क्रौंची कथमहं ब्रूहि श्रोतुमिच्छामि यत्नतः । काहं कुत्रस्थिता चापि कथमत्रागता सती
कालैः कियद्भिर्मत्पुण्यं क्षीणत्वं प्रतियास्यति । शच्युवाच- पद्मगन्धे पुरा त्वं हि क्रौंची पक्षिसमुद्भवा
अमेध्यमामिषं कीटान्भक्षयंती क्षितौ स्थिता । न्यग्रोधतरुरेकोऽस्ति गङ्गातीरे मनोरमे
तत्र नीडं विनिर्माय भवत्या वसतिः कृता । एकदा कृष्णसर्पेण तस्मिन्न्यग्रोधपादपे
नीडं प्रविश्य दष्टा त्वं सहसा पंचतां गता । क्रव्याणि तव सर्वाणि स सर्पो भक्षयत्क्रुधा
स्थितानि तत्रैवास्थीनि निर्मांसानि वरानने । कदाचित्पवनैर्भद्रे महद्भिः स च पातितः
भग्नः पपात गङ्गायां समूलोऽपि वरांगने । गङ्गायां पतिते तस्मिन्न्यग्रोधे धरणीरुहे
गङ्गाजलैः प्लावितानि तान्यस्थीनि तवोत्तमे । यावदस्थीनि गङ्गायां तावत्तिष्ठंति तानि च
तावत्त्वं स्वामिसुभगा भविष्यसि सदैव हि । इति ते कथितं सर्वं पद्मगंधे मयाधुना
येन पुण्यप्रभावेण शक्रोऽपि वशगस्तव । धन्या तु जाह्नवी देवी क्रौंची यस्याः प्रसादतः
त्वमस्पृश्यासि चाण्डालैरंकेस्वपिषि वज्रिणः । तेनापमानिता साध्वी शक्रेणापि पुलोमजा
परिम्लानमुखांभोजा सा जगाम यथागता । शक्रांक एव सा तस्थौ पद्मगन्धा वरांगना
तद्वाक्यं हृदये तस्या जागरूकमिवस्थितम् । अथैकदा सुराधीशः सुप्रीतस्तद्गुणैर्द्विज
वरं वरय सुश्रोणि स्वयं तामित्युवाच ह । पद्मगंधोवाच । त्वं सर्वदेवताधीशो नारीकोटिपतिस्थता
तथाप्यसि ममाधीनः स्वामिन्किमपरैर्वरैः । तथापि त्वं वरं दित्सुर्यदा नूनं सुरोत्तम
कर्मणा मनसा वाचा प्रतिज्ञां कुरु मत्पुरः । इंद्र उवाच- जीवितं च धनं चैव राज्यं चैव परिच्छदम्
आज्ञापय किमेतद्वै तुभ्यं दास्यामि सुंदरि । सत्यं सत्यं पुनः सत्यं संदेहो नात्र विद्यते
यदीच्छसि मृगीनेत्रे तत्ते दास्याम्यहं ध्रुवम् । पद्मगंधोवाच- नूनमेव प्रसन्नोऽसि यदि त्वं त्रिदशेश्वर
जन्म मे हस्तियोनौ च भूयो देहीति मे वरम् । इंद्र उवाच- कृतप्रतिज्ञः सुश्रोणि वरं तेऽहं ददामि वै
किंतु दुःखानि यातानि बहूनि हृदये मम । त्वामदृष्ट्वा वरारोहे प्रीतिर्न प्राप्यते क्षणम्
कथं ते चिरविच्छेदं सोढुं शक्नोमि दुःसहम् । यदा मय्यनुकंपास्ति तव पीनपयोधरे
तदा कियद्दिनं तिष्ठ मया सह वराङ्गने । ततो देवाधिराजस्य वदंती बहुसंपदम्
वर्षाणामयुतं तस्थौ सा देवनिलये सती । पद्मगन्धोवाच- आज्ञां देहि सुराधीश साधितुं सुमनोरथम्
व्रजाम्यहं कर्मभूमिं वंदे पादद्वयं तव । इन्द्र उवाच- त्वत्प्रेमसिंधुमानेन मया चन्द्रनिभानने
स्थित्वा कतिदिनं पश्चाद्गमिष्यसि यथासुखम् । ततस्तुकौतुकागारे तेन सार्द्धमहर्निशम्
क्रीडंती पद्मगंधा सा तस्थौ वर्षायुतत्रयम् । सुराधीशं ततः सेति तदा प्राह मुदान्विता
आदेशं कुरु गच्छामि पृथिवीं प्रति संप्रति । इंद्र उवाच- जाड्यं जहीहि सुश्रोणि तिष्ठात्रैव मया सह
त्वां त्यक्तुं न हि शक्नोमि प्राणेभ्योऽपि गरीयसीम् । पद्मगन्धोवाच- पुण्यक्षये सुराधीश यदा यास्याम्यहं भुवि
तदा चिरं ते विच्छेदो भविष्यति मया सह । यद्विच्छेदे मया नाथ पुनर्गंतुं भुवं प्रति
इच्छाम्यहं पुनर्द्यौश्च पुण्योपार्जनहेतवे । कर्मभूमिमहं गत्वा येनोपायेन वासव