इत्थं संकल्प्य स तथा तीक्ष्णस्वधितिनाद्भुतम् । चक्रे त्वचं दक्षपादं त्वचं च्छित्वा कटेरधः
वामपादं तथा चक्रे कटिपर्यंतमाशुच । हृष्टश्चावेपितश्चैव तत ऊर्ध्वमथाच्छिनत्
करांसोदरहृत्कंठत्वचं निर्भिद्य लुब्धकः । मस्तकस्य त्वचं चापि निर्बिभेद प्रहृष्टवान्
तयोरंतरतस्तस्माद्गात्रं निर्भिद्य वर्तुलम् । छित्त्वांगुलि समादाय देवायार्पितवांस्त्वचम्
आरादेव तथा दिव्यरूपः स्वक्षश्चतुर्भुजः । नानाभूषणसंयुक्तः स्थितो वियति शाङ्करः
अथ शैवाः समायाता दूताः शतसहस्रशः । विचित्रमुकुटाकाराः सर्वाभरणभूषिताः
त्रिशूलपाणयः सर्वे शुद्धस्फटिकसंनिभाः । चतुर्भुजाः सुरूपाश्च विमानवरसंस्थिताः
सर्वे सूर्यसमाः शांता रंभावत्प्रियया युताः । सूनुपत्नीबलोत्साह विलासस्त्रीशतान्विताः
तेजसा सूर्यसदृशाः पुष्पवृष्टिमवाकिरन् । तैराहूतो लुब्धकश्च नागच्छदवदच्च तान्
भार्याबंधुजनोपेतो गच्छेहमथवा न वा । शैवास्तद्वचनं श्रुत्वा वाक्यमेतदथोचिरे
येन पुण्यं कृतं पापं तेन भोग्यं हि तत्फलम् । लुब्धक उवाच- अशौचानां च सर्वेषां धर्माणामेककर्तृकम्
माहेश्वराणां धर्माणां फलं च द्विबहुष्वपि । एतस्मिन्नंतरे प्राप्तो वीरभद्रः शतार्भकः
नानाकोटिगणोपेतो एहि लुब्धकबंधुयुक् । सर्वं त्वयोक्तं च तथा सभार्यो ज्ञातिबंधुयुक्
आरुह्येदं विमानं च शिवं गच्छ शिवं तु वः । अथ तद्वचनात्प्राप्तः शिवलोकं विमानगः
वसिष्ठ उवाच- दृष्टवानसि सर्वं त्वमीशपूजां समाचर । विमुक्तपापबंधस्त्वं शिवलोकं गमिष्यसि
यदि राज्यं त्वया प्रार्थ्यं मार्जयेशां गणं नृप । गोमयोदकलेपं च नित्यमेव समाचर
एतावता भूमिराज्यं ध्रुवं तव भविष्यति । यावदायुश्च ते राज्यमंते शिवपदं भवेत्
नैतस्मिंस्तु भवेद्राज्यसंसिद्धिरनुमृत्युतः । अतो देहांतरं प्राप्य शिवसेवाप्रभावतः
भविष्यति च ते राज्यं शिवभक्तिः स्थिरा तथा । शंभुरुवाच- अथ कृत्वा तथा पूजां मृतः स्वर्गं गतस्ततः
राजजन्मपुनः प्राप्य राज्यं चक्रे शिवेरतः । कदाचिदथ देवस्य गृहमभ्यगमन्नृपः
नानादीपसमोपेतं मणिभिर्नागराडिव । भटानामथ संमर्द एको दीपो पतन्नृपे
तदासौ कुपितो राजा दीपमादाय सत्वरम् । देवालयपुरे रम्ये न्यक्षिपत्कोपसंयुतः
दग्धं देवगृहं तेन एनश्च समपद्यत । अथ तेन पुनस्तत्र दग्धं वेश्मगृहादिकम्
निर्मापयामास नृपो महेशानमथायजत् । अथ मृत्युदिने प्राप्ते राजाराधितशंकरः
भस्मस्नायी भस्मशायी जपन्रुद्रं ममार ह । शिवलोकं गतः सोयं वीरभद्रेण भाषितः
भव त्वं गणशार्दूलो ममवै परिचारकः । शाङ्करान्मम निर्देशादानयस्व ममांतिकम्
शिरोहीनो भवांश्चापि ज्वालावक्त्रो भविष्यति । सतूवाच महात्मानं वीरभद्रं गणेश्वरम्
चक्षुः श्रोत्रं तथा जिह्वा नासिकास्यं शिरोगणः । एतैर्विना व्यवहृतिः कथं मे संभविष्यति
अभावे शिरसः किं वा मया पापं कृतं विभो । वीरभद्र उवाच- त्वयैव स्वीकृता पूर्वं देवी परमसुंदरी
महेशभवनं नित्यं चार्तुवर्णकरंगकैः । स्वस्तिकं सर्वतोभद्रं नंद्यावर्तादिकं शुभम्