अन्यतीर्थे कृतं पापं गङ्गायां च विनश्यति । गङ्गायां यत्कृतं पापं तत्कुत्रापि न शाम्यते
तस्मात्पापं न कर्तव्यं गङ्गायां शास्त्रकोविदैः । कर्मणा मनसा वाचा कर्तव्यो धर्मसंग्रहः
न ते देशा न ते शैला न च तानि वनानि च । पापविध्वंसिनी यत्र न तिष्ठेत्सुरनिम्नगा
गङ्गातीरं परित्यज्य मुहूर्तमपि जैमिने । न च स्थातव्यमन्यत्र यदि कार्यशतान्यपि
भिक्षान्नमपि भुक्त्वा च स्थातव्यं जाह्नवीतटे । न चान्यत्र क्षणमपि प्राप्य भूपालतामपि
संत्यज्य देहं गङ्गायां ब्रह्महापि विमुच्यते । अन्यत्र मुक्तये न स्यादश्वमेधसहस्रकृत्
गङ्गातीरे वसन्यस्तु हरिपूजापरो भवेत् । जन्मजन्मांतरे येन कदाचिन्नार्चितो हरिः
भक्तिर्भवति नैतस्य गङ्गायां लोकमातरि । श्रूयतां मानवाः सर्वे भूयोभूयो ब्रवीम्यहम्
स्नानं विधाय गङ्गायां गम्यतां परमं पदम् । मृत्युकाले भजेद्यस्तु गङ्गागङ्गेति मानवः
विमुक्तःपातकैः सर्वैर्दिवि देवयुगायुतम् । यस्य गङ्गाकथारम्भो मृत्युकाले भवेद्द्विज
स गच्छेद्विष्णुभवनं गलिताखिल कल्मषः । यस्तु स्मरति वै प्राज्ञो मृत्युकाले द्विजोत्तम
गङ्गेति मुक्तिदं नाम तस्य तुष्टो भवेद्धरिः । मृत्युकाले भवेद्यस्तु गङ्गामृत्पुण्ड्रमुत्तमम्
गङ्गास्नायिनमालोक्य त्यजेद्यस्तु कलेवरम् । श्मशानेऽपि द्विजश्रेष्ठ स गङ्गामरणं लभेत्
तिष्ठंत्यस्थीनि गङ्गायां यावत्कालं शरीरिणः । तावत्कल्पसहस्राणि विष्णुलोके महीयते
यस्य मज्जन्ति गङ्गायां भस्मास्थीनि नखानि च । शिरोरुहाण्यपि प्राज्ञः स विष्णोर्भुवनं वसेत्
स्थितेष्वस्थिषु गङ्गायां यत्कर्म लभते नरः । ब्रवीमि तत्फलं सर्वं शृणु नान्यमना द्विज
एकदा भगवाञ्छक्रो नानालंकारभूषितः । क्रीडागृहं ययौ कामी युवत्या पद्मगंधया
पद्मगंधा रसज्ञा सा संप्राप्त नवयौवना । नानारसप्रदानेन चकार सुरसं प्रति
सपत्न्याः स्वर्णपर्यंके तस्याः शिशुमृगीदृशः । प्रीतः पादतले जिष्णुरुवास स्मरमोहितः
अथ तस्यै स्वयं शक्रो निर्माय स्वर्णवीटिकाम् । ददाति परमप्रीतस्तद्गुणाकृष्टमानसः
एतस्मिन्नेव काले तु पौलोमी वरसुन्दरी । भूषणैर्भूषिता सर्वैः स्वयं तद्गृहमाययौ
दृष्ट्वा तथाविधं शक्रं सर्वदेवाधिपं प्रभुम् । भृशं चुकोप पौलोमी प्राहेति च सुलक्षणा
शच्युवाच- देव किं कुरुषे कांत त्वं समस्तसुराधिप । मम दासीस्वरूपायै ददासि स्वर्णवीटिकाम्
स्पृशंति त्रिदशाः सर्वे शिरसा चरणौ तव । त्वं कथं पद्मगन्धाया दास्याः पादतले प्रभोः
याचितश्च सुगन्धित्वाद्भृंगः स्यानचतद्यशः । सुंदरी कोटिभर्त्ता त्वं समस्तरसवित्प्रभो
कथमेवंविधं कर्म करोष्यत्यंतकुत्सितम् । निर्गुणे पद्मगन्धेहे दासिदूरं परिव्रज
त्वमीश्वरी च पर्यंके शक्रः पादतले तव । व्यास उवाच- तया निर्भर्त्सिता साध्वी पौलोम्या बहुधा ततः
उवाच पद्मगन्धा सा क्रोधादिति वरांगना । पद्मगंधोवाच- गुणं च मम दोषं च स्वयं स्वाम्येव वेत्ति वै
केनाधिकारेणागत्य त्वं मां निंदसि निर्गुणे । अन्ये नेत्रद्वयेनापि पश्यंति गुणदोषकौ
सहस्रनेत्रैरप्येष न पश्येत्किं दुराशये । यथा दोषो हि लोकानां प्रचरेन्न गुणं तथा