शक्त्या दानं प्रियोक्तिश्च प्रसन्नास्यत्वमेव च । नानामंगलवाद्यानां श्रवणं गीतकस्य च
व्यभिचारकृते पापे तत्पापस्य प्रशांतये । अतीतं पातकं स्पृष्ट्वा प्रायश्चित्तं तदीरितम्
कुर्यादथ स्वकां भूषां विप्राय प्रतिपादयेत् । भूषाभावे स्वकीयेन प्रायश्चित्तं तु कारयेत्
नान्यथा तस्य पापस्य नाशनं वेति कुत्रचित् । अव्ययोवाच- सर्वमेतत्करिष्यामि हरिद्रा मे न विद्यते
भूषणं किमुत ब्रह्मन्सर्वमेतत्प्रदीयताम् । नारद उवाच- न ह्यस्ति किंचित्सौभाग्यद्रव्यमन्यत्त्वपेक्षया
दधीच उवाच- अथ क्षणेनाभ्यगमत्कैलासं शिवमंदिरम् । गिरिजामथ दृष्ट्वासौ प्रणिपत्येदमब्रवीत्
हरिद्रा दीयतां मातर्भूषणानि च सूत्रकम् । पार्वत्युवाच- विधवायै मया किंचिद्भूषणं दीयतां कथम्
मया दत्ते हि तस्मिन्वै वैधव्यं नोपपद्यते । नारद उवाच- मातर्न विधवा यावद्धवांगं वर्तते स्त्रियः
आदाहात्सूतकं नास्ति तिष्ठेत्सौभाग्यमुत्तमम् । पार्वत्युवाच- न चान्यदेहो मद्भूषां हरिद्रां धर्तुमर्हति
भूषणादौ मया दत्ते चिरंजीवितमिष्यते । दीयते हि जयंत्यैव सर्वमेतत्त्वयोदितम्
जयंतीं स जगामाथ तया दत्तमथाहरत् । स्नपंत्या अव्ययायास्तु हरिद्रां दत्तवान्मुनिः
ततः स सूक्ष्मवसनभूषणानि मुनिर्ददौ । आह चैनां तवांतेष्टिं कः करोति नियुंक्ष्व तम्
अव्ययोवाच- त्वयैव मे समस्तानां क्रियाणां कारणं मुने । पितासि सर्वं कुर्वद्य नमस्ते मुनिसत्तम
दधीच उवाच- अथ तं ब्राह्मणं दग्ध्वा नारदस्तामुवाच ह । अव्यये गच्छ दहनं प्रविश त्वं यदीच्छसि
अथ सा भूषिता साध्वी त्रिःप्रदक्षिणपूर्वकम् । नारदं तु नमस्कृत्य गौरांगीमर्पयन्मनः
सुसूक्ष्मं मंगलंसूत्रं हरिद्रामक्षतांस्तथा । कुसुमानि च वासांसि कस्तूरीचंदनं तथा
सौवर्णकंकतिकां च फलानि विविधानि च । स्वदक्षिणादिवस्त्रांतं स्पर्शयित्वा पृथक्पृथक्
पार्वतीप्रीतिकामा सा पुरंध्रीभ्योऽखिलं ददौ । ज्वालामालाभिराकाशं दहंतमिव चानलम्
त्रिःप्रदक्षिणमागत्य स्थित्वाग्नेः पुरतः सती । इदं प्राह तदा वाक्यं प्रांजलिः प्रहसन्मुखी
अव्ययोवाच- इंद्रादयो दिशांपाला मातर्मेदिनि भास्कर । धर्मादयः सुराः सर्वे शृणुध्वं मम भाषितम्
पाणिपीडनमारभ्य चैतदंतमहर्निशम् । वाङ्मनःकर्मभिर्भर्ता सेवितो यदि भक्तितः
व्यभिचारो यथा न स्यादवस्थात्रितये मम । तेन सत्येन मे पत्या सार्द्धं यानं प्रयच्छत
इत्युक्त्वाथ स्वहस्ताग्रपुष्पकं द्रुतमाक्षिपत् । प्रविष्टा ज्वलनं दीप्तमथापश्यद्विमानकम्
सूर्येण सममुत्कृष्टमप्सरोगीतशोभितम् । आरुरोह विमानं सा भर्त्रा साकं दिवं ययौ
यमः प्राहाथ संपूज्य वनितां तां पतिव्रताम् । अक्षयः स्वर्ग एवेह न च पापं तवास्ति वै
कोटिद्वयसमास्तत्र नरके हंत पातकम् । मृष्टमेव न संदेहः किंतु पातकमेव च
एकं शिवस्य दीपाज्यभक्षणेन समर्जितम् । न वापि नरके पातः श्वानजन्मशतं भवेत्
अव्ययोवाच- अग्निप्रवेशशुद्धानां पुनश्च नरकः कथम् । अग्निप्रवेशात्सर्वेषां पापानां नाशनं भवेत्
यम उवाच- शिवद्रव्यापहारस्य पातकं नैव नश्यति । इत्थमाहपुरा शंभुरन्येषां नाशनं भवेत्
अथ स श्वानतामाप्य शताब्दं स्यात्ततः परम् । दधीचमंदिरं प्राप्तो मृत्योरास्य गतो हि सः