शंभुरुवाच- अयमासीत्पुरा कश्चित्क्षत्त्रियः क्रोधनः सदा । नष्टभार्यो नष्टसेनो नष्टराष्ट्रोतिदुःखितः
लब्ध्वा लुलाय द्वितयं कृषिं चक्रे सहात्मजैः । ऋणेन महता युक्तः पुनश्चातीव दुःखितः
पुनश्च दुःखितो राजा सर्पेण सुतनाशनात् । तथाभूतो महीपालस्तत्याज कृषिमप्युत
परित्यज्य सुतौ चापि त्यक्ताहारो रुरोद ह । सुतावथ समागम्य प्राहतुः पितरं त्विदम्
किमर्थं रुद्यते तात नष्टो नायाति रोदनात् । शरीरशोषणायाथ शोकस्तेऽद्य भविष्यति
शोकेन चक्षुषी नष्टे कंठो नष्टस्तथा तव । अनुष्ठानं तथा नष्टं किमर्थं परितप्यसे
एको नष्टो न चायाति रक्ष पंचस्थितानसून् । बहूनां रक्षणं पुण्यमाश्रितानां विशेषतः
अन्याश्रितममुं शत्रुं कथं शोचितुमर्हसि । पितोवाच- पुत्रः शत्रुः कथं पुत्रौ युवां शत्रू तथा च मे
अत्यंतसुखिनं पुत्रं कथं शत्रुमभाषतम् । सुतावूचतुः जायमानो हरेद्भार्यां वर्द्धमानो हरेद्धनम्
म्रियमाणस्तथा प्राणाञ्छत्रुत्वं किमतः परम् । यत्सुखं च त्वया प्रोक्तं स्पर्शनालिंगनादिभिः
दुःखोदर्कमिदं राजन्सर्वमेतद्वदामि ते । प्रसूतिकाले पुत्रस्य भार्यानाशविचारणा
जीवितायामथोपत्न्यामात्मनः सुखनाशनम् । योन्यशुद्धौ तु जातायां संयोगो नोपपद्यते
आलिंगनपरे गाढं स्तन्येनांगं परिप्लुते । तथापि यदि संयोगः शिशुरोदनताः स्त्रियाः
दृढं शिशुगतं चित्तं ततो वैरस्यमेव च । अथ चेत्पतितो डिंभो मध्ये मैथुनमुद्गतिः
रतिमध्ये तु विच्छेदे दुःखं किंचिदसन्निभम् । सर्वकाले परिमिते कदाचिद्रतिसंभवः
तत्काले भोजनं नास्ति स्वापो नास्ति च भार्यया । शिशूनां रक्षणे दुःखं व्याधितर्षग्रहादिभिः
तन्मतं यत्सुखं चित्रं यथांकारोहणं पितुः । आलिंगनकृतं तात चुंबनादिकृतं तथा
अत्यन्तमधुरोक्त्यादि यत्सुखानि नरेश्वर । रतिमध्ये विरामस्य कलां नार्हंति षोडशीम्
अन्यान्यपि च दुःखानि संति पुत्रे सहस्रशः । अनेन त्वं किं क्रियसे इहामुत्र विरोधिना
त्यज शोकमिदं तस्मादावां पुत्रौ स्थिताविह । श्रीराजोवाच-। त्यजामि शोकं दुर्वारं सर्वकार्यविरोधिनम्
आत्मनश्च हितं कार्यमिहामुत्र सुतौ मम । पुरोधसं तु गच्छामि मम पूर्वं महागुरुम्
वसिष्ठं मुनिवर्यं च स दास्यति गतिं मम । एवमुक्त्वा गतो विप्रं वाराणस्यां स्थितं गुरुम्
दंडवत्प्रणनामाथ मुनिना परिपूजितः । आलिंगितशिरो घ्रातो दत्तासनपरिग्रहः
उक्तश्चागमनं किं ते किं कार्य्यं करवाणि वै । राजोवाच- गतिं प्रयच्छ मे विप्र संसारतरणाय हि
खिन्नोहं कर्मणा शश्वद्भवंतं शरणं गतः । वसिष्ठ उवाच- गतिं पश्य महालिंगं विश्वेश्वरमिति स्थितम्
एनं पूजय राजेंद्र देवदेवं पिनाकिनम् । यमाराध्य पुरा शक्तिररुंधत्याः सुतो मुनिः
रक्षसा भक्षितश्चापि यमलोकं गतो न सः । किंचित्कालं गतः स्वर्गं ब्रह्मलोकमगादतः
ब्रह्मलोकाद्विष्णुलोके क्रीडन्नास्ते सुतो मम । अमुं पश्य महाराज लुब्धकं वनचारिणम्
पूजयंतं हि विश्वेशं पत्रमात्रै स्वसंभृतैः । शमीवृक्षस्य संभूतैस्तथा पूगप्रसूनकैः
कदंबकुसुमैरर्ककुसुमैर्यूथिकाभवैः । एतैरन्यैर्महेशानं पूजयंतं विलोकय