जयंतीं स जगामाथ तया दत्तमथाहरत् । स्नपंत्या अव्ययायास्तु हरिद्रां दत्तवान्मुनिः
ततः स सूक्ष्मवसनभूषणानि मुनिर्ददौ । आह चैनां तवांतेष्टिं कः करोति नियुंक्ष्व तम्
अव्ययोवाच- त्वयैव मे समस्तानां क्रियाणां कारणं मुने । पितासि सर्वं कुर्वद्य नमस्ते मुनिसत्तम
दधीच उवाच- अथ तं ब्राह्मणं दग्ध्वा नारदस्तामुवाच ह । अव्यये गच्छ दहनं प्रविश त्वं यदीच्छसि
अथ सा भूषिता साध्वी त्रिःप्रदक्षिणपूर्वकम् । नारदं तु नमस्कृत्य गौरांगीमर्पयन्मनः
सुसूक्ष्मं मंगलंसूत्रं हरिद्रामक्षतांस्तथा । कुसुमानि च वासांसि कस्तूरीचंदनं तथा
सौवर्णकंकतिकां च फलानि विविधानि च । स्वदक्षिणादिवस्त्रांतं स्पर्शयित्वा पृथक्पृथक्
पार्वतीप्रीतिकामा सा पुरंध्रीभ्योऽखिलं ददौ । ज्वालामालाभिराकाशं दहंतमिव चानलम्
त्रिःप्रदक्षिणमागत्य स्थित्वाग्नेः पुरतः सती । इदं प्राह तदा वाक्यं प्रांजलिः प्रहसन्मुखी
अव्ययोवाच- इंद्रादयो दिशांपाला मातर्मेदिनि भास्कर । धर्मादयः सुराः सर्वे शृणुध्वं मम भाषितम्
पाणिपीडनमारभ्य चैतदंतमहर्निशम् । वाङ्मनःकर्मभिर्भर्ता सेवितो यदि भक्तितः
व्यभिचारो यथा न स्यादवस्थात्रितये मम । तेन सत्येन मे पत्या सार्द्धं यानं प्रयच्छत
इत्युक्त्वाथ स्वहस्ताग्रपुष्पकं द्रुतमाक्षिपत् । प्रविष्टा ज्वलनं दीप्तमथापश्यद्विमानकम्
सूर्येण सममुत्कृष्टमप्सरोगीतशोभितम् । आरुरोह विमानं सा भर्त्रा साकं दिवं ययौ
यमः प्राहाथ संपूज्य वनितां तां पतिव्रताम् । अक्षयः स्वर्ग एवेह न च पापं तवास्ति वै
कोटिद्वयसमास्तत्र नरके हंत पातकम् । मृष्टमेव न संदेहः किंतु पातकमेव च
एकं शिवस्य दीपाज्यभक्षणेन समर्जितम् । न वापि नरके पातः श्वानजन्मशतं भवेत्
अव्ययोवाच- अग्निप्रवेशशुद्धानां पुनश्च नरकः कथम् । अग्निप्रवेशात्सर्वेषां पापानां नाशनं भवेत्
यम उवाच- शिवद्रव्यापहारस्य पातकं नैव नश्यति । इत्थमाहपुरा शंभुरन्येषां नाशनं भवेत्
अथ स श्वानतामाप्य शताब्दं स्यात्ततः परम् । दधीचमंदिरं प्राप्तो मृत्योरास्य गतो हि सः
तस्य भित्तिसमीपे तु भस्मास्ते ह्यभिमंत्रितम् । भस्मनि श्वा पपाताथ ममार च गतो यमम्
यमः संपूज्यावनतो भवान्पुण्यतमो मुनिः । मद्गेहे भवतः स्थानं न योग्यं गम्यतां बहिः
अथ गत्वा बहिस्तस्थौ सारमेयो यमोदितः । संतापावस्थितं तं च नारदो दृष्टवानमुम्
पप्रच्छ च किमर्थं त्वमिह तिष्ठसि दीप्तिमान् । शिवभस्मस्थितमृतं शैवं जाने महामते
शैवानां पापिनां चापि साहसेन तनुत्यजाम् । यमलोको न चास्तीति शिवाज्ञा शिवनोदिता
दधीच उवाच- इत्थमाभाष्य तं श्वानं कैलासमगमन्मुनिः । दंडवत्प्रणिपत्येशं व्यज्ञापयदथो हरम्
देव कश्चिद्यमपुराद्बहिरास्ते स कुक्कुरः । भस्मन्येव मृतस्तद्वद्भवलोकं स चार्हति
अथ मुख्यगणाविष्टो वीरभद्रः शिवेरितः । आनयामास तं श्वानं दिव्यरूपधरं तदा
महेशपादप्रणतं देवायाथ व्यजिज्ञपत् । आह माहेश्वरो देवं गणमेनं कुरुष्व मे
तथेति च शिवः प्राह गणः श्वानमुखोऽभवत् । दधीच उवाच-। अतुल्यं भस्ममाहात्म्यं मयोक्तं ते शुचिस्मिते