ब्राह्मण उवाच- तूष्णींभावो मया कार्यो गच्छ त्वं शीघ्रमग्रतः । इत्युक्ता ब्राह्मणेनासौ मनसेदमचिंतयत्
अनेन संगमो मह्यं यथाभूयात्तथाविधि । रोदनं तु करिष्यामि तथा यास्यति सांत्वितुम्
मां च सांत्वयितुं प्राप्तो मां समुत्थापयिष्यति । अहमुत्तिष्ठमानैव दोर्लताकंठसंगिनी
कुचयुग्मेन तद्गात्रं स्पर्शयंती विमूर्च्छिता । गतभानां हि मां दृष्ट्वा निषण्णः स्वयमेव सः
उत्संगे मामकं देहं निधास्यति द्विजाग्रणीः । अचेतनेव वसनमपास्य रुदतीव च
सुस्निग्धं रोमरहितं पक्वाश्वत्थदलाकृति । दर्शयिष्यामि तत्स्थानं कामगेहं सुगंधि च
मयैव विलुठंत्यांगे तस्य वस्त्रमपास्यते । विलुप्यमानसं तस्य करिष्ये स्ववशं द्विजम्
अदृष्टौ यादृशं चित्तं दृष्टौ नैतादृशं भवेत् । दर्शने यादृशं चित्तं संलापे नैव तादृशम्
संलापे यादृशं चित्तं हास्योक्तौ नैव तादृशम् । हास्योक्तौ यादृशं चित्तं स्पर्शने नैव तादृशम्
स्पर्शने यादृशं चित्तं योनिदृष्टौ न तादृशम् । तद्दृष्टौ यादृशं चित्तं योनिस्पर्शे न तादृशम्
बाहुमूलकुचद्वंद्व स्वयोनिस्पर्शदर्शनात् । कस्य न स्खलते चेतो रेतः स्कन्नं च नो भवेत्
दधीच उवाच- इति संचिंत्य मनसा क्षत्रिया गृहमभ्यगात् । स्वगृहद्वारमासाद्य मंदं मंदं रुरोद वै
चिरं कालं च रुदितं ब्राह्मणः करुणानिधिः
स्त्रीबालवृद्धातुर राजयोगिनां विषाग्नितोयाद्रि निपातनादिना । दुःखस्य चैवोद्धरणं प्रशस्यते कूपस्यदानेन समं वदंति
इत्थं विचार्य विप्रोऽसौ शुचिर्भूतः प्रसन्नधीः । तस्याः समीपमगमत्तामुवाच ततो द्विजः
अलं शोकेन महता इहामुत्र विरोधिना । शरीरशोषणं ह्येतच्चित्तविध्वंसनं तथा
त्यज शोकमिमं बाले न चार्थः शोचितेन वै । शोकस्य कारणं किं वा येनेत्थं रुद्यते त्वया
दधीच उवाच- एवमुक्ता द्विजेनाथ न सा किंचिदुवाच ह । मूर्च्छितेवापतद्भूमौ तमदृष्ट्वेव वीक्षते
तामथोत्थापयामास ब्राह्मणः परमार्थवित् । उत्थितोत्थापिता तेन निपपात पुनः पुनः
पतितां पतितां विप्रो निषद्योत्थाप्य तां पुनः । अंकमारोपयामास प्रममार्ज विलोचने
अथ सा मूर्च्छितेवाशु वसनं परिमुच्य तम् । दर्शयंती स्तनौ गुह्यं बाहुमूले विलोचने
आलंब्य कंठे बाहुभ्यां स्तनाभ्यामस्पृशद्द्विजम् । चंद्रातपश्च विशदो मंदमारुतसंभवः
अथ चिंतापरो विप्रो नैव कार्यमिदं मम । पितुर्वा मातुरुचितं पत्युर्वाथ गुरोस्तथा
असंबुद्धस्य मे सर्वं विपरीतं विभाति वै । अथ कामः समायातो रहस्ये स्थितयोस्तयोः
विव्याध निशितैर्बाणैर्द्विजं कामो दुरात्मवान् । स्मरबाणातुरो विप्रश्चिंतयामास कामुकः
इयं सुचारु सर्वांगी कामिनीव प्रदृश्यते । नोचेद्योनिमुखे ह्यस्याः कथं रोमांचसंभवः
तदेतस्याः कुचस्पर्शात्सर्वं व्यक्तं भविष्यति । इति संचिंत्य मनसा कुचौ योनिं द्विजोऽस्पृशत्
सापि मूर्च्छितरूपेव मंदस्मितमुखाभवत् । आलिलिंग द्विजं गाढमाननं च चुचुंब ह
तयोरथ समायोगो वर्षाणां शतमप्यभूत् । गते वर्षशते पश्चादेकस्मिन्दिवसे द्विजः
स्नातुं ययौ नदीं प्रातः सापि विप्रप्रसंगतः । स्नानं तत्र तथा चक्रे पुराणं श्रुतवानथ