येऽपि संवर्त्तयंतीह दीपवर्तिविलोकनाः । ते यांति परमं स्थानं यत्सुरैरपि दुर्लभम्
येन तैलं च वर्तिं च यथाशक्त्या प्रदीपके । प्रक्षेपयंति सततं ते यांति परमां गतिम्
गच्छंतं दीपकं शांतिं न शक्नोति प्रबोधितुम् । कथयत्यन्यलोकानां तेऽपि तत्फलभागिनः
स्तोकं स्तोकं च भिक्षित्वा तैलं दीपार्थमेव च । करोति दीपकं विष्णोः पुण्यं तेनापि लभ्यते
दीपं प्रज्वाल्यमानं तु यः पश्यत्यधमो नरः । कृतांजलिपुटो विष्णोर्विष्णुलोकमवाप्नुयात्
दीपप्रज्वालने बुद्धिं यो दद्यात्कुरुते स्वयम् । सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्नुयात्
अत्राप्युदाहरंतीममितिहासं पुरातनम् । यस्य श्रवणमात्रेण मुच्यते सर्वकिल्बिषैः
सरस्वत्यास्तटे रम्ये सिद्धाश्रम इति श्रुतः । तत्रोवास द्विजः पूर्वं कपिलो नाम वेदवित्
व्रतोपवासनिरतो दरिद्र श्रोःत्रियस्तथा । भिक्षावृत्त्या च कुरुते कुटुंब परिपालनम्
व्रतोपवासनियमैर्विष्णुमाराधयत्यसौ । विष्णुं संपूज्य विधिवद्दीपं बोधयते सदा
समादाय च तत्तैलं स्वगृहे पूज्य केशवम् । दीपं भक्त्या च परया बोधयेद्धरितुष्टये
एवं प्रवर्त्तमानस्य कपिलस्य महात्मनः । मार्जारस्तीक्ष्णंदंष्ट्रस्तु मूषकान्भक्षयेत्सदा
तत्रागच्छति भक्ष्यार्थं मूषकानामहर्निशम् । कृत्वा ध्यानं स भक्ष्यार्थं नित्यं नारायणाग्रतः
भक्षिता बहवस्तेन मूषका द्विजवेश्मनि । ये ये तैलार्थमायांति वर्त्यपाहरणाय च
तांस्तांस्तु भक्षयत्येव मूषकान्ध्यानतत्परः । एवं प्रवर्तमानस्य कदाचित्कालपर्ययात्
एकादश्यां स कपिलो ब्राह्मणः स्वगृहे शुचिः । सोपवासः सपत्नीकः पूजयामास चाच्युतम्
ततो जागरणं चक्रे स्तुतिनृत्यपरायणः । अर्द्धरात्रे तु संप्राप्ते निद्रया मोहितो द्विजः
मार्जारश्चागतस्तत्र तीक्ष्णदंष्ट्रो लघुक्रमः । लक्षयामास नैवेद्यं गृहकोणे स्थितः सदा
अद्राक्षीन्मूषिकां क्षुद्रा तैलपानार्थमागताम् । मंदतेजसि दीपे तु वर्त्यपाहरणोचिताम्
समुत्पत्य पदाक्रम्य तदा सा बिलमाविशत् । तस्याः पादेन वै वर्त्या दीपः संबोधितो भृशम्
तैलपात्रं च नमितं सुप्रकाशोऽभवत्तदा । ब्राह्मणोऽपि जजागार त्यक्त्वा निद्रां विमोहिनीम्
मार्जारोऽपि च तां रात्रीमजाग्रच्चाखुभक्षकः । ततः प्रभाते विमले कृत्वा नित्यक्रियां द्विजः
ततश्च पारणं चक्रे विप्रो बंधुजनैः सह । एवं प्रवर्त्तमानस्य कपिलस्य महात्मनः
बभूवुः पुत्रपौत्राश्च धनधान्यमनुत्तमम् । आरोग्यं परमामृद्धिमवाप महतीं श्रियम्
दीपव्रतप्रभावेन कपिलो मोक्षमागतः । संभेद्य मंडलं पुण्यं सवितुः शशिनस्तथा
दीपज्योतिःस्वरूपेण परमात्मा नियुक्तवान् । मूषिकापि च कालेन ममार बिलमध्यतः
विमानवरमारुह्य देवगंधर्वसेवितम् । अप्सरोभिः परिवृतो विद्याधरगणैर्युतः
स्तूयमानो महातेजा जयशब्दादि मंगलैः । स्तूयमानः स वै नागैर्विष्णुलोकं जगाम सः
कल्पकोटिसहस्राणि कल्पकोटिशतानि च । भुक्त्वा च विपुलान्भोगान्ततो राजाभवद्भुवि
सुधर्मा नाम धर्मात्मा देवब्राह्मणपूजकः । रूपवान्सुभगश्चैव महाबलपराक्रमः