स्खलितलसितपादाम्भोजमन्दाभिघातच्छुरितमणितुलाकोट्याकुलाशामुखानाम् । चलदधरदलानांकुड्मलापक्ष्मलाक्षि- द्वयसरसिरुहाणामुल्लसत्कुण्डलानाम्
द्राघिष्ठश्वसनसमीरणाभितापप्रम्लानीभवदरुणौष्ठपल्लवानाम् । नानोपायनविलसत्कराम्बुजानामालीभिः सततनिषेवितं समन्तात्
तासामायतलोलनीलनयनव्याकोशलीनाम्बुज- स्रग्भिः संपरिपूजिताखिलतनुं नानाविलासास्पदम् । तन्मुग्धाननपङ्कजप्रविगलन्माध्वीरसास्वादिनीं- बिभ्राणं प्रणयान्मदाक्षिमधुहृन्मालां मनोहारिणीम्
गोपीगोपपशूनां बहिः स्मरेदग्रतोऽस्य गीर्वाणघटांवित्तार्थिनीं विरिञ्चित्रिनयनशतमन्युपूर्विकां स्तोत्रपराम्
तद्वद्दक्षिणतो मुनिनिकरं दृढधर्मवाञ्छया समाम्नायपरम् । योगीन्द्रानथ पृष्ठे मुमुक्षमाणान्समाधिना तु सनकाद्यान्
सव्ये सकान्तानथ यक्षसिद्धगन्धर्वविद्याधरचारणांश्च । सकिन्नरानप्सरसश्च मुख्याः कामार्थिनीर्नर्तनगीतवाद्यैः
शङ्खेन्दुकुन्दधवलं सकलागमज्ञं सौदामिनीततिपिशङ्गजटाकलापम् । तत्पादपङ्कजगताममलां च भक्तिं वाञ्छन्तमुज्झिततरान्यसमस्तसङ्गम्
नानाविध श्रुतिगुणान्वितसप्तरागग्रामत्रयीगतमनोहरमूर्छनाभिः । संप्रीणयन्तमुदिताभिरपि प्रभक्त्या संचिन्तयन्नभसि मां द्रुहिणप्रसूतम्
इति ध्यात्वाऽत्मानं पटुविशदधीर्नन्दतनयं नरो बुद्ध्यैवाऽर्घप्रभृतिभिरनिन्द्योपहृतिभिः । यजेद्भूयो भक्त्या स्ववपुषि बहिष्ठैश्च विभवैरिति प्रोक्तं सर्वं यदभिलषितं भूसुरवराः
इति श्रीपद्मपुराणे पातालखंडे वैशाखमाहात्म्ये त्र्युत्तरशततमोऽध्यायः
ऋषय ऊचुः - भूयो वद महाभाग रामचारित्रमद्भुतम् । राममाहात्म्यसर्वस्वं भक्तानां प्रीतिदायकम्
सूत उवाच- अश्वमेधं क्रतुवरं कृत्वा दाशरथिर्यथा
प्रवृत्तो लोककृत्येषु शास्त्रकृत्येषु कोविदः । अयोध्यां गंतुकामेन शंकरेण महात्मना
पार्वत्या सह देवेन उषितः सरयूतटे । मुनयस्तं समभ्येत्य शंकरं विश्वरूपिणम्
कश्यपाद्या महात्मानः पप्रच्छुरमितौजसम् । स्वागतं ते मुनिश्रेष्ठ सभार्यः कुत आगतः
किमागमनकृत्यं ते कं देशं गंतुमुद्यतः । शंकर उवाच- अहं शंभुरिति ख्यातो विप्रो हिमगिरिस्थितः
द्रष्टुं च राघवं गच्छे मम कार्यं महत्ततः । मामाह्वयति राजासौ पुराणश्रवणे रतः
आगच्छंतु भवंतोऽपि राघवः परितुष्यति । ततस्ते मुनयः शंभुर्ययू रामदिदृक्षया
तानागतान्वसिष्ठस्तु ज्ञात्वा रामाय चोक्तवान् । ततः सत्वरमुत्थाय निर्ययौ स पुरोहितः
अर्घ्यपाद्यादिकैस्सर्वान्पूजयामास तानृषीन् । गृहराजं ततः सर्वान्प्रावेशयदरिंदमः
प्रत्येकमासनं दत्वा स्वागतोक्त्यासनस्थितान् । क्रमेण रघुशार्दूलः पूजयामास तानृषीन्
वाचा मधुरया प्रीणन्निदमाहासनस्थितान् । श्रीराम उवाच- अद्य मे सफलं जन्म प्राप्तमद्य तपः फलम्
अद्याभ्यासस्य विद्यानां फलकालोऽयमागतः । अद्य मे पितरस्तुष्टा राज्यं च सफलं मम
अद्य मे सफलं वृत्तमद्य मे सफलं श्रुतम् । एवं वदंतं राजानं ब्राह्मणाः कश्यपादयः
ऊचुः प्रियतरं वाक्यं रामं राजीवलोचनम् । ऋषय ऊचुः अयं शंभुर्द्विजः प्राप्तः सर्वशास्त्रविशारदः
वेदवेदांगतत्त्वज्ञः सर्वभूतहिते रतः । कैलासवासी सततं तपसे कृतनिश्चयः
ब्रह्मणा ब्रह्मवर्चस्के तुल्यो ब्रह्मविदां वरः । हरिणा ब्रह्मवात्सल्ये प्रसादे शंकरोपमः
एवंविधो महातेजाः शंभुर्ब्राह्मणपुंगवः । अष्टादशपुराणज्ञो मीमांसा न्यायकोविदः
त्वद्भाग्यगौरवादेव प्राप्तोऽयं मुनिसत्तमः । त्वयाहूतो मुनिवरः कैलासादागतः प्रभो
अतः पृच्छ महाभाग पुराणाख्यानमुत्तमम् । श्रोतुकामा वयं प्राप्तास्त्वामद्य रघुनंदन