लिंगस्य स्थापनं पूजा उद्वासनमथैव च । धारणं शंकरस्यैव लिंगमेव महेश्वरम्
सज्जिकं परमोत्कृष्टं स्वर्णं चैव विनिर्मितम् । राजतैर्वा दलैः कार्यं राजतैर्वैणवैस्तु यत्
लतासूत्रैरथो वापि रचितं दारुणाथवा । वस्त्रेण वाथ रचितं मृदाविरचितं भवेत्
तत्र संवेष्ट्य वस्त्रेण सुगंधेन समन्विते । धौतवस्त्रयुगे शुद्धे मृद्वासन समन्विते
शीतोष्णरहिते पादचतुष्टयसमन्विते । प्रावृतिच्छेदनोपेते क्रिमिकीटविवर्जिते
धौतेन मृदुवस्त्रेण सर्वतो वेष्ट्य तं शिवम् । विन्यस्य सज्जिकामध्ये प्रावृत्य च पुनर्विभुम्
एषा हि सज्जिका राम देवस्याग्रेति कीर्तिता । तस्य च स्थापनं पाठो रहस्ये च महेशितुः
अथवा भित्तिमूले स्याद्देववेद्यामथापि वा । सुरक्षिते तथा देशे रक्षकं च नियोजयेत्
प्राणादेरविनाभावं कुर्वीत नियमैः सह । एतद्धि राजसं प्रोक्तं स्थापनं परमात्मनः
सात्विकं स्वसमीपस्थं धारणं तामसं पुनः । धारणं गात्रसंस्पर्शमशेषदेहगोपनम्
मस्तके धारणं मुख्यं ब्रह्मणा च तथा कृतम् । विन्यस्य मुकुटस्यांते धारणं शुभमुच्यते
ललाटे धारणं शस्तं यथा लक्ष्म्या धृतं शुभम् । बाणेन च धृतं मूर्ध्नि दक्षिणोरसि वा पुनः
कर्णे च हरकर्णेन मुनिना परमर्षिणा । विनिर्भिद्य तथा गात्रं लोहस्थानं प्रकल्प्य च
धारयंति तथा लिंगं राक्षसाः केचिदुत्तमाः । अनिकेतन मर्त्यानामशक्तानां शिरोधृतिः
अधमाधममाख्यातं नीवीबंधादिधारणम् । तेषु तूच्छिष्टसंप्राप्तौ मस्तके धारणं भवेत्
अधमाधमवृत्तीनां सदा वै लिंगधारणम् । पापिनामपि चाश्चर्यं यमलोके न विद्यते
श्रीराम उवाच- चित्रगुप्तेन लिखिता ललाटे या लिपिर्दृढा । तया तु लिप्या नियतं नरकं कथमन्यथा
करोति पूजनं शंभोः पापं नाशयते कथम् । शंभुरुवाच- पापं नाशयते कृत्स्नमपि जन्मशतार्जितम्
भर्त्सनात्सर्वपापानां स्मरणाच्च महेशितुः । भस्मेति पदमाख्यातं तस्य धारणमुत्तमम्
यथाविधि ललाटे वै वह्निवीर्यप्रधारणात् । नाशयेल्लिखितां यामीं पटस्थामिव हव्यभुक्
कर्णोपरिकृतं पापं नष्टं स्यान्मुखधारणे । कंठे च धारणात्कंठभोगादिकृतपातकम्
बाह्वोर्बाहुकृतं पापं वक्षसि मनसा कृतम् । नाभ्यां शिश्नकृतं पापं पृष्ठे गुदकृतं तथा
पार्श्वयोर्धारणाद्राम परस्त्र्यालिंगनादिजम् । तद्भस्मधारणं शस्तं सर्वत्रैव त्रिपुंड्रकम्
ब्रह्मविष्णुमहेशानां त्रय्यग्नीनां च धारणम् । गुप्त्यै लोकत्रयाणां च धारणं तेन वै कृतम्
धृतं पंचदशस्थाने शुद्धं भस्माभिमंत्रितम् । कोष्ठयुग्मे बाहुयुग्मे कोष्ठोपरि युगे तथा
धारणं सर्वदेहानां पूजायै धर्मसंमतम् । भस्माशना भस्मशय्या भस्मोद्धूलितविग्रहाः
भस्मस्नानाः सदापापैर्मुच्यंते नात्र संशयः । आदौ ब्राह्मणदीक्षायां त्रियायुषमिति स्मृतम्
प्रसवे च मनुष्याणां भूतावेशेऽपि रक्षकम् । सर्पादिविषहान्यर्थं सर्वेषां साधनं त्विदम्
अपि वा वैष्णवो मर्त्य अथवापीतरो जनः । भस्मस्नायी भस्मयुक्तः कर्मस्वधिकरोति वै
श्रीराम उवाच- भस्ममाहात्म्यमादौ मे भस्मायुष्यं हि कस्य वै । कथं हि रक्षते ह्येतत्सर्वमेतद्वदस्व मे