इतः परं हि किं भूयः श्रोतुमिच्छसि सुव्रते
शुचिस्मितोवाच- कश्यपं जमदग्निं च देवानां च पुरा कथम् । ररक्ष भस्म तद्ब्रह्मन्समाचक्ष्व मुने मम
दधीच उवाच- कश्यपादियुता देवाः पूर्वमभ्यागमन्गिरिम् । शोकरं नाम विख्यातं गिरिमध्ये सुशोभनम्
नानाविहंगसंकीर्णं नानामुनिगणाश्रयम् । वासुदेवाश्रयं रम्यमप्सरोगणसेवितम्
विचित्रवृक्षसंवीतं सर्वर्तुकुसुमोज्ज्वलम् । तथाविधं प्रविश्यैते गिरिं वयमथापरे
स्तुवंतः केशवं तत्र गताः स्म गिरिशेश्वरम् । दृष्ट्वा तत्र महाज्वालां प्रविष्टाश्च वयं च ताम्
मामेकं तु तिरस्कृत्य ह्यदहद्देवता मुनीन् । मां ददाह ततः पश्चाद्भस्मीभूता वयं शुभे
अस्मानेतादृशान्दृष्ट्वा वीरभद्रः प्रतापवान् । केनापिकारणेनासौ गतवान्पर्वतं च तम्
भस्मोद्धूलितसर्वांगो मस्तकस्थशिवः शुचिः । एकाकी निःस्पृहः शान्तो हाहाशब्दमथाशृणोत्
अथ चिंतापरश्चासीन्म्रियमाण शवध्वनिः । शवानामिवगंधश्च दृश्यते तन्निरीक्षणे
इति निश्चित्य मनसा जगामाग्निमतिप्रभम् । स वह्निर्वीरभद्रं च दग्धुमारब्धवानथ
तृणाग्निरिव शांतोऽभूदासाद्य सलिलं यथा । ततोऽपरां महाज्वालां वीरभद्रस्तु दृष्टवान्
खं गच्छंतीं महाकालो ज्वालां निपतितामपि । मनसा चिंतयच्चापि वीरभद्रः प्रतापवान्
सर्वेषां नाशिनी ज्वाला प्राणिनां शतकोटिशः । तत्सर्वं रक्षणार्थं हि पिपासुश्चाप्यहं त्विमाम्
प्राश्नामि महतीं ज्वालां सलिलं तृषितो यथा । एतस्मिन्नंतरे वीरं वागाह चाशरीरिणी
भारत्युवाच- वीर मा साहसं कार्षीः क्व तृषा क्वाशुशुक्षणिः । तृषितानां जलेनार्थो विपरीतो वनाग्निना
निकामं योजनशिराः प्रणष्टो राक्षसेश्वरः । शतयोजनवक्त्रश्च शतबाहुस्तथापरः
अगस्त्यश्च महाभागो निःशेषं पीतसागरः । एतानन्यानसंख्याताञ्ज्वालेयं तानमारयत्
वीरभद्र उवाच- भीषिकेयं महाज्वाला त्वदुक्ता न हि जायते । सरस्वति भवत्यां च ममरोषश्च जायते
सर्वदेवार्चितपदं वीरभद्रमवेहि माम् । भारत्युवाच- मयोक्तं हितभावेन न द्वेषान्नान्यतो मुने
कोपमुत्सृज वीर त्वमात्मनोहितमाचर । इत्युक्त्वांतर्दधे देवी भारती वीरभीतितः
अथ वीरो महाज्वालामपासील्लीलयैव तु । क्षणेन महती ज्वाला शतयोजनविस्तृता
एकेन वीरभद्रेण पीता परमदुःसहा । अथ चेंद्रमुखानां च मुनीनां भस्मराशयः
दृष्टा वै वीरभद्रेण आहूताश्च महात्मना । न चाब्रुवन्प्रतिवचो मृता मुनिदिवौकसः
वीरभद्रस्तु विज्ञाय नाशं मुनिदिवौकसाम् । दध्यावमून्कथं सर्वाञ्जीवयाम्यद्य कोविदः
ध्यानेन दृष्टवांश्चापि जीवितं भस्मदेहिनाम् । अथाचम्य मृतानां तु भस्मान्यथ च भस्मना
मृत्युंजयेन मंत्रेण मंत्रितेन ह्यमंत्रयत् । अथोत्थिता मुनिवराः स्वं स्वं रूपमुपाश्रिताः
अथ ते गतवंतश्च गिरिपार्श्वं महाप्रभम् । तत्रापि भक्षिताः सर्वे सर्पेणातिशरीरिणा
अथ वीरो महासर्पसमीपमगमत्प्रभुः । वीरमागतमालोक्य भुजगो योद्धुमारभत्
युयुधे वर्षमेकं तु नानारूपधरः फणी । अथ वीरः प्रगृह्यौष्ठयुगं करयुगेन च