कथं ते चिरविच्छेदं सोढुं शक्नोमि दुःसहम् । यदा मय्यनुकंपास्ति तव पीनपयोधरे
तदा कियद्दिनं तिष्ठ मया सह वराङ्गने । ततो देवाधिराजस्य वदंती बहुसंपदम्
वर्षाणामयुतं तस्थौ सा देवनिलये सती । पद्मगन्धोवाच- आज्ञां देहि सुराधीश साधितुं सुमनोरथम्
व्रजाम्यहं कर्मभूमिं वंदे पादद्वयं तव । इन्द्र उवाच- त्वत्प्रेमसिंधुमानेन मया चन्द्रनिभानने
स्थित्वा कतिदिनं पश्चाद्गमिष्यसि यथासुखम् । ततस्तुकौतुकागारे तेन सार्द्धमहर्निशम्
क्रीडंती पद्मगंधा सा तस्थौ वर्षायुतत्रयम् । सुराधीशं ततः सेति तदा प्राह मुदान्विता
आदेशं कुरु गच्छामि पृथिवीं प्रति संप्रति । इंद्र उवाच- जाड्यं जहीहि सुश्रोणि तिष्ठात्रैव मया सह
त्वां त्यक्तुं न हि शक्नोमि प्राणेभ्योऽपि गरीयसीम् । पद्मगन्धोवाच- पुण्यक्षये सुराधीश यदा यास्याम्यहं भुवि
तदा चिरं ते विच्छेदो भविष्यति मया सह । यद्विच्छेदे मया नाथ पुनर्गंतुं भुवं प्रति
इच्छाम्यहं पुनर्द्यौश्च पुण्योपार्जनहेतवे । कर्मभूमिमहं गत्वा येनोपायेन वासव
तत्करिष्यामि विच्छेदः कदाचित्स्यात्त्वया न मे । इन्द्र उवाच- भद्रे त्वया यदा नूनं कर्मेदं कर्तुमिच्छितम्
तदा गच्छ पुनः शीघ्रमागमिष्यसि सुंदरि । सह नेत्राद्धि विगलद्वाष्पसिक्ततनुस्ततः
दोर्भ्यामालिङ्ग्य तां शक्रो गच्छेत्याह प्रिये वदन् । तदादेशात्ततः साध्वी कर्मभूमिं समागता
जाता च हस्तिनी योनौ भूत्वा जातिस्मरा द्विज । स्मरंती निजवृत्तांतं सा कियद्भिर्दिनैस्ततः
जगाम जाह्नवीतीरं हस्तियोनिसु संभवा । गङ्गायां स्नानमासाद्य गङ्गाकर्दमभूषिता
गंगागंगेति जल्पंती ह्रदं निम्नं विवेश सा । तस्मिन्गंगाह्रदे गत्वा हस्तिनी पर्वताकृतिः
निजां जातिं स्मरंती सा जगाम पंचतां पुनः । तस्याः साहसमालोक्य हस्तिनीं सर्वदेवताः
ववर्षुः पारिजाताद्यैः कुसुमैरुत्तमैर्मुदा । तामानेतुं ततः शक्रः सर्वदेवगणैर्वृतः
वेगात्तच्चिरविच्छेदात्कृष्णांगीं सुमना ययौ । पुष्पकेतां समालोक्य दिव्यदेहां सुराधिपः
कथयन्निजदुःखानि निजावासं जगाम ह । पुलोमजा च रंभा च प्रम्लोचा चोर्वशी तथा
सुंदर्योऽन्याश्च युवतीस्तस्यास्त्यक्त्वा मुदा गताः । शक्रस्य हृदयोत्साहं तन्वंती सा वरांगना
पुरंदरपुरे तस्थौ सुभगा प्रीतिवल्लभा । यस्यास्तिष्ठंति गङ्गायां यावदस्थीनि जैमिने
कुलकोटिशतं तावत्तस्थावास सुरालये । राजानो दिविराज्येषु ये ये भूतास्तपोबलात्
तेषांतेषां स्नेहभूमिर्भवत्यमरसुंदरी । गंगास्थिमज्जनादेव जैमिने फलमीदृशम्
गंगायां त्यजतो देहं फलं वक्तुं न शक्यते । मृतं शरीरं गंगायां यावदस्थीनि जैमिने
कल्पकोटिशतं तावत्तस्या वासः सुरालये । मृतं शरीरं गंगायां स्रोतोभिश्चलितं द्विज
दृश्यते देहिनस्तस्य तत्फलं शृणु जैमिने । स्वर्गे देवांगना त्रस्तचारुचामरवायुभिः
वीजितः स्वर्णपर्यंके सुप्तस्तिष्ठति कौतुकी । जाह्नवीसैकते यस्य शरीरं दृश्यते मृतम्
दिवाकरकरैस्तप्तं कुलं तस्य वदाम्यहम् । सुगन्धैश्चंदनैर्दिव्यैर्लिप्तसर्वकलेवरः १०० 7.8.
दिव्याङ्गनाभिः सहितो दिवि क्रीडतिसर्वदा । काकैर्गृध्रैश्च कंकैश्च शकुंतैर्भीष्ममातरि