यः शंभुपूजां विच्छिंद्यात्तेन च्छिन्नं हि मे शिरः । वरं शूलविनिक्षेपो वरं शाल्मलिकर्षणम्
वरं प्राणपरित्यागो नैव पूजाव्यतिक्रमः । वरं वह्निप्रपतनं वरं चाधःशिरः कृतम्
वरं स्वमलभुक्तिर्वा नेशपूजाव्यतिक्रमः । अपूजयित्वा चेशानं यो हि भुंक्ते नराधमः
पापानामन्नरूपाणां तस्य भोजनमुच्यते । अनुच्चार्य पदं शंभोर्भुङ्क्ते यदि च खादति
शिवेति मंगलं नाम यस्य वाचि प्रवर्तते । भस्मीभवंति तस्याशु महापातककोटयः
शिवं प्रदक्षिणीकृत्य यो नमस्यति मानवः । भूमेः प्रदक्षिणं कृत्वा यत्तत्पुण्यमवाप्नुयात्
प्रदक्षिणत्रयं कृत्वा नमस्कारं च पंचधा । पुनः प्रदक्षिणं कृत्वा नत्वा मुच्येत पातकैः
सर्ववाद्यानि यः कुर्यात्कारयेद्वा शिवालये । बलेन महता युक्तो वेदसेव्यत्र जायते
श्रावयेद्यः पुराणानि देवदेवं त्रिलोचनम् । सर्वपापविनिर्मुक्तो वसेच्छिवपुरे कृती
तं नित्यमादरेणेशो वक्ति वाक्यं प्रियं सदा । एतत्संक्षेपतः प्रोक्तमीशपूजनमुत्तमम्
अल्पायुश्च भवान्विप्र शिवपूजनमाचर । त्रिकालं वा द्विकालं वा एककालमथापि वा
यामं यामार्धमथवा शिवपूजनमाचर । वानप्रस्थाश्रमो भूत्वा वानप्रस्थकृताश्रयः
वानप्रस्थप्रसूनैश्च प्रातःपूजय शंकरम् । श्रीफलैः शतपत्रैश्च पद्मसौगंधिकैरपि
नीपैर्जपाभिः पुन्नागैः करवीरैश्च पाटलैः । तुलस्याच रविदलैरपराजितया तथा
अपामार्गदलै रुद्र जटादमनकेन च । सर्वैरेभिः समफलैर्बिल्वपत्रैश्च धूर्तकैः
द्रोणैः शिरीषैः शक्तैश्च दूर्वया कोरकैरपि । नंद्यावर्तैरक्षतैश्च तिलमिश्रैश्च केवलैः
अन्यैरपि यथाशक्ति प्रातः संपूजयेच्छिवम् । कर्णिकारैश्च सौवर्णर्दूवर्ययापि शिवार्चनम्
मुकुलैर्नार्चयेद्देवं चंपकैर्जलजं विना । जलजानां च सर्वेषां पत्राणामक्षतस्य च
कुशपुष्पस्य रजतसुवर्णकृतयोरपि । अन्यत्कृत्वा यथा यत्तु तैलपक्वं भवेन्नृप
न तत्पर्युषितं प्रोक्तमपूपादि गमिष्यति । उक्षितं यत्फलायुक्तं तैलक्षाराम्लजीरकैः
जले तत्प्रोक्षितं मूलफलशाकादिकं नृप । न च पर्युषितं प्रोक्तं गंगातोयं च सागरम्
महानदीजलं सर्वं केदारजलमेव च । ह्रदरूपेण यत्तीर्थं कूपतीर्थेन राघव
तडागवापीसरसां कूपेनापां च यद्भवेत् । तत्तीर्थतोयं सर्वं च न च पर्युषितं भवेत्
न रात्रौ जलमाहार्यं दिवा संपादयेज्जलम् । ससैकतं तथा धार्यं न च पर्युषितं हि तत्
एवं विदित्वा पूजां त्वं शिवलिंगे समाचर । शंभुरुवाच- एवमुक्तोथ मुनिना इक्ष्वाकुर्ब्राह्मणप्रियः
शिवपूजापरो भूत्वा दिनाष्टकमतिष्ठत । नवमेऽथ दिने प्राप्ते प्रातःकाले कृतार्चनः
मरणावसरे प्राप्ते शिवपूजां विधाय सः । स्वान्प्राणानुपहाराय तत्याजैव महेशितुः
मृतं तमथ विज्ञाय यमदूताः समागताः । यमलोकप्रापका ये यतमास्थाय तस्थिरे
शैवाश्चापि समायाता दूता वह्निमुखादयः । तेषामन्योन्यवादोभून्मामको मामकस्त्विति
अथ यामः पाशपाणिः शिवदूतमथार्दयत् । अथ वह्निमुखः क्रुद्धो यमदूतशतं ततः