एकपत्नीव्रतं ज्ञात्वा रामं ते समुपागमन् । अथवेपितसर्वांगं स्खलत्पदगतिं नृपम्
शिवनारायणौ दृष्ट्वा विस्मयं परमं गतौ । अहोऽस्य द्रढिमाचित्ते मायिनोऽप्य वशात्मनः
धैर्यं पश्येह नियतं तेन रामः सुकीर्तिमान् । सर्वतः शिवमेवास्य नाशिवं विद्यते क्वचित्
अथ रामो वचः प्राह गच्छेहं भगवन्प्रभो । अनुज्ञातोऽथ हरिणा पुष्पकेण स राघवः
स मुनिः सहशंभुश्च सहनारायणो ययौ । लोकालोकं गतः शीघ्रं ततः स्वादूदधिं गतः
ततो द्वीपसमुद्रांश्च जंबूद्वीपं पुनर्गतः । भरद्वाजाश्रमपदे तस्थिवान्गौतमीतटे
अथ स्नात्वा महानद्यां भरद्वाजो मुनीश्वरः । शिष्यैः श्रीमान्परिवृतः पुष्पकं दृष्टवान्मुनिः
तत्र रामं महाबाहुं शिवनारायणावृषीन् । यथावत्पूजयित्वा तु तानुवाच महामुनिः
ममाश्रमपदे यूयं भोक्तुमर्हथ सत्तमाः । रामस्तु मन्वाक्येन तथेत्याह कथंचन
अथ स्नात्वा महानद्यां कृत्वा देवादितर्पणम् । भोक्तुकामं तदा रामं वसिष्ठो वाक्यमुक्तवान्
धर्मत्यागो भवेद्राम न श्राद्धं क्रियते यदि । श्रीराम उवाच- अमायां ग्रहणे तीर्थे व्यतीपातेऽथ संक्रमे
व्यतीतं यदि चेच्छ्राद्धं भगवन्क्रियते पुनः । नित्यश्राद्धं पुनर्नैव कुर्यादिति वचस्तव
यथा ममैव मातॄणां मरणे समुपस्थिते । अशौचे च समायाते नित्यश्राद्धं न वै कृतम्
व्यतीपातादिकालेषु कृतं तु वचनात्तव । वसिष्ठ उवाच- एते हि मुनयः सर्वे तथा शंभुरयं द्विजः
एतन्मुखादशेषेण निर्णयस्तु भविष्यति । सह सर्वे विनिश्चित्य मुनयः शंभुमब्रुवन्
वदास्माकमशेषं त्वं द्विजवर्य महानसि । शंभुरुवाच- त्यक्तव्यं यच्च वै श्राद्धं पुनः कर्तव्यमेव च
सूतके समनुप्राप्ते विघ्नेषु च वदाम्यहम् । मासिकान्युदकुंभानि श्राद्धानि सकलानिच
प्रतिसांवत्सरं श्राद्धं सूतकानंतरं विदुः । त्यक्तान्यन्यानि यावंति सूतके विघ्नसंभवे
अनंतरं हि कार्याणि सर्वाणीति न संशयः । मासिकानि समस्तानि श्राद्धं प्रात्यब्दिकं तथा
सूतकानंतरं कार्यं विघ्नेऽन्यस्मिन्यतोन्यथा । एकादश्यां कृष्णपक्षे कर्तव्यं शुभमिच्छता
तत्र व्यतिक्रमे हेतावमायां क्रियते तु तत् । यथोत्तरदिनेष्वेव कर्तव्यं यद्यविघ्नतः
कृष्णपक्षे त्वमायां तु कर्तव्यं राम नो कृतम् । मृताहस्य यदा मासो न ज्ञायेत कथंचन
मार्गशीर्षेऽथवा माघे श्राद्धं तद्दिवसे स्मृतम् । यदा तु वासराज्ञानं मासस्य ज्ञानमेव च
अमायामेव तन्मासे श्राद्धं सांवत्सरं भवेत् । दिनमासापरिज्ञाने प्रोषितस्य मृतस्य च
तत्तिथ्यां तद्दिनं ग्राह्यं तत्र ज्ञानं यदा भवेत् । आश्विनामा च मार्गामा माघामा च दिनत्रयम्
तत्र वान्यतमं ग्राह्यं दिनमासाप्रतीतितः । वृद्धिसप्तमसीमंत प्रेतश्राद्धानुमासिकम्
नित्योदकुंभश्राद्धं च मासे स्युरधिकेऽपि च । ग्रहणे पुत्रजन्मादौ कर्मण्यपि च शांतिके
संकल्पिते च सर्वस्मिन्नधिमासो न दुष्यति । रोगी यदा मनुष्यः स्याच्छ्राद्धकर्मण्युपस्थिते
भार्यां वा भ्रातरं वापि शिष्यं वापि नियोजयेत् । तस्याभावे न हानिः स्यात्कर्मणः श्राद्धसंज्ञिनः
नित्यश्राद्धे यथाशक्ति भोक्तारं तु नियोजयेत् । अमावास्या मासिकं च मृताह व्यतिरेकि यत्