इतोर्द्धयाममात्रेण मरिष्यति तदद्भुतम् । अंतकाले समायाते लुब्धकोपि शिवाय वै
उपहारप्रदानाय दृष्टवान्पार्श्वतो घटम् । तं चूतफलसंपूर्णं शुनोच्छिष्टं विगर्हितम्
संकल्पितोपहारस्य ह्यभावाल्लुब्धकस्तथा । इदं जगौ शुभं वाक्यं लोकानां भक्तिसूचकम्
पुष्पाभावे हरिर्नेत्रं फलाभावेंगुलं रविः । लिंगविस्रंसनेकं च जमदग्नि ऋषिस्तथा
लिंगपीठविभेदे च गात्रं निर्भिद्य दत्तवान् । अन्यैर्माहैश्वरैरन्यत्साहसं परमं कृतम्
ममापि तत्तथा कार्य्यमन्यथा दोषभागहम् । एतस्मिन्नंतरे कश्चिदुन्मत्तः शिवमभ्यगात्
अथ लुब्धकृतां पूजामाहृत्याभक्षयत्क्षणात् । वमनं च तथा चक्रे शिवपीठेथ लुब्धकः
शिवापकारिणं चैनं हन्मि नो वेत्यचिंतयत् । अथ स्वात्मवधायैव यत्नमास्थाय शंकरः
उन्मत्तेन यथोद्भुक्ता शिवपूजा मया कृता । लिंगप्रावरणे ह्येषा तदहं मम देहिनः
प्रावृतिस्त्वगियं त्वद्य निर्म्मोक्तव्या मया द्रुतम् । पूजाविमोचनायैतत्फलहानेर्गलं त्यजेत्
इत्थं संकल्प्य स तथा तीक्ष्णस्वधितिनाद्भुतम् । चक्रे त्वचं दक्षपादं त्वचं च्छित्वा कटेरधः
वामपादं तथा चक्रे कटिपर्यंतमाशुच । हृष्टश्चावेपितश्चैव तत ऊर्ध्वमथाच्छिनत्
करांसोदरहृत्कंठत्वचं निर्भिद्य लुब्धकः । मस्तकस्य त्वचं चापि निर्बिभेद प्रहृष्टवान्
तयोरंतरतस्तस्माद्गात्रं निर्भिद्य वर्तुलम् । छित्त्वांगुलि समादाय देवायार्पितवांस्त्वचम्
आरादेव तथा दिव्यरूपः स्वक्षश्चतुर्भुजः । नानाभूषणसंयुक्तः स्थितो वियति शाङ्करः
अथ शैवाः समायाता दूताः शतसहस्रशः । विचित्रमुकुटाकाराः सर्वाभरणभूषिताः
त्रिशूलपाणयः सर्वे शुद्धस्फटिकसंनिभाः । चतुर्भुजाः सुरूपाश्च विमानवरसंस्थिताः
सर्वे सूर्यसमाः शांता रंभावत्प्रियया युताः । सूनुपत्नीबलोत्साह विलासस्त्रीशतान्विताः
तेजसा सूर्यसदृशाः पुष्पवृष्टिमवाकिरन् । तैराहूतो लुब्धकश्च नागच्छदवदच्च तान्
भार्याबंधुजनोपेतो गच्छेहमथवा न वा । शैवास्तद्वचनं श्रुत्वा वाक्यमेतदथोचिरे
येन पुण्यं कृतं पापं तेन भोग्यं हि तत्फलम् । लुब्धक उवाच- अशौचानां च सर्वेषां धर्माणामेककर्तृकम्
माहेश्वराणां धर्माणां फलं च द्विबहुष्वपि । एतस्मिन्नंतरे प्राप्तो वीरभद्रः शतार्भकः
नानाकोटिगणोपेतो एहि लुब्धकबंधुयुक् । सर्वं त्वयोक्तं च तथा सभार्यो ज्ञातिबंधुयुक्
आरुह्येदं विमानं च शिवं गच्छ शिवं तु वः । अथ तद्वचनात्प्राप्तः शिवलोकं विमानगः
वसिष्ठ उवाच- दृष्टवानसि सर्वं त्वमीशपूजां समाचर । विमुक्तपापबंधस्त्वं शिवलोकं गमिष्यसि
यदि राज्यं त्वया प्रार्थ्यं मार्जयेशां गणं नृप । गोमयोदकलेपं च नित्यमेव समाचर
एतावता भूमिराज्यं ध्रुवं तव भविष्यति । यावदायुश्च ते राज्यमंते शिवपदं भवेत्
नैतस्मिंस्तु भवेद्राज्यसंसिद्धिरनुमृत्युतः । अतो देहांतरं प्राप्य शिवसेवाप्रभावतः
भविष्यति च ते राज्यं शिवभक्तिः स्थिरा तथा । शंभुरुवाच- अथ कृत्वा तथा पूजां मृतः स्वर्गं गतस्ततः
राजजन्मपुनः प्राप्य राज्यं चक्रे शिवेरतः । कदाचिदथ देवस्य गृहमभ्यगमन्नृपः