भस्मस्नानं ततः पश्चात्ततो ज्ञानं वदाम्यहम् । श्रीभगवानुवाच- मत्स्नानयोग्यं सलिलं न चतिष्ठति कुत्रचित्
इत्युक्तोथ निषण्णस्तु ब्रह्मांडासक्तविग्रहः । ऊरुदघ्नजले स्नातुं न योग्यमभवद्धरेः
शंभुर्जहास स्नानाय जलमत्यधिकं त्वहो । दधीच उवाच- अथ देवः शिवो विष्णुं भालाक्षेण व्यलोकयत्
विलीनसूक्ष्मावयवं वामाक्षेण व्यलोकयत् । ततः सूक्ष्मतनुर्विष्णुः शीतदेहश्च शंभुना
उक्तश्च स्नाहि भो विष्णो ह्रद एष विकल्पितः । ततो ह्रदे हरिः स्नातुं हरांके कल्पिते तदा
प्रवेष्टुं न शशाकाथ गंभीरे तद्ध्रदस्य तु । हरिराह च नो पंथा ह्रदस्यास्य प्रवेशने
मार्गो मे दीयतां देव तमथो शंभुरब्रवीत् । कोटियोजनगंभीरं जलमेतन्महत्पुरा
निविष्टस्यैव भवत ऊरुदघ्नं जलं विभो । इदानीं तिष्ठतश्चापि न प्रवेशो ह्रदे कथम्
अष्टांगुलप्रमाणोऽयमूरुस्तस्मिन्ह्रदे च मे । पश्यामि प्रविश त्वं च पादस्पर्शं ददामि ते
वाक्यमेकं तु सोपानं वेदं मद्वाक्यनिस्सृतम् । हरिरुवाच- शब्दारोहणसामर्थ्यं कस्यापीह न विद्यते
मूर्तस्य ग्रहणं शक्यं ग्रहणं वा कथं श्रुतेः । शंभुरुवाच- पुंसः शक्तिर्न वस्तूनां धारणारोहणादिषु
गृहाणेमं महावेदं जग्राह हरिरप्यथ । नम्रकरश्चाशक्तेर्हि पतन्निव जनार्द्दनः
न च शक्यं मया धर्तुमिति प्राह शिवं हरिः । शिवः प्रहस्य निपती पात्यतीव महाह्रदे
तत्सोपानमथारुह्य स्नातुमर्हसि केशव । दधीच उवाच- वेदे सोपानभूते हि ऊरुदघ्नोपलब्धिनि
तत्र स्नात्वा स विधिना बहिरुत्तीर्य चोक्तवान् । स्नातोऽस्मि किमतः कार्यं शंभुराह हरिं ततः
ध्यायसे हृदये किं त्वं न च किंचिद्वदस्व मे । हरिर्न किंचिदित्याह तमथो शंभुरुक्तवान्
भस्मस्नानेन संशुद्धो वेत्स्यसे परमं शुभम् । दीक्षितस्य हि तच्छस्तं तद्रक्षां करवाण्यहम्
दधीच उवाच- स्ववक्षः स्थितभस्मैकं नखेनादाय शंकरः । प्रणवेनाभिमंत्र्याथ गायत्र्या ब्रह्मभूतया
अंगुलिभ्यामुपादाय शिवः पंचाक्षरेण वै । हरिमस्तकगात्रेषु सर्वेष्वपि समाक्षिपत्
शांतदृष्ट्या निरीक्ष्याथ जीवेत्याह हरिं हरः । ध्यायस्व किं ते हृदये स च ध्यानपरोऽभवत्
अपश्यद्धृदये दीपं दीर्घाकारमतिप्रभम् । हरिराह शिवं साक्षाद्दीपो दृष्टो मयेति च
शिवः प्राह न ते ज्ञानं परिपक्वमथो हरे । भस्म भक्षय ते ज्ञानं समग्रं संभविष्यति
हरिरुवाच- भक्षयिष्ये शुभं भस्म स्नातोऽहं भस्मना पुरा । दृष्ट्वेश्वरं भक्तिगम्यं भस्माभक्षयदच्युतः
तत्राश्चर्यमतीवासीत्पक्वबिंबसमद्युतिः । वासुदेवः शुद्धमुक्ताफलवर्णोऽभवत्क्षणात्
ततःप्रभृति शुक्लोऽसौ वासुदेवः प्रसन्नवान् । पुनर्ध्यानपरो भूत्वा दीपमध्ये च पूरुषम्
शुद्धस्फटिकसंकाशं त्रिनेत्रं द्विभुजं शिवम् । वरदं दक्षिणे हस्ते वामे चाभयदं विभुम्
पंचवर्षीयवपुषं शरच्चंद्रायुतद्युतिम् । माणिक्यकुंडलं हेम दामजालविभूषितम्
रत्नांगुलीयसुभगं बाहुकोष्ठसुभूषणम् । तनुरक्तोष्ठमाकर्ण दीर्घायतविलोचनम्
बाणलोचनसंकाशं भाललोचनमव्ययम् । कंदर्पकार्मुकभ्रांतिजनकभ्रुवमीश्वरम्
स्निग्धोन्नत सुचार्वंग नासमच्छकपोलकम् । मंदस्मितं प्रसन्नास्यं बालेंदुदर्शनं विभुम्