जले तत्प्रोक्षितं मूलफलशाकादिकं नृप । न च पर्युषितं प्रोक्तं गंगातोयं च सागरम्
महानदीजलं सर्वं केदारजलमेव च । ह्रदरूपेण यत्तीर्थं कूपतीर्थेन राघव
तडागवापीसरसां कूपेनापां च यद्भवेत् । तत्तीर्थतोयं सर्वं च न च पर्युषितं भवेत्
न रात्रौ जलमाहार्यं दिवा संपादयेज्जलम् । ससैकतं तथा धार्यं न च पर्युषितं हि तत्
एवं विदित्वा पूजां त्वं शिवलिंगे समाचर । शंभुरुवाच- एवमुक्तोथ मुनिना इक्ष्वाकुर्ब्राह्मणप्रियः
शिवपूजापरो भूत्वा दिनाष्टकमतिष्ठत । नवमेऽथ दिने प्राप्ते प्रातःकाले कृतार्चनः
मरणावसरे प्राप्ते शिवपूजां विधाय सः । स्वान्प्राणानुपहाराय तत्याजैव महेशितुः
मृतं तमथ विज्ञाय यमदूताः समागताः । यमलोकप्रापका ये यतमास्थाय तस्थिरे
शैवाश्चापि समायाता दूता वह्निमुखादयः । तेषामन्योन्यवादोभून्मामको मामकस्त्विति
अथ यामः पाशपाणिः शिवदूतमथार्दयत् । अथ वह्निमुखः क्रुद्धो यमदूतशतं ततः
महाकायस्तथा भूत्वा गृहीत्वा च करेण तत् । शिरांसि च तथैकेनापीड्य चिच्छेद शष्पवत्
मारयित्वा ततो दूतानादायेक्ष्वाकुमभ्यगात् । निवेदयामास च तं वीरभद्राय धीमते
स चापि शंकरायाथ तं प्राह च महेश्वरः । त्वयाष्टदिनपूजैव कृता कृष्णा दिने दिने
त्वमनिंदः पुरा मां च लिंगं शिश्नाग्रमित्युत । तेनैव पापयोगेन शिश्नवक्त्रो भविष्यसि
शिश्नाग्रे विवरं चक्रं जिह्वानासादिवर्जितः । पूर्वं मन्नामवक्तृत्वाद्वक्ता चापि भविष्यसि
अथेशवचनात्सोपि तथाभूतोभवत्क्षणात् । शंभुरुवाच- य इदं शृणुयान्नित्यं पुराणाख्यानमुत्तमम्
विमुक्तपापबंधश्च शिवभक्तो भविष्यति । स याति च शिवस्थाने वक्ता चापि तथा भवेत्
यश्च वक्ति कथामेनां हरेण सदृशो भवेत् । उक्त्वा कथामिमां पूर्वमधीरो नाम भूमिपः
स्वर्गं स गतवान्राजा कृतपापोथ भार्यया
श्रीराम उवाच- अयमग्निशिखो नाम वह्निः शिवगणश्च वै । स कथं तादृशो भूतस्तन्मे वद नमस्तव
शंभुरुवाच- अयमासीत्पुरा कश्चित्क्षत्त्रियः क्रोधनः सदा । नष्टभार्यो नष्टसेनो नष्टराष्ट्रोतिदुःखितः
लब्ध्वा लुलाय द्वितयं कृषिं चक्रे सहात्मजैः । ऋणेन महता युक्तः पुनश्चातीव दुःखितः
पुनश्च दुःखितो राजा सर्पेण सुतनाशनात् । तथाभूतो महीपालस्तत्याज कृषिमप्युत
परित्यज्य सुतौ चापि त्यक्ताहारो रुरोद ह । सुतावथ समागम्य प्राहतुः पितरं त्विदम्
किमर्थं रुद्यते तात नष्टो नायाति रोदनात् । शरीरशोषणायाथ शोकस्तेऽद्य भविष्यति
शोकेन चक्षुषी नष्टे कंठो नष्टस्तथा तव । अनुष्ठानं तथा नष्टं किमर्थं परितप्यसे
एको नष्टो न चायाति रक्ष पंचस्थितानसून् । बहूनां रक्षणं पुण्यमाश्रितानां विशेषतः
अन्याश्रितममुं शत्रुं कथं शोचितुमर्हसि । पितोवाच- पुत्रः शत्रुः कथं पुत्रौ युवां शत्रू तथा च मे
अत्यंतसुखिनं पुत्रं कथं शत्रुमभाषतम् । सुतावूचतुः जायमानो हरेद्भार्यां वर्द्धमानो हरेद्धनम्
म्रियमाणस्तथा प्राणाञ्छत्रुत्वं किमतः परम् । यत्सुखं च त्वया प्रोक्तं स्पर्शनालिंगनादिभिः