निपत्य दंडवद्भूमौ वीरभद्रमथाब्रुवन् । नमस्ते देवदेवेश नमस्ते करुणाकर
नमस्ते शाश्वतानंत नमस्ते वरदो भव । वीरभद्र उवाच- भस्मना जीवयिष्यामि सुरान्समुनि वानरान्
भवतीभिः प्रतोष्टव्यं शोकः कार्यो न चाधुना । इत्युक्त्वा वीरभद्रस्तु भस्मनाजीवयत्सतान्
उत्थिता मुनिदेवाश्च वानरौ चोत्थितौ ततः । इदमूचुर्वचो हृष्टाः शिरःस्थांजलयो नमन्
त्वयात्र जीवितास्तात पिता त्वं धर्मतो हि नः । अस्माकं शरणं नित्यं भव शंकरसंभव
शिशूनां दुष्टचरितं दृष्ट्वा शिक्षेस्तथा च तान् । रक्षेः परकृता बाधा व्याधिभ्यश्च यथौरसान्
दक्षाध्वरे कृतागस्काः शिक्षिता भवतानघ । इदानीं रक्षितास्तात वयं शिशुवदेव ते
वीरभद्र उवाच- सत्यमेतन्न संदेहो यत्र बाधा भवेत्तु वः । तत्र मां स्मरत क्षिप्रं बाधानाशं गमिष्यति
वीरभद्रं पदं येपि पठंत्यष्टशतं ततः । प्रणवादि नमोंऽतं च चतुर्थीसहितं तथा
तेषां राक्षसपीडानां नाशनं च भविष्यति । ब्रह्मराक्षसपीडासु पिशाचादिभयेषु च
नामानुस्मरणात्सर्वबाधानां च विनाशनम्
विद्युत्प्रभालोचनमुग्रमीशं बालेंदुदंष्ट्रारुणशोभिताधरम् । सुनीलगात्रं च जटाकृतस्रजं दधानमंगे भसितत्रिपुंड्रकम्
ब्रह्मराक्षसमुक्त्यर्थं स्मरणं त्विदमीरितम् । मंत्रे च वीरभद्रस्य सर्वमेतदुदीरितम्
दधीच उवाच- अथैवं विदधे वीरो मुनिदेवास्तथागताः । एतत्त्रियायुषं प्रोक्तं भस्ममाहात्म्यमुत्तमम्
पठतः शृण्वतो वापि स्मरतोऽघविनाशनम् । शिवभक्तिप्रदं पुण्यमायुरारोग्यवर्द्धनम्
शुचिस्मितोवाच-। अहं कृतार्था धन्या च नारीणामुत्तमास्म्यहम् । हतपापा तथा चास्मि नमस्ते मुनिपुंगव
इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे सप्तोत्तरशततमोऽध्यायः
श्रीराम उवाच- भस्मोत्पत्तिं महाभाग भस्ममाहात्म्यमेव च । भस्मसंधारणे पुण्यं भस्मदाने च तद्वद
शंभुरुवाच- भस्मोत्पत्तिं प्रवक्ष्यामि सर्वपापप्रणाशिनीम् । स्मरणात्कीर्तनाद्राम तां शृणुष्व नराधिप
य एकः शाश्वतो देवो ब्रह्मवंद्यः सदाशिवः । त्रिलोचनो गुणाधारो गुणातीतोऽक्षरोव्ययः
सिसृक्षा तस्य जाताथ वीक्ष्यात्मस्थं गुणत्रयम् । वेदत्रयमिदं ज्ञेयं गुणत्रयमिदं हि यत्
पृथक्कृत्वात्मनस्तात तत्रस्थानं विभज्य च । दक्षिणांगेसृजत्पुत्रं ब्रह्माणं वामतो हरिम्
पृष्ठदेशे महेशानं त्रीन्पुत्रानसृजद्विभुः । जातमात्रास्त्रयो देवा ब्रह्मविष्णुमहेश्वराः
इदमूचुर्वचः स्पष्टं को भवान्के वयंत्विति । तानाह च शिवः पुत्रान्यूयं पुत्रा अहं पिता
इदं गुणत्रयं पुत्रा भजध्वं कर्महेतुकम् । पुत्रा ऊचुः - कं वा गुणं को भजतां कियंतं कालमीश्वर
कथं गुणनिवृत्तिश्च भवेदेतद्वदस्व नः । शिव उवाच- यावज्ज्ञानं हि भवतां यावदायुरथापि वा
धारणं तावदेवस्यादेकैकस्य गुणस्य च । सत्वं ब्रह्मा रजोविष्णुर्भजेन्महेश्वरस्तमः
इत्युक्तमात्रे देवेशे ब्रह्मा सत्वमथाग्रहीत् । न च चालयितुं शक्तो धारणे किमु शक्तिमान्
तं गुणं तु तिरस्कृत्य रजोगुणमथाग्रहीत् । न च चालयितुं शक्तो जग्राहाथ तमोगुणम्
न च चालयितुं शक्तो निपपात रुरोद च । विष्णुश्च वामहस्तेन रजोगुणमधारयत्