अपश्यद्धृदये दीपं दीर्घाकारमतिप्रभम् । हरिराह शिवं साक्षाद्दीपो दृष्टो मयेति च
शिवः प्राह न ते ज्ञानं परिपक्वमथो हरे । भस्म भक्षय ते ज्ञानं समग्रं संभविष्यति
हरिरुवाच- भक्षयिष्ये शुभं भस्म स्नातोऽहं भस्मना पुरा । दृष्ट्वेश्वरं भक्तिगम्यं भस्माभक्षयदच्युतः
तत्राश्चर्यमतीवासीत्पक्वबिंबसमद्युतिः । वासुदेवः शुद्धमुक्ताफलवर्णोऽभवत्क्षणात्
ततःप्रभृति शुक्लोऽसौ वासुदेवः प्रसन्नवान् । पुनर्ध्यानपरो भूत्वा दीपमध्ये च पूरुषम्
शुद्धस्फटिकसंकाशं त्रिनेत्रं द्विभुजं शिवम् । वरदं दक्षिणे हस्ते वामे चाभयदं विभुम्
पंचवर्षीयवपुषं शरच्चंद्रायुतद्युतिम् । माणिक्यकुंडलं हेम दामजालविभूषितम्
रत्नांगुलीयसुभगं बाहुकोष्ठसुभूषणम् । तनुरक्तोष्ठमाकर्ण दीर्घायतविलोचनम्
बाणलोचनसंकाशं भाललोचनमव्ययम् । कंदर्पकार्मुकभ्रांतिजनकभ्रुवमीश्वरम्
स्निग्धोन्नत सुचार्वंग नासमच्छकपोलकम् । मंदस्मितं प्रसन्नास्यं बालेंदुदर्शनं विभुम्
विज्ञानरक्तवसनं वेदकल्पितनूपुरम् । वामांगुलीयमध्यस्थमतिप्रणवमव्ययम्
दृष्टवानथ तं विष्णुः कृतकृत्योऽभवत्तदा । अथाह शंभुर्भो विष्णो हृदि दृष्टं त्वया किमु
हरिराह पुरा दृष्टः पुरुषः शांतविग्रहः । इत्युदीर्य महाविष्णुः शिवपादे पपात ह
हरिरुवाच- न शक्तिं भस्मनो जाने प्रभावं वा कुतस्तव । नमस्तेऽस्तु नमस्तेऽस्तु त्वामेव शरणं गतः
सदाशिव उवाच- वरं वृणु महाभाग मनसा यं त्वमिच्छसि । शिववाचमथाकर्ण्य हरिर्वव्रे वरोत्तमम्
हरिरुवाच- त्वत्पादयुगले शंभो भक्तिरस्तु सदा मम । अथ दत्वा वरं शंभुरिदमाह वचो हरिम्
भस्मधारणसंपन्नो मम भक्तो भविष्यसि । दधीच उवाच- इत्थमुक्तं महाज्ञानं भस्मसंभवमादितः
तस्माद्यूयं सुराः सर्वे धारयध्वं तदादरात् । विस्मयोत्फुल्लनयना देवाश्चासंस्तदस्त्विति
य इदं शृणुयान्नित्यं पुण्याख्यानमनुत्तमम् । विमुक्तः सर्वपापेभ्यो यात्यसौ शांकरं पदम्
शुचिस्मितोवाच- आयुष्यवर्द्धनं भस्माशनं दृष्टं महामुने । परलोकगतिं दातुं शक्तमेतं वदस्व मे
दधीच उवाच- अत्र ते कथयिष्यामि इतिहासं पुरातनम् । चित्रगुप्तयमाभ्यां च यद्विख्यातं बभूव ह
मिथिलायां पुरा कश्चिच्छुनः पर्यटते क्षुधा । पुरा जन्मशतात्पूर्वं ब्राह्मणः पापनिश्चयः
पूर्वेवयसि वेदाढ्यः शास्त्राढ्यश्च सुबुद्धिमान् । स स्नातुं जाह्नवीं गत्वा स्नानं कृत्वा पितॄनपि
देवानृषीन्समभ्यर्च्य ययौ प्रात्तलिकापुरम् । प्रतिश्रयमथो चक्रे ब्राह्मणस्य निवेशने
तत्रैका क्षत्रियसुता यौवनस्था हतप्रिया । भ्रष्टराज्या च षट्कोटि निष्कद्रव्येण संयुता
भुक्त्वाथ शयितं विप्रं सर्वावयवसुंदरम् । रात्रौ चंद्रोदये शुद्धे ज्योत्स्नाहसितदिङ्मुखे
ब्राह्मणाभ्याशमागत्य तमुदीक्ष्येदमब्रवीत् । कुतस्त्वमागतो विप्र कं वा देशं गमिष्यसि
ब्राह्मण उवाच- अकालचर्या सर्वेषां शंकामुत्पादयेद्ध्रुवम् । वयःस्थयोर्मिथोवादो रहस्ये हास्यमंदिरे
क्षत्रियोवाच- कथाप्रसंगे यात्रायां तीर्थे देशादि विप्लवे । दुर्भिक्षे ग्रामदहने रहोवादो न दूषितः
प्रतिश्रयस्तु मद्गेहे भवतैव पुरा कृतः । मद्गेहवासिनी चाहं न शंका त्विह कस्यचित्