इति निश्चित्य मनसा जगामाग्निमतिप्रभम् । स वह्निर्वीरभद्रं च दग्धुमारब्धवानथ
तृणाग्निरिव शांतोऽभूदासाद्य सलिलं यथा । ततोऽपरां महाज्वालां वीरभद्रस्तु दृष्टवान्
खं गच्छंतीं महाकालो ज्वालां निपतितामपि । मनसा चिंतयच्चापि वीरभद्रः प्रतापवान्
सर्वेषां नाशिनी ज्वाला प्राणिनां शतकोटिशः । तत्सर्वं रक्षणार्थं हि पिपासुश्चाप्यहं त्विमाम्
प्राश्नामि महतीं ज्वालां सलिलं तृषितो यथा । एतस्मिन्नंतरे वीरं वागाह चाशरीरिणी
भारत्युवाच- वीर मा साहसं कार्षीः क्व तृषा क्वाशुशुक्षणिः । तृषितानां जलेनार्थो विपरीतो वनाग्निना
निकामं योजनशिराः प्रणष्टो राक्षसेश्वरः । शतयोजनवक्त्रश्च शतबाहुस्तथापरः
अगस्त्यश्च महाभागो निःशेषं पीतसागरः । एतानन्यानसंख्याताञ्ज्वालेयं तानमारयत्
वीरभद्र उवाच- भीषिकेयं महाज्वाला त्वदुक्ता न हि जायते । सरस्वति भवत्यां च ममरोषश्च जायते
सर्वदेवार्चितपदं वीरभद्रमवेहि माम् । भारत्युवाच- मयोक्तं हितभावेन न द्वेषान्नान्यतो मुने
कोपमुत्सृज वीर त्वमात्मनोहितमाचर । इत्युक्त्वांतर्दधे देवी भारती वीरभीतितः
अथ वीरो महाज्वालामपासील्लीलयैव तु । क्षणेन महती ज्वाला शतयोजनविस्तृता
एकेन वीरभद्रेण पीता परमदुःसहा । अथ चेंद्रमुखानां च मुनीनां भस्मराशयः
दृष्टा वै वीरभद्रेण आहूताश्च महात्मना । न चाब्रुवन्प्रतिवचो मृता मुनिदिवौकसः
वीरभद्रस्तु विज्ञाय नाशं मुनिदिवौकसाम् । दध्यावमून्कथं सर्वाञ्जीवयाम्यद्य कोविदः
ध्यानेन दृष्टवांश्चापि जीवितं भस्मदेहिनाम् । अथाचम्य मृतानां तु भस्मान्यथ च भस्मना
मृत्युंजयेन मंत्रेण मंत्रितेन ह्यमंत्रयत् । अथोत्थिता मुनिवराः स्वं स्वं रूपमुपाश्रिताः
अथ ते गतवंतश्च गिरिपार्श्वं महाप्रभम् । तत्रापि भक्षिताः सर्वे सर्पेणातिशरीरिणा
अथ वीरो महासर्पसमीपमगमत्प्रभुः । वीरमागतमालोक्य भुजगो योद्धुमारभत्
युयुधे वर्षमेकं तु नानारूपधरः फणी । अथ वीरः प्रगृह्यौष्ठयुगं करयुगेन च
द्विधा चक्रे समस्तांगं देवांस्तत्र गतायुषः । दृष्ट्वाथ भस्मनैवैताञ्जीवयामास शंकरः
अथ देवाः समुनयो वीरभद्रं प्रणम्य तु । गतवंतो यथामार्गं ददृशू रक्ष आगतम्
पंचमेढ्रं महाकायं दोर्भिश्च दशभिर्युतम् । पंचपादसमोपेतं शिरोभिर्युतमष्टभिः
कांक्षमाणं महाहारं युध्यमानो हि वालिना । महावराहवपुषो वासुदेवस्य यद्बलम्
तादृशं द्विगुणीभूतं कपौ वालिनि निश्चितम् । तादृशं वानरश्रेष्ठं ससुग्रीवं सराक्षसः
मुष्टियुद्धे पंचपादैः सहसा हत्य वालिनम् । सुग्रीवं च कराभ्यां स हंतुमेव प्रचक्रमे
आस्ये निक्षिप्य सुग्रीवमग्रसत्कवलं यथा । वालिसुग्रीवग्रसनं दृष्ट्वा चिंतामवाप ह
कथमेनं हनिष्यामि रक्षयिष्ये कथं कपिम् । एवं हि चिंतयानं तं वानरं राक्षसेश्वरः
अग्रसीदेकयत्नेन तथाभूतं च राक्षसम् । दृष्ट्वा देवर्षयः सर्वे पलायनपरास्तथा
पलायमानांस्तान्दृष्ट्वा पंचमेढ्रः स राक्षसः । हस्तैः समस्तैस्तान्सर्वानादायाभक्षयत्तदा