निर्जीवमभवत्स्थानं समंताद्दशयोजनम् । अथ मृत्युदिनं प्राप्तं राज्ञस्तस्य महात्मनः
मृत्युकालेथ संप्राप्ते स्नातं भूमिगतं नृपम् । तस्य चानुचराः सर्वे परिवार्योपतस्थिरे
सुरापः सचिवः प्राह किं कार्यं मम चादिश । अथ राजा तथा शक्तो निर्गतायुस्तदार्दितः
नाभेरधस्तु क्षीणासुः कथंचिद्वाक्यमुक्तवान् । त्वं सर्वकाले दैत्येंद्र प्रहरप्राहराहर
इत्यथोक्त्वा ममारासौ यमदूताः समाययुः । विचित्रं बंधने यत्नं चक्रुस्ताडनतत्पराः
चूर्णिता बंधपाशाश्च हेतिदंडाश्च चूर्णिताः । तद्गात्रस्पर्शमात्रे च तदद्भुतमिवाभवत्
अथायातः स्वयं मृत्युः पाशेनैनमयोजयत् । मृत्युपाशमपिच्छिन्नं वीक्ष्य मृत्युरचिंतयत्
सर्वमर्त्यमृतिर्दृष्टा दृष्टा नैतादृशी क्वचित् । इति चिंतापरे मृत्यौ ज्वालावक्त्रः प्रतापवान्
वीरभद्रेण निर्दिष्टः सहसायाच्च शूलभृत् । ज्वालावक्त्रमथालोक्य मृत्युस्तूर्णं पलाययौ
पलायमानं तं दृष्ट्वा मृत्युं वह्निमुखस्तदा । अरे रे चोर चोर त्वं तिष्ठतिष्ठ क्व यास्यसि
एनसो मुच्यते चोरः शूलारोपणमात्रतः । एवमाभाष्य मृत्युं तं शूलप्रोतमकल्पयत्
शूलं स्कंधगतं कृत्वा दूतान्संग्रथ्य रज्जुना । पादशृंखलविन्यस्तानादाय नृपमध्यगात्
विमानवरमारोप्य गीतवाद्यसुशोभितम् । वीरांतिकमथो गत्वा सर्वमस्मै न्यवेदयत्
वीरभद्रोपि तत्सर्वं शंकरायामितात्मने । नानामुनिगणैर्देवैर्ब्रह्मविष्णुपुरः सुरैः
सेव्यमानाय देवाय पार्वतीसहिताय च । प्रणिपत्य निवेद्याथ शूलस्थंमृत्युमेव च
तूष्णीं बभूव विश्वात्मा वीरभद्रः प्रतापवान् । अग्न्याननं वीक्ष्य शिवो विगर्हयन्कथं त्वयैतद्गणसाहसं कृतम् । बिभेषि मृत्योर्न कथं यमाधिकाद्वदस्व सर्वं परमार्थतो मे
प्रणम्य तं वह्निमुखोऽतिरोषो मृत्युं समालोक्य ननर्त हर्षात् । उवाच चौर्यं कृतमेव मृत्युना तदेष शूलेऽपि मया प्ररोहितः
विमोचयामास शिवोपि मृत्युं दूतानशेषान्निरुजश्चकार । मृत्युं समालोक्य शिवो बभाषे मन्नाम एषां मरणे समास्ते
मच्चेतसामन्यधियां च नामहीनाक्षरं वाधिकवर्णयुक्तम् । ममैव लोकं प्रददामि सत्यं ह्यनेन नाम प्रहरेति भाषितम्
प्रशब्दमात्रं त्वधिकं हरेतिपदप्रदं वै पदमीरयंति । आरादमूंस्त्वं जपतो नमस्व मदीयवाक्यं च यमं वदस्व
नतिं यतिं कीर्तिमुपास्तिमाश्रिता दास्यं च कैंकर्य्यमथ श्रुतिंवदाः । पंचाक्षरोक्तिं शतरुद्रियोक्तिं शिवस्य कुर्वंति न ते विचार्याः
मन्नामरुद्राक्षविभूतिधारणो ममाग्रतो यस्तु पुराणवक्ता । सर्वेषु पापेष्वपि तेषु सत्सु प्रशास्म्यहं नैव यमाधिकारः
ये चापि पापान्वितमायिनो नराः परान्नवस्त्रादिवधूभुजश्च । वाराणसीमृत्युपराश्च ये वै श्रीशैलमर्त्याश्च न ते विचार्याः
यूकाश्च दंशा अपि मत्कुणाश्च मृगादयः कीटपिपीलिकाश्च । सरीसृपा वृश्चिकशूकराश्च काशीमृताः शंकरमाप्नुवंति
इदं नामगृणन्ध्यायेद्यो वै हृत्पद्ममंदिरे । त्रियंबकं विरूपाक्षं सोमं सोमार्द्धभूषणम्
त्रिनेत्रकं त्रयीनेत्रं सोमसूर्याग्निलोचनम् । तं नमस्कृत्य दूरस्थो भवमृत्यो ममाज्ञया
अथाकर्ण्य शिवप्रोक्तं मृत्युस्तुष्टाव शंकरम् । नमस्ते देवतानाथ नमस्ते देवमूर्तये
सर्वज्ञाय नमस्तुभ्यं पशूनां पतये नमः । अथ देवो महादेवो मृत्युं प्राह वरं वृणु
स्तोत्रेणानेन तुष्टोस्मि मृत्युर्वरमयाचत । त्वदीयं पालय विभो मां च शंकर पापिनम्
तथेत्युक्त्वा मृत्युमीशो गच्छ वत्सेति चाब्रवीत् । यमलोकं गतः सोपि यमायाशेषमुक्तवान्