कर्णोपरिकृतं पापं नष्टं स्यान्मुखधारणे । कंठे च धारणात्कंठभोगादिकृतपातकम्
बाह्वोर्बाहुकृतं पापं वक्षसि मनसा कृतम् । नाभ्यां शिश्नकृतं पापं पृष्ठे गुदकृतं तथा
पार्श्वयोर्धारणाद्राम परस्त्र्यालिंगनादिजम् । तद्भस्मधारणं शस्तं सर्वत्रैव त्रिपुंड्रकम्
ब्रह्मविष्णुमहेशानां त्रय्यग्नीनां च धारणम् । गुप्त्यै लोकत्रयाणां च धारणं तेन वै कृतम्
धृतं पंचदशस्थाने शुद्धं भस्माभिमंत्रितम् । कोष्ठयुग्मे बाहुयुग्मे कोष्ठोपरि युगे तथा
धारणं सर्वदेहानां पूजायै धर्मसंमतम् । भस्माशना भस्मशय्या भस्मोद्धूलितविग्रहाः
भस्मस्नानाः सदापापैर्मुच्यंते नात्र संशयः । आदौ ब्राह्मणदीक्षायां त्रियायुषमिति स्मृतम्
प्रसवे च मनुष्याणां भूतावेशेऽपि रक्षकम् । सर्पादिविषहान्यर्थं सर्वेषां साधनं त्विदम्
अपि वा वैष्णवो मर्त्य अथवापीतरो जनः । भस्मस्नायी भस्मयुक्तः कर्मस्वधिकरोति वै
श्रीराम उवाच- भस्ममाहात्म्यमादौ मे भस्मायुष्यं हि कस्य वै । कथं हि रक्षते ह्येतत्सर्वमेतद्वदस्व मे
शंभुरुवाच- आयुष्यवर्द्धने हेतुस्त्रिविधस्यापि देहिनः । पापघ्नं शीतमुष्णं च स्पर्शाच्छिवपदप्रदम्
अत्र ते कीर्तयिष्यामि चेतिहासं पुरातनम् । आसीद्वासिष्ठवंश्यस्तु धनंजय इति द्विजः
तस्य भार्याशतं चासीद्रूपलावण्यसंयुतम् । तासामेका तु सुषुवे शामाकाकरुणं मुने
भार्याणां संख्यया राम सुताश्चासंस्तपस्विनः । पित्रा विभागस्तेषां च विषमः परिकल्पितः
भ्रातॄणां च तदा ह्येव वैरबंधो महानभूत् । नराणामेकजातीनां वैरं नियतमेव तु
अथासौ करुणो गत्वा भवनाशिनिका तटे । नानामुनिगणैः सार्द्धं नरसिंहदिदृक्षया
नृसिंहदर्शनार्थं तु ब्राह्मणेन तु केनचित् । उत्कृष्टफलितंवीरमानीतं रूपगंधवत्
करुणस्तु तदादाय व्यजिघ्रत्फलमुत्तमम् । तत्रस्थिता द्विजगणाः शापेन तमयोजयन्
मक्षिका भव पापात्मन्वर्षाणां शतमप्यतः । शापावसानं भविता दधीचेन महात्मना
अथ मक्षिकतां प्राप्तो भार्यामिदमभाषत । मक्षिकात्वमहं प्राप्तो मां शुभे पालयस्व भोः
इत्युक्त्वा स तथा भूतो बभ्राम च ततस्ततः । अथैवंविधमाज्ञाय ज्ञातयः पापनिश्चयाः
तद्वधे यत्नमास्थाय तैलमध्ये ह्यपातयन् । मृतं पतिमथादाय दुःखिता सा कृशोदरी
तद्दुःखशमनार्थाय प्राह देवीत्वरुंधती । अमुं संजीवयाम्यद्य भस्मनैव शुचिस्मिते
अथाग्निहोत्रजं भस्म अरुंधत्यै न्यवेदयत् । मृत्युंजयेन मंत्रेण मृतजंतौ तथाक्षिपत्
मंदवायुं तथा चक्रे व्यजनेन शुचिस्मिता । उदतिष्ठत्ततो जंतुर्भस्मनोऽस्य प्रभावतः
ततो वर्षशते पूर्णे ज्ञातिरेको ह्यमारयत् । मृते भर्तरि सा साध्वी दुःखिता च शुचिस्मिता
दधीचं नाम विप्रेंद्रं महामाहेश्वरं मुनिम् । जगाम शरणं साध्वी प्राह विप्रस्तपोधनः
त्रियायुषा विहीनं तु जमदग्निं तपोनिधिम् । भस्मैव जीवयामास कश्यपं च तथाविधम्
देवानपि तथाभूतान्मामप्येतादृशं पुरा । तस्मात्तु भस्मना जंतुं जीवयामि तवानघे
इत्येवमुक्त्वा भगवान्दधीचो महेश्वरं वै शरणं जगाम । भस्माभिमंत्र्याथ करे गृहीत्वा संजीवयामास धवं सुसाध्व्याः