शंभुरुवाच- एकैकनाममाहात्म्यं विस्तरान्न हि शक्यते । संक्षेपेण च ते वच्मि शृणु राघव सादरम्
पुरा त्रेतायुगे राजा विधृतो नाम वीर्यवान् । मृते पितरि बालोसौ भूमिराज्येभिषेचितः
समानवयसः सर्वान्समीपस्थांश्चकार सः । ये वृद्धा ये च विद्वांसस्ते च तस्य न संमताः
युवानः संमता दुष्टा अकार्यकरणास्तथा । सुस्त्र्यानयनदक्षाश्च चोरकर्मविशारदाः
भांडवार्तारता लास्यनिपुणास्तस्य संमताः । वशीकरणमंत्रज्ञा वस्त्रौषधविदस्तथा
गीतनर्तनशीलाश्च धूर्त्ता द्यूतविदः प्रियाः । पितृसंमतकर्तॄणां त्यागं चक्रे स पार्थिवः
विचार्य स च तैः सार्द्धं दुष्टैः कार्यमकारयत् । एतादृशांस्तथा चान्यान्दुष्टान्सह युयोज ह
एतदुक्तिमुपालंब्य शिष्टं सुहृदमत्यजत् । उरोमुष्टिं च फेत्कारं ये कुर्युस्तस्य ते प्रियाः
भगलक्षणतत्त्वज्ञा रतितंत्रविशारदाः । राजनीतिविहीनं तद्राज्यं समभवत्तदा
गजाश्वरथमुष्ट्राजं गोमहिष्यादिकं च यत् । तत्सर्वं नाशमापन्नमपहारायतस्ततः
रत्नानि वसुधान्यानि न दृश्यंते पुरे तदा । अथ भूपांतरेणासौ निर्जितः प्रपलायितः
महारण्यमथो गत्वा गिरिदुर्गमकल्पयत् । तत्र चाल्पपरीवारश्चोरवृत्तिं समाश्रितः
सुवर्णवस्त्रधान्यादि रत्नगंधादिकं तथा । तत्रतत्र विनिर्दिश्य चोरानायानवंचकान्
बंधाद्यकारयत्तैस्तु द्रव्याहरणकर्मणि । यदाहारो न विद्येत तदाहारमकल्पयत्
गोमहिष्यादिमांसेन यद्यन्नं नोपलभ्यते । अश्वीय नरमांसेन भोजनं पर्य्यकल्पयत्
एतादृशमभूद्वृत्तं संध्योपासादिवर्जितम् । एकस्तु सचिवस्तस्य सुरापो नाम राक्षसः
नियुंक्ते सर्वकालं तमाहरप्रहरेति च । एवं रक्षोमते स्थित्वा नानादेशगतान्नरान्
नृसहस्रपरीवारो ह्यादद्यादकृपालयः । स्वस्याभिमतयोषास्तु ज्ञात्वा ज्ञात्वा समाहरत्
किंचित्कालं च ता भुक्त्वा तासां मांसमभक्षयत् । एवं हत्वा नरान्नारी राज्यं चक्रे सुदुःसहम्
एवं वर्षसहस्रं तु राज्यं कृत्वा नराधमः । जराशिथिलसर्वांगो वलीपलितदूषितः
निर्जीवमभवत्स्थानं समंताद्दशयोजनम् । अथ मृत्युदिनं प्राप्तं राज्ञस्तस्य महात्मनः
मृत्युकालेथ संप्राप्ते स्नातं भूमिगतं नृपम् । तस्य चानुचराः सर्वे परिवार्योपतस्थिरे
सुरापः सचिवः प्राह किं कार्यं मम चादिश । अथ राजा तथा शक्तो निर्गतायुस्तदार्दितः
नाभेरधस्तु क्षीणासुः कथंचिद्वाक्यमुक्तवान् । त्वं सर्वकाले दैत्येंद्र प्रहरप्राहराहर
इत्यथोक्त्वा ममारासौ यमदूताः समाययुः । विचित्रं बंधने यत्नं चक्रुस्ताडनतत्पराः
चूर्णिता बंधपाशाश्च हेतिदंडाश्च चूर्णिताः । तद्गात्रस्पर्शमात्रे च तदद्भुतमिवाभवत्
अथायातः स्वयं मृत्युः पाशेनैनमयोजयत् । मृत्युपाशमपिच्छिन्नं वीक्ष्य मृत्युरचिंतयत्
सर्वमर्त्यमृतिर्दृष्टा दृष्टा नैतादृशी क्वचित् । इति चिंतापरे मृत्यौ ज्वालावक्त्रः प्रतापवान्
वीरभद्रेण निर्दिष्टः सहसायाच्च शूलभृत् । ज्वालावक्त्रमथालोक्य मृत्युस्तूर्णं पलाययौ
पलायमानं तं दृष्ट्वा मृत्युं वह्निमुखस्तदा । अरे रे चोर चोर त्वं तिष्ठतिष्ठ क्व यास्यसि