ततस्तृतीयं पाठ्यं स्यात्ततः कार्यं विवेचनम् । अविसर्गांतपूर्वास्ते पवर्गेतरपंचमाः
स्तुतिलिड्वर्जितः श्लोकः शकुनेषु प्रशस्यते । अध्यायादिः समाप्तिश्च वृथा पत्रं वृथा लिपिः
उक्तानुवचनं चैव द्व्युपस्तुतमथैव च । दग्धपत्रं नष्टलिपिः संदिग्धाक्षरमेव च
एतानि शकुने नित्यं वर्जनीयानि पंडितैः । प्रश्नो हि द्विविधो ज्ञेयो दीप्तशांत प्रभेदतः
शांतं च द्विविधं ज्ञेयमुत्पत्तिस्थितिवृद्धितः । तत्र शांतं प्रशस्तं स्याल्लक्षितं पूर्वलक्षणैः
कार्यभेदास्तु वर्ण्यंते केचिन्मर्त्योपयोगिनः । कस्यचित्कार्यमादाय कश्चित्प्रष्टा भवत्यपि
स करोति तदा प्रश्नं समेत्य स्मरतेऽत्र किम् । स पुनर्धार्य पत्रं तत्तस्मिन्पत्रं प्रशस्यते
अथवा तत्क्षमोपेतं वैराग्यं परमेव च । यतः कुतश्चिद्दृष्टस्तु स्तुतिपादकमेव च
परिहृत्य परं चापि तस्मिन्नर्थे शुभावहम् । मृतो गृह्णाति वागर्थमिति प्रश्नोऽशुभप्रदः
विवादे विजयप्रश्ने जयद्योतकमिष्यते । सृष्टिरप्यत्र शस्ता स्यात्क्रूरायां क्लेशतो जयः
प्रशांतायामुपायैस्तु मिश्रायां विड्वरो भवेत् । पुरादिवर्णनं यत्तु मध्यमं यदि चोत्तमम्
कलिसंभावनायास्तु शृंगारस्योपवर्णने । राज्यनिर्वाहचिंतायां राज्यलिंगंशुभावहम्
यस्यापि यादृशं योग्यं विचार्य तादृशं बुधैः । स्तुतिवैराग्ययोः कार्यं विलयः परिकीर्तितः
कार्याल्पसिद्धिः स्खलितेन च निर्वाहमृच्छति । तस्यान्यार्थस्यान्यभावो राम शांतिविचारणे
विसर्गांतश्च पूर्वार्द्ध विपर्यासो भविष्यतः । संकल्पितान्यथाभावो ह्यध्यायस्य समापने
कांडादेस्तु समाप्तौ तु स्यात्तत्कार्यविनाशनम् । तस्मादेतादृशे दोषे शकुनस्य विपर्ययः
क्षुते पुस्तकपाते च त्वाहते मस्तकादिषु । वक्ता वैमाननं याति ततः शकुननाशनम्
तस्मादेतादृशे दोषे शकुनं परिवर्जयेत् । उपमायां भवेद्राम कार्याभासो न वस्तुतः
संतानं भोन्यत्र चोक्ता सृष्टिर्मध्यफलप्रदा । स्तुतिः प्रशस्ता कुत्रापि गुणवत्कार्यनिर्णये
विवाहे चौषधे दाने व्यवहारे कृषौ तथा । यथार्था च स्तुती राम निर्वाहेऽपि न दूषणम्
मुनय ऊचुः - अतःपरं महाभागः किं चकार स राघवः । मुनयश्च महात्मानः किमकुर्वंस्ततः परम्
सूत उवाच- रामचंद्रे सुखासीने विभीषणे कपीश्वरे । शंभुमूचुर्मुनिवराः कथां पुण्यां वदस्व नः
तेषामाकर्ण्य वचनं पार्वतीमाह शंकरः । इदं कस्यापि विप्रस्य गृहं परमशोभनम्
रम्योपवनवापीभिर्वीरुद्भिरुपशोभितम् । कूजन्मधुकरश्रेण्या आहूतकुसुमायुधम्
मध्याह्नसंध्यामारोढुमिव सूर्यः प्रवर्त्तते । छायावापीजलस्नातौ परिधाय सुवाससी
मृगनाभिसमुद्घृष्टघनसारसुचंदनम् । आलिप्य सल्लकीदामदृढधम्मिल्लसंयुतौ
अनल्पघनसारं तु तांबूलं प्रतिखादितम् । आस्वाद्य माद्यन्मुदितौ यत्र धारागृहे शुभे
मयूरनादबहुले बहिर्मधुरगीतकैः । शय्यायामास्तृतायां च परस्परसुखस्थितौ
विशालस्मितरक्तोष्ठमाननं चुंबितं यदि । संसारफलमाघ्रातमावयोस्तु भविष्यति
इतीरितमथ श्रुत्वा कुपिता मुनयस्तु ते । उक्तं वा सुशुभं वाक्यमस्मासु किमिदं त्वया