तस्यां भद्रासनं मध्ये वेदपादविचित्रितम् । सर्वोपनिषदाकॢप्तं पादपीठं सुशोभनम्
पुराणान्यागमास्तस्य स्वस्तीति शिवपादयोः । तत्रासीनो महायोगी गोक्षीरसदृशाकृतिः
मंदस्मितसुचार्वास्योद्व्यष्टवर्षवयाः प्रभुः । दधान उरसामालां मणिरुद्राक्षकल्पिताम्
बिभ्राण उपवीतं च कर्णिकारसमद्युतिः । सुरत्नकुंडलो देवः किरीटकनकांबरः
नानाभूषणसंयुक्तो नानागंधविलेपनः । वामांकन्यस्तगिरिजो वीक्षमाणस्तदाननम्
मुग्धां च सुमुखीं बालां नवयौवनशोभिताम् । भूषितां चारुसर्वांगीं बिभ्रतीं कनकांबुजम्
आलिंग्य वामेनकरेण देवीं दक्षेण तस्या मुखमुन्नमय्य । स्पृष्ट्वा शिरो वामकरेण तस्या दक्षेण कुर्वंस्तिलकं च देवः
भक्तिर्वीजयते देवं प्रणव व्यजनेन च । पूजाकांतापि कुसुमैर्मालां देवाय बिभ्रती
ज्ञप्तिर्विरक्तिर्वनिते बिभ्रत्यौ योगचामरे । समाधिः कार्यकर्तास्य धारणायोषिदस्य च
यमाश्चनियमाश्चैव किंकरास्तस्य कीर्तिताः । प्राणायामः पुरोधास्तु प्रत्याहारः सुवर्णधृक्
ध्यानं च द्रविणाध्यक्षः सत्यं सेनापतिस्तथा । ब्रह्मप्रभृतिकीटांताः पशवस्तत्पतिः शिवः
पशूनां पालको धर्मः स्यादधर्मश्च तस्करः । मायापाशेन ते बद्धा मोचनी काशिका मृतिः
नानाविधाश्च प्रमदा देवदेवमुमापतिम् । एतादृशमुमानाथं कोटिजंतुरनुस्मरेत्
इष्टान्भोगानवाप्याथ शिवलोके महीयते । ब्रह्मविष्णुमहेंद्राद्यास्तत्पुरद्वारपालकाः
लक्ष्मीसरस्वतीदेव्यौ देहल्याद्यर्च्चनेक्षितेः । नियुक्ते देवदेवस्य देवाश्च सुरयोषितः
दास्यो देवाः समस्ताश्च दासा यस्य महात्मनः । एतादृशमहाशैलमिक्ष्वाकुः संददर्श ह
मुनिं प्रणम्य जाबालिमिदमाह वचस्तदा । गंतुकामो महाशैलं शक्तोस्यस्मिन्न वा मुने
ममायुरल्पं कथितं यमेन ज्ञानिना पुरा
नरकश्च बहुःप्रोक्तः कथं श्रेयो भविष्यति । जाबालिरुवाच- मयापि सर्वमेतत्ते ज्ञातं दिव्येन चक्षुषा
आयुर्दशदिनं ब्रह्मन्विद्वानपि न धर्मकृत् । न तपस्ते ह्यनभ्यासान्न च योगोऽल्पकालतः
न दानं द्रविणाभावादसामर्थ्यात्तथार्हणा । न यज्ञो न व्रतं पूर्तं न च पुण्यमनायुषः
न चाध्यापनतीर्थादि सेवाकालविरोधतः । तस्मात्तत्पापनाशाय प्रायश्चित्तं न विद्यते
गतिप्रदं तथा धर्मं गच्छ वा तिष्ठ वा मुने । इक्ष्वाकुरुवाच-। यावज्जीवं प्रतिज्ञाय क्रियते यो वृषो द्विज
तेन पापपरीहारो भविष्यति सुनिश्चितम् । तं ब्रूहि येन धर्मेण मम पापं प्रणश्यति
केन वा पुण्ययोगेन स्वर्गतिश्च भविष्यति । शरणं भव विप्रर्षे नरकादतिबिभ्यतः
सर्वधर्मफलं प्राहुः शरणागतपालनम् । जाबालिरुवाच- सत्यं स्वल्पेन कालेन न तादृग्लभ्यते वृषः
अमृतेत्वनृते शक्यं वक्तुं स्वप्नांतरेष्वपि । रहस्यमेकं किंचित्तु यस्य कस्यापि नोच्यते
इक्ष्वाकुरुवाच- शरणं पालय मुने कालो मे निर्गमिष्यति । जाबालिरुवाच- मम प्राणाधिकं विप्र रहस्यं श्रुतिचोदितम्
शिवलिंगार्चनं नाम ब्रह्मादिभिरनुष्ठितम् । समस्तपापशमनं सर्वोपद्रवनाशनम्
भुक्तिमुक्तिप्रदं तस्माच्छिवपूजां समाचर । नातिक्रामेद्यदि मुने शिवलिंगार्चनं शुभम्