सिसृक्षा तस्य जाताथ वीक्ष्यात्मस्थं गुणत्रयम् । वेदत्रयमिदं ज्ञेयं गुणत्रयमिदं हि यत्
पृथक्कृत्वात्मनस्तात तत्रस्थानं विभज्य च । दक्षिणांगेसृजत्पुत्रं ब्रह्माणं वामतो हरिम्
पृष्ठदेशे महेशानं त्रीन्पुत्रानसृजद्विभुः । जातमात्रास्त्रयो देवा ब्रह्मविष्णुमहेश्वराः
इदमूचुर्वचः स्पष्टं को भवान्के वयंत्विति । तानाह च शिवः पुत्रान्यूयं पुत्रा अहं पिता
इदं गुणत्रयं पुत्रा भजध्वं कर्महेतुकम् । पुत्रा ऊचुः - कं वा गुणं को भजतां कियंतं कालमीश्वर
कथं गुणनिवृत्तिश्च भवेदेतद्वदस्व नः । शिव उवाच- यावज्ज्ञानं हि भवतां यावदायुरथापि वा
धारणं तावदेवस्यादेकैकस्य गुणस्य च । सत्वं ब्रह्मा रजोविष्णुर्भजेन्महेश्वरस्तमः
इत्युक्तमात्रे देवेशे ब्रह्मा सत्वमथाग्रहीत् । न च चालयितुं शक्तो धारणे किमु शक्तिमान्
तं गुणं तु तिरस्कृत्य रजोगुणमथाग्रहीत् । न च चालयितुं शक्तो जग्राहाथ तमोगुणम्
न च चालयितुं शक्तो निपपात रुरोद च । विष्णुश्च वामहस्तेन रजोगुणमधारयत्
अंगुलीभ्यां महेशोऽपि तमोगुणमधारयत् । सत्वमेकोंगुलीभ्यां च सत्वं विष्णुमथादधात्
ब्रह्माणं पादपीठे च दधार च ननर्त च
नृत्यंतमत्यंतविलासरूपं गोक्षीररूपं तरुणं त्रिनेत्रम् । सर्वं दधानं कृतकौतुकं शिवं समीक्ष्य पुत्रान्वरदो बभाषे
शिव उवाच- प्रीतोऽस्मि तव पुत्राहं वरं वृणु यथेप्सितम् । अथाह पितरं पुत्रो वरमेनं ददस्व मे
मामुद्दिश्य कृता पूजा तव पूजा भवेच्छिव । तिष्ठेर्मयि सदा त्वं च त्वमेवाहं च वाव्ययः
शिव उवाच- एवमेतन्महाभाग भविष्यति न संशयः । रक्तगौराविमौ पुत्रौ ब्रह्मविष्णू ममैव तु
बाहुमूलस्थरोमौ च ममाकारौ तथानघौ । अथ ब्रह्माणमाहेदं भजत्वेकं गुणं भवान्
ब्रह्मोवाच- त्वन्निर्दिष्टं गुणमहं धर्तुं शक्तो न हीश्वर । धारयिष्ये रजो देव सत्वं भजतु वै हरिः
अवशिष्टं गुणं चायमीश्वरो धारयिष्यति । शंभुरुवाच- गुणानादायते देवा नशेकुर्नित्यधारणम्
कर्तुं भरणशक्त्यर्थं शिवमित्यवदत्पुनः । गुणान्वयं सर्वकालं न च धारयितुं क्षमाः
दीयतां भगवञ्छक्तिर्यदि भोस्त्वं वरप्रदः । अथ तद्वचनं श्रुत्वा शिवो वाक्यमभाषत
शिव उवाच- विद्याशक्तिः समस्तानां शक्तिरित्यभिधीयते । गुणत्रयाश्रया विद्या अविद्या च तदाश्रया
गुणत्रयं च दग्ध्वैव तत्सारं धर्तुमर्हथ । यच्च किंचिद्भवेत्तत्र भवद्भिर्ध्रियतां हि तत्
अथाहुस्तत्सुता वाक्यं न दाहो ज्वलनं विना । शिवः प्राह महेशस्य लोचने वह्निरस्ति वै
गुणत्रयमिदं धेनुर्विद्या स्याद्गोमयं शुभम् । मूत्रं चोपनिषत्प्रोक्तं कुर्याद्भस्म ततः परम्
वत्सास्तु स्मृतयो यस्यास्तत्संभूतं तु गोमयम् । आगाव इति मंत्रेण धेनुं तत्राभिमंत्रयेत्
गावो गावो गाव इति प्राशयेत्तु तृणं जलम् । उपोष्य च चतुर्द्दश्यां शुक्ले कृष्णेऽथवा व्रती
परेद्युः प्रातरुत्थाय शुचिर्भूत्वा समाहितः । कृतस्नानो धौतवस्त्रो गोमयार्थं व्रजेत्तु गाम्
उत्थाप्य तां प्रयत्नेन गायत्र्या मूत्रमाहरेत् । सौवर्णे राजते ताम्रे धारयेन्मृन्मये घटे
पौष्करे वा पलाशे वा पात्रे गोशृंग एव वा । आदधीत हि गोमूत्रं गंधद्वारेति गोमयम्