वेश्या वेश्यैव नो भार्या नेति वक्तुं च नोचितम् । इत्थं राजानमुक्त्वाथ मंडं चैवारनालजम्
किंचिदादाय तस्यास्तु मंदिरं गतवानयम् । निद्रावसरमालोक्य प्रसृज्यच करं ततः
वस्त्रस्य विवरे तत्र मंडं चिक्षेप दुष्टधीः । एवं कृत्वा ततो गत्वा राजानमिदमुक्तवान्
राजन्निर्गत्य गत्वाथ वेश्याग्र्यां तव योषितः । उत्थापयित्वा वेश्यां तां सर्वांगं द्रष्टुमर्हसि
उन्मुक्तबंधमथवा वसनं पश्य यत्नतः । वेश्यावेश्माथगतवान्राजा कारांकिकं वचः
इदमाह सनिद्रेयं पश्येमां यामि पश्यसि । स तूवाच नृपं तत्र न मे युक्तमिदं नृप
तन्मातरं वा पितरं दर्शनाय नियोजय । तद्दृष्टौ सर्वमेवेदं व्यक्तमाशु भविष्यति
आनीता ह्यथ राज्ञा तु माता वीक्षितुमुद्यता । वचनात्तु नृपस्यैव वस्त्रं शोधयतीव सा
तत्रस्थितं मंडमथ विज्ञायांबा ह्यमर्दयत् । मर्दनाद्वसनं क्लिन्नं किं तदित्याह पार्थिवः
न किंचिद्देव नो किंचिदिति वेश्याप्रसूरपि । बहुवाक्येन राजाथ वसनं वीक्ष्य शंकया
शुक्रक्लिन्नमिदं वासः प्राहैतत्पश्यतामिति । अथ दृष्ट्वा समीपस्थास्तथेत्यूचुर्वचो नृपम्
राजाथ स्वगृहं गत्वा दंडाध्यक्षमभाषत । इदानीमेव वेश्यायाः शिरश्छिंध्यविचारयन्
दर्शनीयं शिरस्तस्या घटिकाभ्यंतरे मम । दंडकश्च नृपोक्त्यास्यास्तथा कृत्वा ह्यदर्शयत्
वीरभद्र उवाच- एवं कृतं त्वया पूर्वं प्राप्तं च फलमद्य ते । ज्वालयैव हि वक्ता त्वं श्रोता द्रष्टा च जिघ्रसि
रसं जानासि मतिमानतिक्रोधी भविष्यसि । शंभुरुवाच- एवं ज्वालामुखो जातो राजा माहेश्वरोऽक्षमी
तस्मात्तु क्षमिणा भाव्यं परत्रेह सुखेप्सुना । य इदं शृणुयान्नित्यं पुण्याख्यानमनुत्तमम्
विमुक्तपापबंधश्च शिवलोके भविष्यति
इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे शिवपूजामाहात्म्यकथनं। नाम दशोत्तरशततमोऽध्यायः
श्रीराम उवाच- महेशनाममाहात्म्यं पूजामाहात्म्यमेव च । नमस्कारस्य माहात्म्यं दृष्टिमाहात्म्यमेव च
जलदानस्य माहात्म्यं धूपदानस्य सत्तम । दीपगंधादिदानस्य माहात्म्यं वद मे गुरो
शंभुरुवाच- एकैकनाममाहात्म्यं विस्तरान्न हि शक्यते । संक्षेपेण च ते वच्मि शृणु राघव सादरम्
पुरा त्रेतायुगे राजा विधृतो नाम वीर्यवान् । मृते पितरि बालोसौ भूमिराज्येभिषेचितः
समानवयसः सर्वान्समीपस्थांश्चकार सः । ये वृद्धा ये च विद्वांसस्ते च तस्य न संमताः
युवानः संमता दुष्टा अकार्यकरणास्तथा । सुस्त्र्यानयनदक्षाश्च चोरकर्मविशारदाः
भांडवार्तारता लास्यनिपुणास्तस्य संमताः । वशीकरणमंत्रज्ञा वस्त्रौषधविदस्तथा
गीतनर्तनशीलाश्च धूर्त्ता द्यूतविदः प्रियाः । पितृसंमतकर्तॄणां त्यागं चक्रे स पार्थिवः
विचार्य स च तैः सार्द्धं दुष्टैः कार्यमकारयत् । एतादृशांस्तथा चान्यान्दुष्टान्सह युयोज ह
एतदुक्तिमुपालंब्य शिष्टं सुहृदमत्यजत् । उरोमुष्टिं च फेत्कारं ये कुर्युस्तस्य ते प्रियाः
भगलक्षणतत्त्वज्ञा रतितंत्रविशारदाः । राजनीतिविहीनं तद्राज्यं समभवत्तदा
गजाश्वरथमुष्ट्राजं गोमहिष्यादिकं च यत् । तत्सर्वं नाशमापन्नमपहारायतस्ततः