नानादीपसमोपेतं मणिभिर्नागराडिव । भटानामथ संमर्द एको दीपो पतन्नृपे
तदासौ कुपितो राजा दीपमादाय सत्वरम् । देवालयपुरे रम्ये न्यक्षिपत्कोपसंयुतः
दग्धं देवगृहं तेन एनश्च समपद्यत । अथ तेन पुनस्तत्र दग्धं वेश्मगृहादिकम्
निर्मापयामास नृपो महेशानमथायजत् । अथ मृत्युदिने प्राप्ते राजाराधितशंकरः
भस्मस्नायी भस्मशायी जपन्रुद्रं ममार ह । शिवलोकं गतः सोयं वीरभद्रेण भाषितः
भव त्वं गणशार्दूलो ममवै परिचारकः । शाङ्करान्मम निर्देशादानयस्व ममांतिकम्
शिरोहीनो भवांश्चापि ज्वालावक्त्रो भविष्यति । सतूवाच महात्मानं वीरभद्रं गणेश्वरम्
चक्षुः श्रोत्रं तथा जिह्वा नासिकास्यं शिरोगणः । एतैर्विना व्यवहृतिः कथं मे संभविष्यति
अभावे शिरसः किं वा मया पापं कृतं विभो । वीरभद्र उवाच- त्वयैव स्वीकृता पूर्वं देवी परमसुंदरी
महेशभवनं नित्यं चार्तुवर्णकरंगकैः । स्वस्तिकं सर्वतोभद्रं नंद्यावर्तादिकं शुभम्
पद्ममुत्पलमांदोल पादो व्यजन चामरे । त्रिशूलं शंखचक्रे च गदाधनुरथैव च
त्रिशूलं डमरुंखड्गं वृषं भृंगिरिटिं शिवम् । तथाष्टपत्रं कमलमन्यद्यंत्रादिकं तथा
कल्पयंती प्रतिदिनं सेवते वृषभध्वजम् । कदाचिदथ सा वेश्या देवसद्मन्युपस्थिता
राज्ञः कारांकिकः कश्चिद्देववेश्म समाविशत् । अथ तां दृष्टवांस्तत्र स इदं वाक्यमुक्तवान्
काराङ्किक उवाच- एकांतसंस्थिता वेश्या युवाहं स्थविरश्च न । स्थविरं व्याधितं षंढमशक्तं धनवर्जितम्
अदीर्घमेहनं दीनं पुरुषं योषिदुत्सृजेत् । अश्मश्रुलं मलच्छन्नं जडं दुर्गंधिदूषितम्
स्वल्पमव्यसनं नारी दूरतः परिवर्ज्जयेत् । तस्मान्मे दीयतां वेश्ये मैथुनं जीवयाशु माम्
वेश्योवाच- नियतः सर्वजातीनामिहामुत्र सुखप्रदः । पातिव्रत्यं परो धर्म्मः स्त्रीणामिति हि शुश्रुम
यदधीना यदा वेश्या तदा नान्येन संगता । पतिव्रतेति विख्याता तस्मात्तं परिपालयेत्
कारांकिक उवाच- यदि चैवं मृतिः शीघ्रं भविष्यति न संशयः । अथ राजांतिकं गत्वा राजानमिदमुक्तवान्
वेश्या वेश्यैव नो भार्या नेति वक्तुं च नोचितम् । इत्थं राजानमुक्त्वाथ मंडं चैवारनालजम्
किंचिदादाय तस्यास्तु मंदिरं गतवानयम् । निद्रावसरमालोक्य प्रसृज्यच करं ततः
वस्त्रस्य विवरे तत्र मंडं चिक्षेप दुष्टधीः । एवं कृत्वा ततो गत्वा राजानमिदमुक्तवान्
राजन्निर्गत्य गत्वाथ वेश्याग्र्यां तव योषितः । उत्थापयित्वा वेश्यां तां सर्वांगं द्रष्टुमर्हसि
उन्मुक्तबंधमथवा वसनं पश्य यत्नतः । वेश्यावेश्माथगतवान्राजा कारांकिकं वचः
इदमाह सनिद्रेयं पश्येमां यामि पश्यसि । स तूवाच नृपं तत्र न मे युक्तमिदं नृप
तन्मातरं वा पितरं दर्शनाय नियोजय । तद्दृष्टौ सर्वमेवेदं व्यक्तमाशु भविष्यति
आनीता ह्यथ राज्ञा तु माता वीक्षितुमुद्यता । वचनात्तु नृपस्यैव वस्त्रं शोधयतीव सा
तत्रस्थितं मंडमथ विज्ञायांबा ह्यमर्दयत् । मर्दनाद्वसनं क्लिन्नं किं तदित्याह पार्थिवः
न किंचिद्देव नो किंचिदिति वेश्याप्रसूरपि । बहुवाक्येन राजाथ वसनं वीक्ष्य शंकया