तत्र व्यतिक्रमे हेतावमायां क्रियते तु तत् । यथोत्तरदिनेष्वेव कर्तव्यं यद्यविघ्नतः
कृष्णपक्षे त्वमायां तु कर्तव्यं राम नो कृतम् । मृताहस्य यदा मासो न ज्ञायेत कथंचन
मार्गशीर्षेऽथवा माघे श्राद्धं तद्दिवसे स्मृतम् । यदा तु वासराज्ञानं मासस्य ज्ञानमेव च
अमायामेव तन्मासे श्राद्धं सांवत्सरं भवेत् । दिनमासापरिज्ञाने प्रोषितस्य मृतस्य च
तत्तिथ्यां तद्दिनं ग्राह्यं तत्र ज्ञानं यदा भवेत् । आश्विनामा च मार्गामा माघामा च दिनत्रयम्
तत्र वान्यतमं ग्राह्यं दिनमासाप्रतीतितः । वृद्धिसप्तमसीमंत प्रेतश्राद्धानुमासिकम्
नित्योदकुंभश्राद्धं च मासे स्युरधिकेऽपि च । ग्रहणे पुत्रजन्मादौ कर्मण्यपि च शांतिके
संकल्पिते च सर्वस्मिन्नधिमासो न दुष्यति । रोगी यदा मनुष्यः स्याच्छ्राद्धकर्मण्युपस्थिते
भार्यां वा भ्रातरं वापि शिष्यं वापि नियोजयेत् । तस्याभावे न हानिः स्यात्कर्मणः श्राद्धसंज्ञिनः
नित्यश्राद्धे यथाशक्ति भोक्तारं तु नियोजयेत् । अमावास्या मासिकं च मृताह व्यतिरेकि यत्
स्वयं कर्मण्यशक्तश्चेत्सुतं विप्रं नियोजयेत् । राजकार्यनियुक्तस्य दासग्रहणवर्तिनः
व्यसनेषु समस्तेषु श्राद्धं विप्रेण कारयेत् । प्रातःकाले तु न श्राद्धं प्रकुर्वंति द्विजोत्तमाः
नैमित्तिकेषु श्राद्धेषु न कालनियमः स्मृतः
गृहादिव्यतिरिक्तस्य प्रक्रमः कुतुपः स्मृतः । कुतुपादथवाप्यर्वागासन्नकुतुपो भवेत्
मासेमासे यथाश्राद्धेऽपराह्णस्पृग्विधीयते । अपराह्णव्यापिनी स्यादुभयत्र यदा त्वमा
क्षये पूर्वा तु कर्तव्या वृद्धौ साम्ये परा स्मृता । अमावास्या तु या हि स्यादपराह्णद्वये समा
क्षये पूर्वा परा वृद्धौ साम्येऽपि च परा भवेत् । क्षीणस्तु चंद्रमा यत्र तत्र श्राद्धं तु पार्वणम्
अमाष्टभागे सूक्ष्मोऽसौ भूताष्टांशे स नास्ति चेत् । मध्याह्नव्यापिनी सा स्यादेकोद्दिष्टे तिथिर्भवेत्
सायाह्नव्यापिनी या स्यात्पार्वणे सा तिथिर्भवेत् । अल्पापराह्णगा यामा ग्राह्या श्राद्धादिके भवेत्
मृताहे त्रिमुहूर्ता च सायंकाले तिथिर्भवेत् । परेह्यस्तंगता यत्र त्रिमुहूर्तं तु पूर्ववत्
तत्रापरेद्युः श्राद्धं स्याज्ज्येष्ठपुत्रस्य नाशनम् । अमाश्राद्धं यथा कुर्यान्मृताहे समुपस्थिते
मध्याह्नव्यापिनी तत्र ह्य द्विजस्य विधीयते । राम उवाच- श्राद्धक्रममशेषेण मर्त्यकर्मक्रमं तथा
प्रासंगिकानां धर्माणां निर्णयं वक्तुमर्हसि । शंभुरुवाच- श्राद्धस्य दिवसे प्राप्ते पूर्वेद्युर्नियमान्वितः
निमंत्रयीत विप्रेंद्रान्विप्रलक्षणसंयुतान् । एकभुक्तं ब्रह्मचर्यमंत्यजाद्यैरभाषणम्
दंतधावनमभ्यंग नखकेशनिकृंतनम् । कर्ता कुर्वीत पूर्वेद्युस्त्यक्त्वा चैव परेऽहनि
गृह्णीतनियमानुक्तान्सर्वमेतत्परित्यजेत् । त्रिकालं चैव पूजा चेत्प्रातर्देवं यजेत्स्वकम्
अरुणोदयवेलायां करोति यदि पूजनम् । अधःशायी तथा भूतः प्रातरुत्थाय कर्मवित्
प्रातस्त्यमपि यत्कर्म तत्कृत्वा स्नानपूर्वकम् । ऋणत्रयविनिर्मुक्तो यास्यति ब्रह्मतत्परम्
सूर्यस्योदयवेलायां शिवपूजां करोति यः । सूर्येणसम तेजस्वी शिवलोके महीयते
उदिते भास्करे पश्चाद्धटिकांतरपूजनम् । रुद्रेणसम तेजस्वी शिवलोके महीयते