स गच्छेद्विष्णुभवनं गलिताखिल कल्मषः । यस्तु स्मरति वै प्राज्ञो मृत्युकाले द्विजोत्तम
गङ्गेति मुक्तिदं नाम तस्य तुष्टो भवेद्धरिः । मृत्युकाले भवेद्यस्तु गङ्गामृत्पुण्ड्रमुत्तमम्
गङ्गास्नायिनमालोक्य त्यजेद्यस्तु कलेवरम् । श्मशानेऽपि द्विजश्रेष्ठ स गङ्गामरणं लभेत्
तिष्ठंत्यस्थीनि गङ्गायां यावत्कालं शरीरिणः । तावत्कल्पसहस्राणि विष्णुलोके महीयते
यस्य मज्जन्ति गङ्गायां भस्मास्थीनि नखानि च । शिरोरुहाण्यपि प्राज्ञः स विष्णोर्भुवनं वसेत्
स्थितेष्वस्थिषु गङ्गायां यत्कर्म लभते नरः । ब्रवीमि तत्फलं सर्वं शृणु नान्यमना द्विज
एकदा भगवाञ्छक्रो नानालंकारभूषितः । क्रीडागृहं ययौ कामी युवत्या पद्मगंधया
पद्मगंधा रसज्ञा सा संप्राप्त नवयौवना । नानारसप्रदानेन चकार सुरसं प्रति
सपत्न्याः स्वर्णपर्यंके तस्याः शिशुमृगीदृशः । प्रीतः पादतले जिष्णुरुवास स्मरमोहितः
अथ तस्यै स्वयं शक्रो निर्माय स्वर्णवीटिकाम् । ददाति परमप्रीतस्तद्गुणाकृष्टमानसः
एतस्मिन्नेव काले तु पौलोमी वरसुन्दरी । भूषणैर्भूषिता सर्वैः स्वयं तद्गृहमाययौ
दृष्ट्वा तथाविधं शक्रं सर्वदेवाधिपं प्रभुम् । भृशं चुकोप पौलोमी प्राहेति च सुलक्षणा
शच्युवाच- देव किं कुरुषे कांत त्वं समस्तसुराधिप । मम दासीस्वरूपायै ददासि स्वर्णवीटिकाम्
स्पृशंति त्रिदशाः सर्वे शिरसा चरणौ तव । त्वं कथं पद्मगन्धाया दास्याः पादतले प्रभोः
याचितश्च सुगन्धित्वाद्भृंगः स्यानचतद्यशः । सुंदरी कोटिभर्त्ता त्वं समस्तरसवित्प्रभो
कथमेवंविधं कर्म करोष्यत्यंतकुत्सितम् । निर्गुणे पद्मगन्धेहे दासिदूरं परिव्रज
त्वमीश्वरी च पर्यंके शक्रः पादतले तव । व्यास उवाच- तया निर्भर्त्सिता साध्वी पौलोम्या बहुधा ततः
उवाच पद्मगन्धा सा क्रोधादिति वरांगना । पद्मगंधोवाच- गुणं च मम दोषं च स्वयं स्वाम्येव वेत्ति वै
केनाधिकारेणागत्य त्वं मां निंदसि निर्गुणे । अन्ये नेत्रद्वयेनापि पश्यंति गुणदोषकौ
सहस्रनेत्रैरप्येष न पश्येत्किं दुराशये । यथा दोषो हि लोकानां प्रचरेन्न गुणं तथा
आदौ कलंकश्चन्द्रस्य दृश्यते गुणवज्जनैः । अनर्थभाषिणी क्रूरा कुमूर्त्तिर्गुणवर्जिता
यदाहं नास्मि गुणिनी भजतु त्वां तदा पतिः । व्यास उवाच- इत्युक्त्वा पद्मगंधा सा क्रोधात्कोकनदेक्षणा
उत्तस्थौ स्वर्णपर्यङ्कात्कुर्वंती करुणं महत् । इन्द्र उवाच- प्रिये प्राणेश्वरि श्रेष्ठे मां विहाय क्व गच्छसि
मया किमपराद्धं ते मम तद्वद सुंदरि । कांते दासोऽस्म्यहं नूनं दासकर्म करोमि ते
दासपत्नी भवेद्दासी वाक्यं त्वं न शृणोषि कम् । समुत्थाय ततः शक्रस्तन्मोहाकुलमानसः
अंके निवेशयामास भूयस्तां वरसुंदरीम् । शच्युवाच- क्रौंचित्वज्जीवनं धन्यं व्यर्थं मज्जीवनं ध्रुवम्
त्वं स्वामिसुभगा नित्यं दुर्भगाहं वरांगना । यावत्पुण्यक्षयं क्रौंचि तत्पुण्यं यास्यते क्षयम्
क्रौंचवंशसमुत्पन्ना दुःखंभूयोऽपि भोक्ष्यसि । देवेन्द्रेणसमं तावत्कुरु केलि यथासुखम्
कियद्भिर्दिवसैः क्रौंचि न भवेत्तव निर्गुणे । अत्यद्भुतं वचस्तस्याः पद्मगन्धा निशम्य सा ५० 7.8.
द्वन्द्वभावं परित्यज्य प्रणम्योवाच तां सतीम् । पद्मगंधोवाच- पुलोमजे वरारोहे चित्रमेतत्त्वयोदितम्