ततः पयः सेचने च गदितः कपिला मनुः । अमृतं देवि ते क्षीरं पवित्रमिह वर्द्धितम्
तवप्रसादान्मुच्यंते मनुजाः सर्वपाप्मनः । प्रणवेनावहेद्विद्वान्भस्मनो वटकानथ
अणोरणीयानिति हि मंत्रेण तु विचक्षणम् । शंभुरुवाच- इत्थं तु भस्मसंपाद्य शुष्कमादाय मंत्रवित्
प्रणवेन विमृज्याथ सप्तप्रणवमंत्रितम् । ईशानेन शिरोदेशं मुखं तत्पुरुषेण च
उरोदेशमघोरेण गुह्यं वामेन मंत्रयेत् । सद्योजातेन वै पादौ सर्वांगं प्रणवेन तु
तत उद्धूल्य सर्वांगमापादतलमस्तकम् । तत आचम्य वसनं धौतं श्वेतं प्रधारयेत्
पुनराचम्य कर्म स्वं कर्तुमर्हति सर्वतः । ततो भस्मसमादाय प्रमृज्य प्रणवेन तु
त्रिनेत्रं त्रिगुणाधारं त्रयाणां जनकं विभुम् । स्मरन्नमः शिवायेति ललाटे तु त्रिपुंड्रकम्
नमः शिवाभ्यामित्युक्त्वा बाह्वोर्वापि त्रिपुंड्रकम् । अघोराय नम इति उभाभ्यां च प्रकोष्ठयोः
भीमायेति ततः पृष्ठे शिरोधि पश्चिमे तथा । नीलकंठाय शिरसि क्षिपेत्सर्वात्मने नमः
प्रक्षाल्याथ ततो हस्तौ कर्मानुष्ठानमाचरेत् । शिव उवाच- यूयमेवं प्रकारेण भस्म कृत्वा प्रघृष्य च
गुणान्धारयितुं शक्तास्ततः स्रक्ष्यथ वै प्रजाः । शंभुरुवाच- इत्थं शिवोदिता देवा ब्रह्मविष्णुमहेश्वराः
तथा कृत्वा च विधिना हमहमिकया तदा । अन्योन्यबोधनाशक्ताः प्रणम्य शिवमूचिरे
कं गुणं धारयेत्को वा शिवः प्राह सुतानथ । कर्मशक्तिं तथा ज्ञानं मुखरेण्वैव नश्यति
अल्पायुर्दृश्यते ब्रह्मा मनुभिश्चास्य जीवितम् । योऽहं ब्रह्मांडमालाभिर्भूषितो ब्रह्मगोपनम्
रजोगुणमवष्टभ्य न च जानासि मां तदा । ब्रह्माधिकबलो विष्णुरायुषि ब्रह्मणोऽधिकः
ब्रह्मांडमालाभरणे महेशस्य ममैव तु । चतुर्निःश्वासमात्रेण विष्णोरायुरुदाहृतम्
ब्रह्मणोऽधिकसत्वत्वात्सत्वमालंबतां हरिः । जानाति सर्वकालं मां क्वचिदेव न विस्मरेत्
सात्विकैकैव पूजास्य राजसी तामसी न तु । शांतं शिवं सत्वगुणं रजवक्त्रावमानतः
नभोनीलं तथा चैव गुणं शंभुस्तथाभजत् । सत्वं रजस्तमश्चापि दधार च पुरा किल
अतोऽस्य विविधा पूजा शंकरस्य विधीयते । रजश्च तमसायुक्तं दारुणं परिकीर्तितम्
दारुणापि ततः पूजा शंकरे गतिदा मता । रजश्च तमसायुक्तमलं शास्त्रप्रवर्तकम्
विच्छिन्नापि ततः पूजा शंकरे फलदा मता । तमश्च सत्वसंयुक्तं मिश्रकं च प्रवर्तकम्
मिश्रपूजा विफलदा शंकरे लोकशंकरे । यादृशं तादृशं वापि नियमेनार्चनं विभोः
शंकरस्याशुफलदं यादृशस्यापि देहिनः । शंभुरुवाच- एतत्संक्षेपतः प्रोक्तं विधानं भस्मनोऽनघ
वक्तृश्रोतृजनानां च समस्ताघविनाशनम्
इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे भस्मोत्पत्तिविधानं नामाष्टोत्तरशततमोऽध्यायः
शंभुरुवाच- अत्र ते कीर्तयिष्यामि कथां पापप्रणाशिनीम् । श्रुत्वा यां प्राप धर्मात्मा शिवभक्तिमनुत्तमाम्
इक्ष्वाकुर्नाम विप्रेंद्रो महाविद्यो महामतिः । बहुशास्त्रप्रवीणश्च नीतिशास्त्रविशारदः
न यष्टा न च दाता च न देवानां च पूजकः । न चाध्यापयिता वेदं न व्याख्याता श्रुतस्य च