अभूमिपातं गृह्णीयात्पात्रे पूर्वोदितेऽधिके । गोमयं शोधयेद्विद्वाञ्छ्रीर्मे भजतु मंत्रतः
अलक्ष्मीर्मयीति मंत्रेण गोमयस्यापमार्जनम् । सं त्वा सिंचामि मंत्रेण गोमूत्रं गोमये क्षिपेत्
पंचानां त्वेति मंत्रेण पिंडांश्चैव चतुर्द्दश । कुर्यात्संशोष्य किरणैस्तरणेराहरेत्तु तान्
निदध्यादथ पूर्वोक्तपात्रे गोमयपिंडकान् । स्वगृह्योक्तविधानेन प्रतिष्ठाप्याग्निमिंधयेत्
पिंडान्विनिक्षिपेत्तत्तदर्णदेवाय पिंडकान् । आघारावाज्यभागौ च प्रक्षिप्य द्वौ हुनेत्सुधीः
ततो निधनपतये त्रयोदशजयादयः । होतव्याः पंचब्रह्माणि नमो हिरण्यबाहवे
इति सर्वाहुतीर्हुत्वा चतुर्थ्यंतैस्तु मंत्रकैः । ततः शर्वाय रुद्राय यस्य वैकंकतीति च
एतैस्तु जुहुयाद्विद्वाननाज्ञातत्रयं तथा । व्याहृतीरथ हुत्वा तु ततः स्विष्टकृतं हुनेत्
इध्मशेषं तु निर्वर्त्य पूर्णपात्रोदकं ततः । पूर्णमासांतयजुषा जलेनान्येन बृंहयेत्
ब्राह्मणेष्वमृतमिति तज्जलं शिरसि क्षिपेत् । प्राच्यामिति दिशां लिंगैर्दिक्षु तोयं विनिक्षिपेत्
ब्रह्मणे दक्षिणां दत्वा शांते पुलकमाहरेत् । आहरिष्यामि देवानां सर्वेषां कर्मगुप्तये
जातवेदसमेने त्वां पुलाकं च्छादयाद्य मे । मंत्रेणानेन तं वह्निं पुलाके छादयेदथ
त्रिदिनं ज्वलनस्थित्यै छादनं पुलकैः स्मृतम् । ब्राह्मणान्भोजयेद्भक्त्या स्वयं भुंजीत वाग्यतः
भस्माधिकमभीप्संस्तु ह्यधिकं गोमयं हरेत् । दिनत्रयेण यदि वा एकस्मिन्दिवसे बहु
तृतीये वा चतुर्थे वा प्रातःस्नात्वा सितांबरः । शुक्लयज्ञोपवीती च शुक्लमाल्यानुलेपनः
शुक्लदंतो भस्मदिग्धो मंत्रेणानेन मंत्रवित् । तद्वेति चोच्चारयित्वा भस्मसत्यं न संत्यजेत्
तत आवाहनमुखा उपचारास्तु षोडश । कर्तव्या हुतदानेन ततोऽग्निमुपसंहरेत्
अग्ने भस्मेति मंत्रेण गृह्णीयाद्भस्म चोद्भवम् । अग्निरस्मीति मंत्रेण प्रमृज्य च ततः परम्
संयोज्य गंगासलिलैः कपिलापयसाथवा । चंद्रं कुंकुमकाश्मीरमुशीरं चंदनं तथा
अगुरुद्वितयं चैव चूर्णयित्वा तु सूक्ष्मतः । क्षिपेद्भस्मनि तच्चूर्णमोमिति ब्रह्ममंत्रतः
ततः पयः सेचने च गदितः कपिला मनुः । अमृतं देवि ते क्षीरं पवित्रमिह वर्द्धितम्
तवप्रसादान्मुच्यंते मनुजाः सर्वपाप्मनः । प्रणवेनावहेद्विद्वान्भस्मनो वटकानथ
अणोरणीयानिति हि मंत्रेण तु विचक्षणम् । शंभुरुवाच- इत्थं तु भस्मसंपाद्य शुष्कमादाय मंत्रवित्
प्रणवेन विमृज्याथ सप्तप्रणवमंत्रितम् । ईशानेन शिरोदेशं मुखं तत्पुरुषेण च
उरोदेशमघोरेण गुह्यं वामेन मंत्रयेत् । सद्योजातेन वै पादौ सर्वांगं प्रणवेन तु
तत उद्धूल्य सर्वांगमापादतलमस्तकम् । तत आचम्य वसनं धौतं श्वेतं प्रधारयेत्
पुनराचम्य कर्म स्वं कर्तुमर्हति सर्वतः । ततो भस्मसमादाय प्रमृज्य प्रणवेन तु
त्रिनेत्रं त्रिगुणाधारं त्रयाणां जनकं विभुम् । स्मरन्नमः शिवायेति ललाटे तु त्रिपुंड्रकम्
नमः शिवाभ्यामित्युक्त्वा बाह्वोर्वापि त्रिपुंड्रकम् । अघोराय नम इति उभाभ्यां च प्रकोष्ठयोः
भीमायेति ततः पृष्ठे शिरोधि पश्चिमे तथा । नीलकंठाय शिरसि क्षिपेत्सर्वात्मने नमः