो मृत्युं प्राह वरं वृणु
स्तोत्रेणानेन तुष्टोस्मि मृत्युर्वरमयाचत । त्वदीयं पालय विभो मां च शंकर पापिनम्
तथेत्युक्त्वा मृत्युमीशो गच्छ वत्सेति चाब्रवीत् । यमलोकं गतः सोपि यमायाशेषमुक्तवान्
शंभुरुवाच- य इदं शृणुयान्नित्यं पुण्याख्यानमनुत्तमम् । विमुक्तः सर्वपापेभ्यो याति शंकरसन्निधिम्
इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे एकादशोत्तरशततमोऽध्यायः
शंभुरुवाच- अथान्यदपि निर्वच्मि प्रमदाख्यानमुत्तमम् । सुतया देवरातस्य यत्प्राप्तं नामकीर्तनात्
देवरातसुता बाला कला नामातिरूपिणी । धनंजयसुतस्यासीद्भार्या शोणस्य धीमतः
तावुभौ नियतौ नित्यं धर्म्मैकप्रवणौ शुभौ । लब्धवंतौ निधिमथो गंगास्नानाय तौ गतौ
प्रवाहपतिते कूले मृत्तिकानयनायतौ । कूलादादाय मृल्लोष्टं दृष्टवंतौ महाघटम्
राजतं चोर्द्ध्वपाषाणमथ शोणः प्रियां वचः । इदमाह कथं कार्यं किं कर्तव्यं हि नो हितम्
भार्योवाच- न नारीमतमालंब्य किंचित्कार्यं समाचरेत् । न च नार्या चरेद्गुह्यमप्रियं वाथ किंचन
यदि नारीसमक्षं तु द्रविणं दृष्टिमापतेत् । वंचयीत तथा नारी ईदृशैर्वाक्यसंचयैः
अस्माभिर्न हि संप्रेक्ष्यं किं वा तत्र हि तिष्ठति । द्रविणं चेन्न संप्रेक्ष्यं बाधोदर्कं भविष्यति
अन्याज्ञातं तु यदि चेत्कुतो ज्ञानविनिश्चयः । अप्रदृष्टस्त्विदानीं चेन्निभृतः कोपि तिष्ठति
तिरोधानं न किंचिच्चेन्मायया कोपि तिष्ठति । न चेन्माया मनुष्याणां क्षेत्त्रपालस्तु तिष्ठति
न हि चेद्भैरवश्चेह तिष्ठति ब्रह्मराक्षसः । न सोपि चेन्महाविद्या राज्ञां तत्र भविष्यति
न च जानाति चेद्राजा व्यवहारादिसंभवः । स चेद्गूढप्रकारेण चोरबाधा भविष्यति
अप्रमत्तस्य भवतो महानर्थो भविष्यति । प्रायेणार्थवतां नॄणां भोगलिप्सा प्रजायते
भोगाद्भोगांतरेच्छा च सर्वानुष्ठाननाशिनी । जानाति यदि नारी स्वं भावयोगगतं तथा
नारी स्वतंत्रतामेति रोषाल्लब्धप्रकाशिनी । रोषे विश्वासतां याति तदा दोषः पुरोदितः
विश्वासिनि च विश्रंभः प्रवासो वान्यचित्तता । विश्रम्भाज्जायते स्त्रीणां नानाविधविचेष्टिता
यं कंचित्पुरुषं दृष्ट्वा युवानं प्रीतिरापतेत् । प्रीत्या संजायते योगो योगान्मैथुनसंगतिः
सततं मैथुने जाते विश्रंभांतरमापतेत् । भवता वा तथा पूर्वं भुक्तेदानीं च भुज्यते