विप्रलापः प्रियासक्तेः कृतो नोस्मद्वचः कृतम् । अथ कोपपराच्छंभोराननात्परमाद्भुता
ज्वाला विनिर्गता सापि करालवदनाभवत् । कस्यचित्तु मुनेर्भार्यामाससादाथ सत्वरम्
पलायनपरा चासीद्रामं दृष्ट्वा च बिभ्यती । रामोऽपि ब्राह्मणीं शुद्धां मोचयामीत्यभाषत
जगाम पुष्पकेणैव ब्रुवन्मुक्तिं पुनः पुनः । बाणं च धनुषा योक्तुं न च सस्मार राघवः
शंभुरप्यतिपुण्यानि वनान्यायतनानि च । पुराणि च विचित्राणि दृष्ट्वा रामं न चास्मरत्
क्षणेन च तदा प्राप्तो लोकालोकं महागिरिम् । दृष्ट्वाथ राघवः शैलं गृहमार्गसमाकुलम्
विप्रयोषिन्महाभागा क्व गता वदत द्विजाः । इतो गतेति ते प्रोचुस्तमोभागं गिरेरिति
रामो विवर्णवदनः कष्टमित्यभिचिंतयन् । अथ शंभुर्महातेजाः प्रकाशमतुलं ददौ
तत्प्रकाशप्रभावेण रामः कृत्यां ययावनु । तमोमयी महाभूमिः सर्वजंतुविवर्जिता
आब्रह्मांडकटाहांता शतयोजनकोटितः । महारजतभूमिश्च तमोमध्ये व्यवस्थिता
तत्र नारायणपुरं सूर्यकोटिसमप्रभम् । स राम मुनिवर्यास्तु तं दृष्ट्वा विस्मयं ययुः
किमेतदिति चाचिंत्य नः प्रवेशः कथं भवेत् । किमेष प्रलयाग्निः स्यान्मायया परमात्मनः
किंवा नो मरणं त्वद्य उत श्रेयो भविष्यति । इति चिंताकुलेष्वेव स रामेषु मुनिष्वथ
शंभुराह शृणुष्वाद्य राघवैतद्वदामि ते । प्रकल्पिता मया माया त्वत्कृते नैतदद्भुतम्
नारायणीयमेतत्तु परमं धाम भास्वरम् । उष्णशीताद्यविच्छेद्यं ज्ञानगम्यं न चाक्षुषम्
तत्तु पूजयतश्चोर्ध्वं पश्य ब्रह्मपुरोगमान् । दिक्षु सर्वासु च मुनीन्पश्य पूजयतोऽमलान्
चतुरो निगमान्पश्य स्तुवतः परमं पदम् । योगिनः सनकाद्यास्तु योगमास्थाय यत्नतः
ध्यायंति परमं तेजस्तदिदं पश्य राघव । अमुं च रोमशं पश्य प्रदक्षिणनमस्क्रियाः
कुर्वाणं कोटिकोटीश्च वालखिल्यान्मुनीश्वरान् । लक्ष्म्यादिसर्ववनिता पूज्यमानं परं पदम्
साकारं च निराकारं ब्रह्म यत्परिकीर्तितम् । अज्ञानिनो न पश्यंति पश्यंति ज्ञानचक्षुषः
शंभुवाक्यादतः सर्वे पूजयामासुरच्युतम् । गिरिकर्णीं च तुलसीं मल्लिकां मारुतं तथा
नीलोत्पलैरंबुजैश्च कृष्णास्फुटजलैरपि । पूजयंतो महात्मानो महात्मानं जनार्दनम्
नारदं खेऽथ ददृशुर्जटिलं सविपंचिकम् । नारायणपदाघोषं लंबकूर्चोपवीतिनम्
स चापि मनसा दध्यौ क एष इति नारदः । स पपात प्रभोः पादे शंभोरानंदनिर्भरः
शैवीं पंचाक्षरीं विद्यां जजाप मनसा मुनिः । धन्योऽस्म्यनुगृहीतोऽस्मि जन्माद्यसफलं मम
ब्रह्मादिवंद्यं चागम्यं ज्ञातवानस्मि ते पदम् । नारदं तमथ प्राह शंभुर्मैवं वदेति हि
यथा च मां न जानंति तथा मे कुरु वर्तनम् । गच्छ शीघ्रं हरिं ब्रूहि ममागमनमल्पतः
अथ स त्वरया गत्वा सर्वं व्यज्ञापयद्धरिम् । अथ सत्वरया विष्णोरादायार्घोदकं शुभम्
कमलासहितो योगी कोटिकोटिसमावृतः । निर्ययौ नारदं हस्ते गृहीत्वा गरुडध्वजः
नमोनमो नमोस्त्वस्मै शंकरायेत्युदीरयन् । अर्घपाद्यादिना सर्वान्पूजयामास केशवः