वीरभद्रस्ततो दृष्ट्वा वानरर्षिसुरादनम् । पंचाशद्योजनशिलां करेणादाय तं रुषा
निजघान शिरोमध्ये मध्यमं पतितं शिरः । तत आदाय शैलस्य शृंगं तच्छतयोजनम्
स्थापयित्वा दृढतरं राक्षसेंद्रं तथाहरत् । राक्षसोऽथ बभाषे तं वीरभद्रं त्रिलोचनम्
मम बाहुबलं पश्य वीक्षितं त्वद्बलं मया । असिद्वयं तैलधौतं पंचाशद्योजनोन्नतम्
एकयोजनविस्तारं सुदृढं लक्षणान्वितम् । एकं गृहाणाभिमतं विशिष्टं तन्ममप्रियम्
वीरभद्रस्तथेत्युक्त्वा गृहीत्वासिं महाबलः । करेणाचालयत्तीक्ष्णं क्ष्वेलीं चक्रे ततः क्रुधा
गृहीतासिस्तथा क्ष्वेलद्यं चक्रे राक्षसपुंगवः । वीरभद्रं समभ्येत्य कंठं प्रतिसमर्पयत्
तद्गात्रं भिन्नमभवच्छोणितं निर्गतं बहु । राक्षसस्त्वेकहस्तेन पपौ तच्छोणितं ततः
वीरभद्रः कंठदेशे राक्षसं प्राहरद्रुषा । शिरोद्वयं तथाच्छिन्नं पतमानं ततोऽग्रहीत्
न्यभक्षयदमेयात्मा सिंहनादं चकार ह । तेन नादेन महता क्षुब्धमासीज्जगत्त्रयम्
अन्योन्यमसिघातेन भिन्नगात्रौ विकस्वरौ । किंशुकाविव दृश्येते पुष्पितौ रुधिरोक्षितौ
वर्षमेकं तु संयुध्य सासीदेवासुरौ तदा । अतःपरं वर्षमेकं गदायुद्धमभूत्तयोः
असिपुत्रिकया पश्चाद्वर्षमेकमभूद्रणः । पुनर्गृहीत्वासियुगं युयुधाते परस्परम्
शं ब्रुवाणो महाखड्गं दंष्ट्राकारो गणेश्वरः । सरोषरक्तनयनश्चालयित्वासिमग्रतः
तस्य कंठवनं सर्वं चिच्छेद कदलद्यं यथा । शिरांसि सर्वाण्यादाय बभक्ष भगनेत्रहा
तस्य गात्रं कररुहैर्विदार्याहृत्य देवताः । कपींद्रौ च तथा चान्या अद्राक्षीत्परमेश्वरीम्
एतद्युद्धं महाघोरं नारदो वीक्ष्य चाभ्यगात् । ब्रह्मणे वासुदेवाय शंकराय व्यजिज्ञपत्
मुनयो रक्षिता देवा वालिसुग्रीव वानरौ । एतौ संजीवयामास ब्रह्मविष्णुशिवात्मकः
रक्षसे शंभुना दत्तो वरः परमदारुणः । हिरण्यकशिपोराज्ये बलवानेक राक्षसः
देवैः सार्द्धं तु युयुधे वर्षाणां शतमद्भुतम् । पलायिताश्च बहुधा मृताश्च शतशोसुराः
शुक्रेण रक्षितः सोऽथ गुरुणाचिंतयत्त्विदम् । मृतोऽस्मि शतशः शुक्र जीवितोऽस्मि त्वयैव हि
अमृत्यवे त्वमेतस्मादुदरस्थमृताय च । अन्यथा मरणं मह्यं भविष्यति न संशयः
गुरो यमेन साकं मे युद्धमासीत्सुदारुणम् । मयासौ ग्रसितो युद्धे यमराजः प्रतापवान्
ममोदरं प्रविश्यासौ बिभेद च ननाद च । अहं मृतस्तदा चासं त्वया संजीवितः पुनः
तस्मादुदरसंस्थानां मरणाय तपे तपः । शुक्र उवाच- एवमेतन्न संदेहो यथावत्त्वं समाचर
स्यमंतपंचकं तीर्थं तत्र त्वं तप्तुमर्हसि । राक्षस उवाच- तपे महत्तपो घोरं यन्न चीर्णं सुरासुरैः
गुल्फप्रदेशे पादान्ते त्वयःपाशैः प्रबध्य च । अयःस्तंभयुगं कृत्वा अयःपट्टिकयान्वितम्
पट्टिकायां पादबंधं कृत्वाधः शीर्षतां तथा । विवृतास्यं तथा कल्पं कृत्वाधोमुखमुच्चकैः
स्तंभोत्तरेण ज्वालायां चक्रिकायामितस्ततः । अधःशिरास्तथा तिष्ठन्नुन्मील्यैव विलोचने
एवं तपश्चरिष्यामि वरदः कोपि मे भवेत् । ब्रह्मा वा वरदः सोऽस्तु शंकरो विष्णुरेव च