अतोऽस्य विविधा पूजा शंकरस्य विधीयते । रजश्च तमसायुक्तं दारुणं परिकीर्तितम्
दारुणापि ततः पूजा शंकरे गतिदा मता । रजश्च तमसायुक्तमलं शास्त्रप्रवर्तकम्
विच्छिन्नापि ततः पूजा शंकरे फलदा मता । तमश्च सत्वसंयुक्तं मिश्रकं च प्रवर्तकम्
मिश्रपूजा विफलदा शंकरे लोकशंकरे । यादृशं तादृशं वापि नियमेनार्चनं विभोः
शंकरस्याशुफलदं यादृशस्यापि देहिनः । शंभुरुवाच- एतत्संक्षेपतः प्रोक्तं विधानं भस्मनोऽनघ
वक्तृश्रोतृजनानां च समस्ताघविनाशनम्
इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे भस्मोत्पत्तिविधानं नामाष्टोत्तरशततमोऽध्यायः
शंभुरुवाच- अत्र ते कीर्तयिष्यामि कथां पापप्रणाशिनीम् । श्रुत्वा यां प्राप धर्मात्मा शिवभक्तिमनुत्तमाम्
इक्ष्वाकुर्नाम विप्रेंद्रो महाविद्यो महामतिः । बहुशास्त्रप्रवीणश्च नीतिशास्त्रविशारदः
न यष्टा न च दाता च न देवानां च पूजकः । न चाध्यापयिता वेदं न व्याख्याता श्रुतस्य च
न पुराणेतिहासानां श्रुतीनामागमस्य वा । यत्नाद्भोक्ता तथा देहसंस्कारैकप्रवर्तकः
तादृशस्य द्विजस्याथ समालक्ष्यायुरत्यगात् । लक्षांतरे तथैकस्मिन्वत्सरे मासि पंचमे
तृतीय दिवसे रात्र्यां पुराणं श्रुतवानिदम् । स्वसंपादितवित्तस्य येन दानं न वै कृतम्
दिनेदिने भुज्यमानं निःसारं स्यात्क्रमेण हि । वर्षाण्येव च तावंति नरके पच्यते ध्रुवम्
कृमियोनिसहस्रं च अनुभूय ततः परम् । दरिद्रो व्याधितोऽबंधुर्दुष्टभार्यो बहुप्रजः
दिनेदिने भिक्षितेन याचितेन च जीवनम् । यन्न क्वापि च बीजानां मग्नानामथ मार्गणात्
लब्धेनजीवनं कर्म भृत्यानामथ जीवनम् । मध्ये श्रोत्रविहीनश्च नेत्रहीनः स्खलन्मलः
एवं पुराणं श्रुत्वा साविक्ष्वाकुर्भृशदुःखितः । मनसा चिंतयच्चेदं स्मारं स्मारं द्विजाधमः
रूपपुष्पैर्माहिष्मयी दुर्गापि फलवर्जिता । तथा पुराणरहिता विद्या नो गतिदर्शनी
बहुशास्त्रं समभ्यस्य बहुवेदान्सविस्तरान् । पुंसोश्रुतपुराणस्य सम्यग्याति न दर्शनम्
शंभुरुवाच- एवं चिंतयतस्तस्य अकालमरणं त्वभूत् । यमलोकं गतश्चाथ यमेन परिभाषितः
यम उवाच- अनेकपापयुक्तोसि पुण्यं नैव महत्तव । न वेदाध्यापनात्प्राप्तं पापं च विदितं तव
कोटिवर्षाणि नरके तवस्थितिरिति द्विज । आयुरस्ति तवात्यल्पं गम्यतां पौर्विकीं तनुम्
कुरु पुण्यं हितं दानं देवतापूजनं जपम् । सांगमध्यापनं विप्र भोजनं भस्मधारणम्
भज विश्वेश्वरं देवं देवदेवमुमापतिम् । तस्य प्रयत्नमात्रेण मम लोकं न गच्छसि
यत्किंचित्प्रत्यहं पापिन्पुराणं शृणु सादरम् । ततस्तच्छ्रवणादेव नेक्षसे मम यातनाः
यमस्य वचनं श्रुत्वा ब्राह्मणः स्वां ययौ तनुम् । अथेशपूजनकृते यत्नमास्थाय स द्विजः
अगमन्मुनिवर्यं तु जाबालिशिवपूजकम् । तपः स्वाध्यायसंपन्नं श्रुतिस्मृतिविवेचकम्
पुराणतत्त्ववेत्तारं लक्षशिष्यसमावृतम् । जराशिथिलसर्वांगं वेदवेदांगपारगम्
द्रष्टुकामो ययौ शैलं मंदरं चारुकंदरम् । नानाविहंगसंपूर्णं नानापुष्पलतावृतम्