अल्पायुश्च भवान्विप्र शिवपूजनमाचर । त्रिकालं वा द्विकालं वा एककालमथापि वा
यामं यामार्धमथवा शिवपूजनमाचर । वानप्रस्थाश्रमो भूत्वा वानप्रस्थकृताश्रयः
वानप्रस्थप्रसूनैश्च प्रातःपूजय शंकरम् । श्रीफलैः शतपत्रैश्च पद्मसौगंधिकैरपि
नीपैर्जपाभिः पुन्नागैः करवीरैश्च पाटलैः । तुलस्याच रविदलैरपराजितया तथा
अपामार्गदलै रुद्र जटादमनकेन च । सर्वैरेभिः समफलैर्बिल्वपत्रैश्च धूर्तकैः
द्रोणैः शिरीषैः शक्तैश्च दूर्वया कोरकैरपि । नंद्यावर्तैरक्षतैश्च तिलमिश्रैश्च केवलैः
अन्यैरपि यथाशक्ति प्रातः संपूजयेच्छिवम् । कर्णिकारैश्च सौवर्णर्दूवर्ययापि शिवार्चनम्
मुकुलैर्नार्चयेद्देवं चंपकैर्जलजं विना । जलजानां च सर्वेषां पत्राणामक्षतस्य च
कुशपुष्पस्य रजतसुवर्णकृतयोरपि । अन्यत्कृत्वा यथा यत्तु तैलपक्वं भवेन्नृप
न तत्पर्युषितं प्रोक्तमपूपादि गमिष्यति । उक्षितं यत्फलायुक्तं तैलक्षाराम्लजीरकैः
जले तत्प्रोक्षितं मूलफलशाकादिकं नृप । न च पर्युषितं प्रोक्तं गंगातोयं च सागरम्
महानदीजलं सर्वं केदारजलमेव च । ह्रदरूपेण यत्तीर्थं कूपतीर्थेन राघव
तडागवापीसरसां कूपेनापां च यद्भवेत् । तत्तीर्थतोयं सर्वं च न च पर्युषितं भवेत्
न रात्रौ जलमाहार्यं दिवा संपादयेज्जलम् । ससैकतं तथा धार्यं न च पर्युषितं हि तत्
एवं विदित्वा पूजां त्वं शिवलिंगे समाचर । शंभुरुवाच- एवमुक्तोथ मुनिना इक्ष्वाकुर्ब्राह्मणप्रियः
शिवपूजापरो भूत्वा दिनाष्टकमतिष्ठत । नवमेऽथ दिने प्राप्ते प्रातःकाले कृतार्चनः
मरणावसरे प्राप्ते शिवपूजां विधाय सः । स्वान्प्राणानुपहाराय तत्याजैव महेशितुः
मृतं तमथ विज्ञाय यमदूताः समागताः । यमलोकप्रापका ये यतमास्थाय तस्थिरे
शैवाश्चापि समायाता दूता वह्निमुखादयः । तेषामन्योन्यवादोभून्मामको मामकस्त्विति
अथ यामः पाशपाणिः शिवदूतमथार्दयत् । अथ वह्निमुखः क्रुद्धो यमदूतशतं ततः
महाकायस्तथा भूत्वा गृहीत्वा च करेण तत् । शिरांसि च तथैकेनापीड्य चिच्छेद शष्पवत्
मारयित्वा ततो दूतानादायेक्ष्वाकुमभ्यगात् । निवेदयामास च तं वीरभद्राय धीमते
स चापि शंकरायाथ तं प्राह च महेश्वरः । त्वयाष्टदिनपूजैव कृता कृष्णा दिने दिने
त्वमनिंदः पुरा मां च लिंगं शिश्नाग्रमित्युत । तेनैव पापयोगेन शिश्नवक्त्रो भविष्यसि
शिश्नाग्रे विवरं चक्रं जिह्वानासादिवर्जितः । पूर्वं मन्नामवक्तृत्वाद्वक्ता चापि भविष्यसि
अथेशवचनात्सोपि तथाभूतोभवत्क्षणात् । शंभुरुवाच- य इदं शृणुयान्नित्यं पुराणाख्यानमुत्तमम्
विमुक्तपापबंधश्च शिवभक्तो भविष्यति । स याति च शिवस्थाने वक्ता चापि तथा भवेत्
यश्च वक्ति कथामेनां हरेण सदृशो भवेत् । उक्त्वा कथामिमां पूर्वमधीरो नाम भूमिपः
स्वर्गं स गतवान्राजा कृतपापोथ भार्यया
श्रीराम उवाच- अयमग्निशिखो नाम वह्निः शिवगणश्च वै । स कथं तादृशो भूतस्तन्मे वद नमस्तव