सर्वर्तुकुसुमोपेतं नानागंधोपशोभितम् । किन्नराणां च मिथुनैर्गीतपूर्णमहागुहम्
अनेकरूपलावण्य वनितोषितपादपम् । लंबमानविचित्राभिस्ताभिः शोभितपादपम्
रतिश्रमप्रसुप्तानां बोधनादितषट्पदम् । कूजंति च पिकाः कामं वियुक्तानां युजे किल
नानामुनिगणाकीर्णं प्रशांतमृगचारिणम् । अप्सरोगणसंकीर्णं गंधर्वगणसेवितम्
नानासिद्धमुखोद्भूतगीतपूर्णवनांतरम् । विचित्रफलसंपूर्णं नानादेवालयान्वितम्
प्रासादशतसंबाधं नानागृहसमन्वितम् । सिंहाननैर्गजमुखैरुलूकवदनैरथ
अमुखैर्विमुखैरुग्रैरर्द्धवक्त्रैर्मृगीमुखैः । रुरुजंतुकगोधाहि वानरर्क्षमुखैरपि
व्याघ्रवृश्चिकभल्लूष्ट्रश्वानगर्दभतुंडकैः । समस्तजीववदनसदृशास्यैर्गणेश्वरैः । वल्लीमुखैर्वृक्षमुखैः शिलावक्त्रैरयोमुखैः
शंखमुक्तादिजलजवदनैरुपशोभितम् । अधिकांगैरनंगैश्च जटिलैः शिखिमुंडितैः
पत्रिवक्त्रैर्द्विषड्वक्त्रैस्त्रिविग्रहमुखैरपि । घंटास्यैः शूर्पवदनकर्णपादमुखैरपि
घंटामुखैर्वेणुमुखैः किंकिणीवदनैरपि । यादृग्वस्तु जगत्यस्ति तादृशास्यैरयोमुखैः
कैश्चिन्निभृतकंदर्परूपलावण्यकोमलैः । कोटिसूर्यप्रतीकाशैश्चंद्र कोटिसमप्रभैः
नानावर्णैर्विश्वमुखैर्विश्वरूपैश्चतुर्मुखैः । द्विमुखैः पंचवक्त्रैश्च त्रिमुखैः षण्मुखैरपि
एकानेकमुखैः शांतैः सर्वदा सुखिभिर्युतम् । नानाभोगसमृद्धैश्च रतिकामसमैरपि
लक्ष्मीनारायणमुखैरुमेशसमविग्रहैः । नानारूपधरैश्चान्यैः सेवितं मंदराचलम्
धेनवो यत्र वेदाश्च मीमांसावत्स संयुताः । धर्मादयः सवर्ष्माणः पुराणानि च कर्मणा
स्मृतीतिहासजातानि आगमाश्च शरीरिणः । स्थिताश्च मंदरे यत्र सशैलः पापनाशनः
तस्य मध्ये महापुण्यं पुरं परमशोभितम् । वापीतडागोपवनप्रासादशतशोभितम्
सप्तप्राकारपरिखं रत्नाट्टालकसंयुतम् । गोपुरैर्नवभिर्युक्तं विचित्रगृहसंयुतम्
यस्य चाप्रतिमं तेज उष्णशीतादिवर्जितम् । तन्मध्ये नगरी पुण्या तन्मध्ये च सभा शुभा
तस्यां भद्रासनं मध्ये वेदपादविचित्रितम् । सर्वोपनिषदाकॢप्तं पादपीठं सुशोभनम्
पुराणान्यागमास्तस्य स्वस्तीति शिवपादयोः । तत्रासीनो महायोगी गोक्षीरसदृशाकृतिः
मंदस्मितसुचार्वास्योद्व्यष्टवर्षवयाः प्रभुः । दधान उरसामालां मणिरुद्राक्षकल्पिताम्
बिभ्राण उपवीतं च कर्णिकारसमद्युतिः । सुरत्नकुंडलो देवः किरीटकनकांबरः
नानाभूषणसंयुक्तो नानागंधविलेपनः । वामांकन्यस्तगिरिजो वीक्षमाणस्तदाननम्
मुग्धां च सुमुखीं बालां नवयौवनशोभिताम् । भूषितां चारुसर्वांगीं बिभ्रतीं कनकांबुजम्
आलिंग्य वामेनकरेण देवीं दक्षेण तस्या मुखमुन्नमय्य । स्पृष्ट्वा शिरो वामकरेण तस्या दक्षेण कुर्वंस्तिलकं च देवः
भक्तिर्वीजयते देवं प्रणव व्यजनेन च । पूजाकांतापि कुसुमैर्मालां देवाय बिभ्रती
ज्ञप्तिर्विरक्तिर्वनिते बिभ्रत्यौ योगचामरे । समाधिः कार्यकर्तास्य धारणायोषिदस्य च
यमाश्चनियमाश्चैव किंकरास्तस्य कीर्तिताः । प्राणायामः पुरोधास्तु प्रत्याहारः सुवर्णधृक्