प्रावेशयदमेयात्मा नारायणपुरं शुभम् । गृहराजे ततः स्थित्वा नारायण उवाच ह
कथमेते समायाताः कोऽयं राजा महायशाः । अमानुषप्रवेशोऽयं ब्रह्माद्यैरप्यगोचरः
शंभुरुवाच- मुनिवेषा यथा प्राप्ता वयमेते नृपस्तथा । तवांशो नृपतिश्चायं रामचंद्रः प्रतापवान्
एनां संवीक्षितुं पत्नीं तव केशव कांक्षति । नारायणस्तथेत्युक्त्वा प्रविशेत्याह राघवम्
अथ प्रविश्य भवनं लक्ष्मीं वीक्ष्य नमस्य च । विनयावनतो भूत्वा वाचमाह सुचारिणीम्
कृतार्थोऽस्मि न संदेहो वद त्वं किं तु मन्यसे । श्रीदेव्युवाच- त्वं युवा कामकृष्टश्च रूपवानसि राघव
सीता सा चारुसर्वांगी तव पत्नी तया भवान् । वियुक्तोऽस्ति पुरा चासीदतीव विरहाकुलः
ममापि वद सर्वं तदथवा न च लप्स्यसि । सहासान्यथ वाक्यानि यूनां चित्तहराणि च
श्रुत्वा तु तानि सर्वाणि रामभद्रो यतात्मवान् । निर्गंतुं कांक्षते तत्र आनम्य तन्मुखांबुजम्
स्मरबाणेन पद्मेन संपीड्य रघुशेखरम् । अन्वेव निर्ययौ देवी पद्मा पद्मवनप्रिया
एकपत्नीव्रतं ज्ञात्वा रामं ते समुपागमन् । अथवेपितसर्वांगं स्खलत्पदगतिं नृपम्
शिवनारायणौ दृष्ट्वा विस्मयं परमं गतौ । अहोऽस्य द्रढिमाचित्ते मायिनोऽप्य वशात्मनः
धैर्यं पश्येह नियतं तेन रामः सुकीर्तिमान् । सर्वतः शिवमेवास्य नाशिवं विद्यते क्वचित्
अथ रामो वचः प्राह गच्छेहं भगवन्प्रभो । अनुज्ञातोऽथ हरिणा पुष्पकेण स राघवः
स मुनिः सहशंभुश्च सहनारायणो ययौ । लोकालोकं गतः शीघ्रं ततः स्वादूदधिं गतः
ततो द्वीपसमुद्रांश्च जंबूद्वीपं पुनर्गतः । भरद्वाजाश्रमपदे तस्थिवान्गौतमीतटे
अथ स्नात्वा महानद्यां भरद्वाजो मुनीश्वरः । शिष्यैः श्रीमान्परिवृतः पुष्पकं दृष्टवान्मुनिः
तत्र रामं महाबाहुं शिवनारायणावृषीन् । यथावत्पूजयित्वा तु तानुवाच महामुनिः
ममाश्रमपदे यूयं भोक्तुमर्हथ सत्तमाः । रामस्तु मन्वाक्येन तथेत्याह कथंचन
अथ स्नात्वा महानद्यां कृत्वा देवादितर्पणम् । भोक्तुकामं तदा रामं वसिष्ठो वाक्यमुक्तवान्
धर्मत्यागो भवेद्राम न श्राद्धं क्रियते यदि । श्रीराम उवाच- अमायां ग्रहणे तीर्थे व्यतीपातेऽथ संक्रमे
व्यतीतं यदि चेच्छ्राद्धं भगवन्क्रियते पुनः । नित्यश्राद्धं पुनर्नैव कुर्यादिति वचस्तव
यथा ममैव मातॄणां मरणे समुपस्थिते । अशौचे च समायाते नित्यश्राद्धं न वै कृतम्
व्यतीपातादिकालेषु कृतं तु वचनात्तव । वसिष्ठ उवाच- एते हि मुनयः सर्वे तथा शंभुरयं द्विजः
एतन्मुखादशेषेण निर्णयस्तु भविष्यति । सह सर्वे विनिश्चित्य मुनयः शंभुमब्रुवन्
वदास्माकमशेषं त्वं द्विजवर्य महानसि । शंभुरुवाच- त्यक्तव्यं यच्च वै श्राद्धं पुनः कर्तव्यमेव च
सूतके समनुप्राप्ते विघ्नेषु च वदाम्यहम् । मासिकान्युदकुंभानि श्राद्धानि सकलानिच
प्रतिसांवत्सरं श्राद्धं सूतकानंतरं विदुः । त्यक्तान्यन्यानि यावंति सूतके विघ्नसंभवे
अनंतरं हि कार्याणि सर्वाणीति न संशयः । मासिकानि समस्तानि श्राद्धं प्रात्यब्दिकं तथा
सूतकानंतरं कार्यं विघ्नेऽन्यस्मिन्यतोन्यथा । एकादश्यां कृष्णपक्षे कर्तव्यं शुभमिच्छता