कौर्मं समस्तपापानां नाशनं शिवभक्तिदम् । इदं च पद्यं शुश्राव पुराणज्ञेन भाषितम्
ब्रह्महा मद्यपः स्तेनस्तथैव गुरुतल्पगः । कौर्मं पुराणं श्रुत्वैव मुच्यते पातकात्ततः
श्रुत्वैतद्वचनं विप्रः पौराणिकमभाषत । मया कृतानां पापानां न च संख्यास्ति काचन
अशेषपापसंदोहनाशनं तदिहोच्यताम् । पौराणिक उवाच- आराधय स्वदेवेशं शंकरं त्रिदशेश्वरम्
तस्य संपूजनाद्विप्र सर्वं पापं विनश्यति । पापमेव तमः प्रोक्तं ज्ञानदीपेन नश्यति
अथवा पूजया विप्र समस्ताघविनाशनम् । ज्ञानपूजाविहीनानां नरके पतनं ध्रुवम्
दधीच उवाच- अथ द्विजो ह्यभिगतः शिवालयमनुत्तमम् । द्रोणपुष्पसहस्रेण पूजयामास शंकरम्
गृहं जगाम च ततो भोजनं कृतवानथ । विहाय क्षत्रियां विप्रो जगामेष्टां भुवं ततः
हविष्यमन्नमादाय भुक्त्यशक्तेः शिवालयम् । गत्वा दीपस्थिताज्येन भोजनं कृतवान्बहिः
अथ मृत्युवशं प्राप्तो यमलोकं जगाम वै । यम उवाच- त्वया कृतानां पापानां केषांचिन्नाशनं पुरा
त्वयैकदिवसे पूजा शंकरस्य यतः कृता । तव पापसहस्रं च प्रणष्टं भवतो द्विज
स्थितानामपि पापानां फलं नरकपातनम् । वर्षकोटिद्वयं विप्र श्वानजन्मशतं पुनः
शिवदीपाज्यहरणात्फलं नरकसेवनम् । नरके च स्थितिस्तस्य शतवर्षं सुभीषणम्
कुंभीपाके च काष्ठत्वं भस्म भूत्वा पुनः पुनः । वर्षाणां दशकं त्वेवं कृमिभुक्तिः परं दश
पुनश्च दीपवर्तित्वं वर्षाणां च तथा दश । श्लेष्मामेध्यपुरीषेषु मूत्ररेतोह्रदेषु च
उन्मज्ज्य च निमज्ज्याथ श्लेष्मविण्मलभोजनम् । ततो नरकशेषेण श्वानजन्मशतं परम्
यमवाक्यमिति श्रुत्वा ब्राह्मणो निपपात च । अथ तस्य प्रिया भार्या पतिचिंतापराभवत्
एतस्मिन्नंतरे तस्याः समीपं नारदोऽभ्यगात् । नारदस्य पपातासौ पादयोरतिदुःखिता
तामुत्थाप्य मुनिः शुद्धां गतायुषमभाषत । अयि मुग्धे विशालाक्षि भर्तारं गंतुमर्हसि
भर्ता ते हि विशालाक्षि मृतो बंधुविवर्जितः । न रोदितव्यं ते भद्रे ज्वलनं प्रविशस्व भोः
ब्राह्मण्युवाच- अशक्यं यदि वा शक्यं मया गंतुं मुने वद । अग्निप्रवेशकालो वै व्यतीतो न भवेद्यथा
नारद उवाच- योजनानां शतं त्वेकमितः स्थानात्पुरं हितत् । श्वो दाहः किल विप्रस्य भविता गंतुमर्हसि
अव्ययोवाच- दूरस्थितं कायनाथं गंतुमर्हामि हे मुने । तद्वचस्तु समाकर्ण्य नारदस्तामभाषत
विपंची नालसंस्था त्वं भव गच्छाम्यहं क्षणात् । इत्युदीर्य तदा गत्वा त्वरां चक्रे गतं च तत्
देशं नष्टद्विजस्थानं तामुवाचाव्ययां मुनिः । रोदनं नेह कर्तव्यं यदि तत्राग्निमेष्यसि
पापं यदि कृतं भद्रे परपूरुषसेवनम् । एतद्विशुद्धये पुत्रि प्रायश्चित्तं समाचर
तवोपपातकव्रात नाशो वह्निप्रवेशनात् । नान्यत्पश्यामि नारीणां सर्वपापोपशांतये
अग्निप्रवेशं मुक्त्वैकं प्रायश्चित्तं जगत्त्रये । दधीच उवाच- अथ नारदवाक्येन नोदिता सा वचोऽब्रवीत्
अग्निप्रवेशे नारीणां किं कर्तव्यं महामुने । नारद उवाच- स्नानं मंगलसंस्कारो भूषणांजनधारणम्
गंधपुष्पं तथा धूपं हरिद्राक्षतधारणम् । मंगलं च तथा सूत्रं पादालक्तकमेव च