महेशस्य करस्पर्शाद्विशापः करुणोऽभवत् । स्वरूपं च ततो गत्वा स्वमाश्रमपदं ययौ
दधीचमपि सा साध्वी गृहमानीय भोजने । प्रार्थयामास विप्रर्षिं भुक्तवानथ स द्विजः
भुक्तवत्यथ विप्रेंद्रे कोटिशिष्याः समागताः । अथ देवाः समायाता भस्मोद्धूलितविग्रहाः
नमस्कृत्य दधीचं तु पप्रच्छुः शिवकांक्षया । देवा ऊचुः - अस्माकं तु पुरा ज्ञानं नष्टमासीन्महामते
गौतमस्य तु भार्यां वै दृष्ट्वा कामातुरा वयम् । तथा च धर्षिता देवी विवाहकृतमंगला
तां वै कामयमानानां नष्टं ज्ञानमभूच्च नः । ततः सर्वे वयं भूता गता दुर्वाससं मुनिम्
स उवाचाधुना सर्वमपनेष्यामि वोमलम् । शतरुद्रियमंत्रेण मंत्रितं शंभुना स्वयम्
ममापि दत्तं तेनैव ब्रह्महत्यादिशांतये । इत्येवमुक्त्वा दुर्वासा दत्तवान्भस्मचोत्तमम्
अथ तद्वचनात्सर्वे वयं विकृतचेतनाः । शतरुद्रियमंत्रेण भस्मोद्धूलितविग्रहाः
निर्धूतपातकाः सर्वे संवृत्तास्तत्क्षणेन हि । आश्चर्यमेतज्जानीमो भस्मसामर्थ्यमीदृशम्
दधीच उवाच- शैवस्य भस्मनः शक्तिं संक्षेपेण वदामि वः । विस्तरेण न शक्येत वक्तुं वर्षशतैरपि
अत्र वः कीर्तयिष्यामि पुरावृत्तं तु देवयोः । हरिशंकरयोः सर्वे ब्रह्महत्यादिनाशनम्
पुरा चैकार्णवे घोरे ब्रह्मणः प्रलये सति । महाविष्णुस्तु भगवाञ्छेते स्म प्रलयांभसि
तस्य पार्श्वद्वयं प्राप्य ब्रह्मांडानां शतद्वयम् । विंशतिः पादयोः पार्श्वे विंशतिर्मस्तकांतरे
नासामौक्तिकभावेन ब्रह्मांडमदधात्प्रभुः । तन्नाभिमंडले केचिल्लोमशाद्या मुनीश्वराः
तपस्तपंतः सुमहदीश्वरं पर्युपासते । अथ विष्णुर्महातेजाश्चिंतामाप सिसृक्षया
ध्यानयोगपरो भूत्वा न किंचित्पर्यपश्यत । अथ दुःखेन महता रुरोदोच्चैः पुनः पुनः
एतस्मिन्नंतरे दीप्तिः काचिल्लोकविलक्षणा । दृष्ट्वा च हरिणा भीत्या लोचने च निमीलिते
आगम्यमानो गोक्षीरसमतेजाः स गात्रवान् । संग्रथ्य कोटिब्रह्मांडदामयुग्मं करद्वये
दधानमुरसा धामकोटिब्रह्मांडकल्पितम् । ब्रह्मांडमेकं निपतदुत्पतच्च करद्वये
सर्वाभरणसंयुक्तं तथाभूतं तमव्ययम् । विष्णुस्तुष्टाव चादृष्ट्वा दर्शनाय च तस्य वै
विष्णुरुवाच- नमस्ते देवदेवेश नमस्ते शाश्वताव्यय । न जानेऽहं भवंतं भोस्त्वं च वेत्सि नमोनमः
जानामि न च ते भावं दुर्निरीक्ष्या च ते द्युतिः । माणिक्यकुंडलं हेमदामजालविभूषितम्
रत्नांगुलीयं सुभगं बाहुकोष्ठविभूषणम् । तनुरक्तोत्तमाकीर्ण दीप्तायतविलोचनम्
बाणलोचनसंकाशं भाललोचनमव्ययम् । कंदर्पकार्मुकभ्रांतिजनक भ्रुवमीश्वरम्
स्निग्धाधोन्नतचार्वंग नासमच्छकपोलकम् । मंदस्मितं प्रसन्नास्यं विभुं बालेंदुदर्शनम्
विज्ञानरक्तवसनं वेदकल्पितभूषणम् । शरणं त्वां प्रपन्नोऽस्मि चक्षुर्मे दीयतां विभो
दीनांधकृपणाज्ञाननष्टस्य शरणं भव । अथ दिव्यं ददौ चक्षुः स्वात्मदर्शनशक्तिमत्
अथ दृष्ट्वा हरिः शंभुं त्रिनेत्रं पुरतः स्थितम् । को भवानित्युवाचाथ न जाने त्वां महायशः
प्रणामं केवलं कर्तुं शक्तोऽस्मि न हि वेदितुम् । सदाशिव उवाच- तव ज्ञानं प्रदास्यामि कुरु स्नानं च वारुणम्