अन्योन्यमसिघातेन भिन्नगात्रौ विकस्वरौ । किंशुकाविव दृश्येते पुष्पितौ रुधिरोक्षितौ
वर्षमेकं तु संयुध्य सासीदेवासुरौ तदा । अतःपरं वर्षमेकं गदायुद्धमभूत्तयोः
असिपुत्रिकया पश्चाद्वर्षमेकमभूद्रणः । पुनर्गृहीत्वासियुगं युयुधाते परस्परम्
शं ब्रुवाणो महाखड्गं दंष्ट्राकारो गणेश्वरः । सरोषरक्तनयनश्चालयित्वासिमग्रतः
तस्य कंठवनं सर्वं चिच्छेद कदलद्यं यथा । शिरांसि सर्वाण्यादाय बभक्ष भगनेत्रहा
तस्य गात्रं कररुहैर्विदार्याहृत्य देवताः । कपींद्रौ च तथा चान्या अद्राक्षीत्परमेश्वरीम्
एतद्युद्धं महाघोरं नारदो वीक्ष्य चाभ्यगात् । ब्रह्मणे वासुदेवाय शंकराय व्यजिज्ञपत्
मुनयो रक्षिता देवा वालिसुग्रीव वानरौ । एतौ संजीवयामास ब्रह्मविष्णुशिवात्मकः
रक्षसे शंभुना दत्तो वरः परमदारुणः । हिरण्यकशिपोराज्ये बलवानेक राक्षसः
देवैः सार्द्धं तु युयुधे वर्षाणां शतमद्भुतम् । पलायिताश्च बहुधा मृताश्च शतशोसुराः
शुक्रेण रक्षितः सोऽथ गुरुणाचिंतयत्त्विदम् । मृतोऽस्मि शतशः शुक्र जीवितोऽस्मि त्वयैव हि
अमृत्यवे त्वमेतस्मादुदरस्थमृताय च । अन्यथा मरणं मह्यं भविष्यति न संशयः
गुरो यमेन साकं मे युद्धमासीत्सुदारुणम् । मयासौ ग्रसितो युद्धे यमराजः प्रतापवान्
ममोदरं प्रविश्यासौ बिभेद च ननाद च । अहं मृतस्तदा चासं त्वया संजीवितः पुनः
तस्मादुदरसंस्थानां मरणाय तपे तपः । शुक्र उवाच- एवमेतन्न संदेहो यथावत्त्वं समाचर
स्यमंतपंचकं तीर्थं तत्र त्वं तप्तुमर्हसि । राक्षस उवाच- तपे महत्तपो घोरं यन्न चीर्णं सुरासुरैः
गुल्फप्रदेशे पादान्ते त्वयःपाशैः प्रबध्य च । अयःस्तंभयुगं कृत्वा अयःपट्टिकयान्वितम्
पट्टिकायां पादबंधं कृत्वाधः शीर्षतां तथा । विवृतास्यं तथा कल्पं कृत्वाधोमुखमुच्चकैः
स्तंभोत्तरेण ज्वालायां चक्रिकायामितस्ततः । अधःशिरास्तथा तिष्ठन्नुन्मील्यैव विलोचने
एवं तपश्चरिष्यामि वरदः कोपि मे भवेत् । ब्रह्मा वा वरदः सोऽस्तु शंकरो विष्णुरेव च
वरदे न तु मे भाव्यं यो वा कोवा वरप्रदः । इत्थमाभाष्य मुनिना गुरुणा भार्गवेण सः
तथातपच्च षण्मासं पुनरन्यच्चकार ह । नखाभ्यां स्वशिरश्छित्त्वा जुहावाग्नौ समंत्रकम्
नमो भद्राय मंत्रेण चत्वारि च शिरांसि सः । पंचमं तु शिरो हातुं यतमाने च राक्षसे
वह्निमध्यात्समुत्तस्थौ भगवानंबिकापतिः । शुद्धस्फटिकसंकाशो बालचन्द्र विभूषणः
अधःशिरस्कं तद्रक्ष इदमाह महेश्वरः । मा साहसं कृथा रक्षो वरदोऽस्मि वरं वृणु
राक्षस उवाच- बहूनां च वराणां त्वं दाता नूनं महेश्वरः । हतशीर्षसमुत्पत्तिं ग्रस्तजीवमृतिं तथा
वराहवपुषो विष्णोरस्तु शक्तिश्चतुर्गुणा । मयि तेन हि रोषः स्यात्संनिधिस्तु सदा मम
त्वज्जटोत्पाटनेनैकः पुरुषः संभविष्यति । तेनैव मरणं नान्यैरिदमस्तु वृतं मम
भविष्यत्येवमेवैतदित्युक्त्वांतर्हितोहरः । एवंलब्धवरः पापी राक्षसो निहतस्त्वया
अथालिंग्य हरिर्वीरं शंकरश्च पितामहः । यथागतमथोजग्मुरथ देवादियोषितः