तृतीयघटिकायां तु शिवपूजां समाचरेत् । कुबेरसम तेजस्वी शिवलोके महीयते
तृतीयघटिकायां तु शिवपूजां समाचरेत् । कुबेरसम तेजस्वी शिवलोके महीयते
चतुर्थीपंचमीषष्ठीसप्तमी घटिकासु यः । शिवं पूजयते भक्त्या शिवलोके मरुत्समः
तत्काल एव क्रियते पूजा यत्कालनोदिता । यथा प्रतिज्ञमथवा गृहीत नियमो यजेत्
उपचारेषु शक्त्या वै नियमं परिपालयेत् । नियमातिक्रमे वापि यागश्च स्याद्विभोर्यदि
श्रीराम उवाच- क्व पूजा देवदेवस्य शंकरस्यामितौजसः । स्मरणात्पापनाशस्य स्मरणान्मोक्षदस्य च
शिवस्य शिवरूपस्य शिवतत्त्वार्थवेदिनः । सोमस्य सोमभूषस्य सोमनेत्रस्य राजितुः
वेदमूर्तेरमूर्तेश्च वेदसारस्य वेदिनः । वेदवेदांगवित्तस्य वेद्यावेद्यस्य योगिनः
गोक्षीरसमदेहस्य गोक्षीरस्नानमोदिनः । गोपालिनस्त्रिनेत्रस्य त्रयीनेत्रस्य मायिनः
प्रश्नमध्ये तथा रामं शिवज्ञानमथादिशत् । स्थाणुभूतइवासीनो नासाग्रन्यस्तलोचनः
आनंदनिष्यंदविलोचनाश्रु प्रवाहसंस्पृष्टकपोलदेशः । दधार देवं गिरिशं हृदंबुजे गोक्षीरसुस्निग्धसुचारुगात्रम्
प्रतिबिंबमथो गात्रे रामस्य समदृश्यत । दृष्ट्वैव बिंबितं शंभुं चतुर्बाहुं त्रिलोचनम्
विस्मयं परमं याताः सर्वे मुनिहरीश्वराः । शंभोर्वक्षःस्थितं रामं दृष्ट्वा दीप्ताकृतिं शुभम्
तूष्णीं बभूवुर्यामार्द्धमथ राममुदैक्षत । स्वप्रश्नमनुसंधाय प्राह सर्वं वदेति च
शंभुरुवाच- अचले या सदा पूजा चले वापि यथेच्छया । लिंगसंपूजनं मुख्यमलाभे प्रतिमादिषु
अधिकारविशेषेण तत्रतत्रापि पूजनम् । विगुणं सगुणं वापि सफलं लिंगपूजनम्
प्रतिमादिकृतापूजा विगुणा सफला नहि । अचले वा चले वापि पूजा लिंगे प्रशस्यते
चलस्य पूजनं वक्ष्ये स्थापनोद्वासने तथा । ते उभेन विजानाति कश्चिन्मुनिरपि क्वचित्
स्थापयंति हृदब्जे वै गोपयंति यजंति च । उद्वासयंति देवेशं शंकरं योगिनः सदा
क्रिया चातीव होतॄणां वह्नौ देवं त्रियंबकम् । पूजकानामशेषाणां शिवलिंगे महेश्वरम्
लिंगस्य स्थापनं पूजा उद्वासनमथैव च । धारणं शंकरस्यैव लिंगमेव महेश्वरम्
सज्जिकं परमोत्कृष्टं स्वर्णं चैव विनिर्मितम् । राजतैर्वा दलैः कार्यं राजतैर्वैणवैस्तु यत्
लतासूत्रैरथो वापि रचितं दारुणाथवा । वस्त्रेण वाथ रचितं मृदाविरचितं भवेत्
तत्र संवेष्ट्य वस्त्रेण सुगंधेन समन्विते । धौतवस्त्रयुगे शुद्धे मृद्वासन समन्विते
शीतोष्णरहिते पादचतुष्टयसमन्विते । प्रावृतिच्छेदनोपेते क्रिमिकीटविवर्जिते
धौतेन मृदुवस्त्रेण सर्वतो वेष्ट्य तं शिवम् । विन्यस्य सज्जिकामध्ये प्रावृत्य च पुनर्विभुम्
एषा हि सज्जिका राम देवस्याग्रेति कीर्तिता । तस्य च स्थापनं पाठो रहस्ये च महेशितुः
अथवा भित्तिमूले स्याद्देववेद्यामथापि वा । सुरक्षिते तथा देशे रक्षकं च नियोजयेत्
प्राणादेरविनाभावं कुर्वीत नियमैः सह । एतद्धि राजसं प्रोक्तं स्थापनं परमात्मनः
सात्विकं स्वसमीपस्थं धारणं तामसं पुनः । धारणं गात्रसंस्पर्शमशेषदेहगोपनम्